वैशम्पाय़न उवाच:
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमव्रवीत् |
१ क
वैशम्पाय़न उवाच:
राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ||
१ ख
वैशम्पाय़न उवाच:
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिन्दमः |
२ क
वैशम्पाय़न उवाच:
व्यूढोरस्को महावाहुस्ताम्रास्यो मितभाषिता ||
२ ख
वैशम्पाय़न उवाच:
विशाखय़ूपे देवानां सर्वेषामग्नय़श्चिताः |
३ क
वैशम्पाय़न उवाच:
तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् ||
३ ख
वैशम्पाय़न उवाच:
अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये |
४ क
वैशम्पाय़न उवाच:
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव |
४ ख
वैशम्पाय़न उवाच:
वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् ||
४ ग
वैशम्पाय़न उवाच:
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु |
५ क
वैशम्पाय़न उवाच:
देवय़ानेन नाकस्य पृष्ठमाप्नोति भारत ||
५ ख
वैशम्पाय़न उवाच:
अत्याश्रमानय़ं सर्वानित्याहुर्वेदनिश्चय़ाः |
६ क
वैशम्पाय़न उवाच:
व्राह्मणाः श्रुतिसम्पन्नास्तान्निवोध जनाधिप ||
६ ख
वैशम्पाय़न उवाच:
वित्तानि धर्मलव्धानि क्रतुमुख्येष्ववासृजन् |
७ क
वैशम्पाय़न उवाच:
कृतात्मसु महाराज स वै त्यागी स्मृतो नरः ||
७ ख
वैशम्पाय़न उवाच:
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः |
८ क
वैशम्पाय़न उवाच:
आत्मत्यागी महाराज स त्यागी तामसः प्रभो ||
८ ख
वैशम्पाय़न उवाच:
अनिकेतः परिपतन्वृक्षमूलाश्रय़ो मुनिः |
९ क
वैशम्पाय़न उवाच:
अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ||
९ ख
वैशम्पाय़न उवाच:
क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते |
१० क
वैशम्पाय़न उवाच:
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ||
१० ख
वैशम्पाय़न उवाच:
आश्रमांस्तुलय़ा सर्वान्धृतानाहुर्मनीषिणः |
११ क
वैशम्पाय़न उवाच:
एकतस्ते त्रय़ो राजन्गृहस्थाश्रम एकतः ||
११ ख
वैशम्पाय़न उवाच:
समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत |
१२ क
वैशम्पाय़न उवाच:
अय़ं पन्था महर्षीणामिय़ं लोकविदां गतिः ||
१२ ख
वैशम्पाय़न उवाच:
इति यः कुरुते भावं स त्यागी भरतर्षभ |
१३ क
वैशम्पाय़न उवाच:
न यः परित्यज्य गृहान्वनमेति विमूढवत् ||
१३ ख
वैशम्पाय़न उवाच:
यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः |
१४ क
वैशम्पाय़न उवाच:
अथैनं मृत्युपाशेन कण्ठे वध्नाति मृत्युराट् ||
१४ ख
वैशम्पाय़न उवाच:
अभिमानकृतं कर्म नैतत्फलवदुच्यते |
१५ क
वैशम्पाय़न उवाच:
त्यागय़ुक्तं महाराज सर्वमेव महाफलम् ||
१५ ख
वैशम्पाय़न उवाच:
शमो दमस्तपो दानं सत्यं शौचमथार्जवम् |
१६ क
वैशम्पाय़न उवाच:
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ||
१६ ख
वैशम्पाय़न उवाच:
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते |
१७ क
वैशम्पाय़न उवाच:
अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ||
१७ ख
वैशम्पाय़न उवाच:
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते |
१८ क
वैशम्पाय़न उवाच:
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ||
१८ ख
वैशम्पाय़न उवाच:
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः |
१९ क
वैशम्पाय़न उवाच:
मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः ||
१९ ख
वैशम्पाय़न उवाच:
वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः |
२० क
वैशम्पाय़न उवाच:
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ||
२० ख
वैशम्पाय़न उवाच:
गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् |
२१ क
वैशम्पाय़न उवाच:
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ||
२१ ख
वैशम्पाय़न उवाच:
तत्सम्प्राप्य गृहस्था ये पशुधान्यसमन्विताः |
२२ क
वैशम्पाय़न उवाच:
न यजन्ते महाराज शाश्वतं तेषु किल्विषम् ||
२२ ख
वैशम्पाय़न उवाच:
स्वाध्याय़यज्ञा ऋषय़ो ज्ञानय़ज्ञास्तथापरे |
२३ क
वैशम्पाय़न उवाच:
अथापरे महाय़ज्ञान्मनसैव वितन्वते ||
२३ ख
वैशम्पाय़न उवाच:
एवं दानसमाधानं मार्गमातिष्ठतो नृप |
२४ क
वैशम्पाय़न उवाच:
द्विजातेर्व्रह्मभूतस्य स्पृहय़न्ति दिवौकसः ||
२४ ख
वैशम्पाय़न उवाच:
स रत्नानि विचित्राणि सम्भृतानि ततस्ततः |
२५ क
वैशम्पाय़न उवाच:
मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि |
२५ ख
वैशम्पाय़न उवाच:
कुटुम्वमास्थिते त्यागं न पश्यामि नराधिप ||
२५ ग
वैशम्पाय़न उवाच:
राजसूय़ाश्वमेधेषु सर्वमेधेषु वा पुनः |
२६ क
वैशम्पाय़न उवाच:
य चान्ये क्रतवस्तात व्राह्मणैरभिपूजिताः |
२६ ख
वैशम्पाय़न उवाच:
तैर्यजस्व महाराज शक्रो देवपतिर्यथा ||
२६ ग
वैशम्पाय़न उवाच:
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् |
२७ क
वैशम्पाय़न उवाच:
अशरण्यः प्रजानां यः स राजा कलिरुच्यते ||
२७ ख
वैशम्पाय़न उवाच:
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलङ्कृताः |
२८ क
वैशम्पाय़न उवाच:
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ||
२८ ख
वैशम्पाय़न उवाच:
अप्रदाय़ द्विजातिभ्यो मात्सर्याविष्टचेतसः |
२९ क
वैशम्पाय़न उवाच:
वय़ं ते राजकलय़ो भविष्यामो विशां पते ||
२९ ख
वैशम्पाय़न उवाच:
अदातारोऽशरण्याश्च राजकिल्विषभागिनः |
३० क
वैशम्पाय़न उवाच:
दुःखानामेव भोक्तारो न सुखानां कदाचन ||
३० ख
वैशम्पाय़न उवाच:
अनिष्ट्वा च महाय़ज्ञैरकृत्वा च पितृस्वधाम् |
३१ क
वैशम्पाय़न उवाच:
तीर्थेष्वनभिसन्त्यज्य प्रव्रजिष्यसि चेदथ ||
३१ ख
वैशम्पाय़न उवाच:
छिन्नाभ्रमिव गन्तासि विलय़ं मारुतेरितम् |
३२ क
वैशम्पाय़न उवाच:
लोकय़ोरुभय़ोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ||
३२ ख
वैशम्पाय़न उवाच:
अन्तर्वहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम् |
३३ क
वैशम्पाय़न उवाच:
परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते ||
३३ ख
वैशम्पाय़न उवाच:
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते |
३४ क
वैशम्पाय़न उवाच:
व्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ||
३४ ख
वैशम्पाय़न उवाच:
निहत्य शत्रूंस्तरसा समृद्धा; न्शक्रो यथा दैत्यवलानि सङ्ख्ये |
३५ क
वैशम्पाय़न उवाच:
कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ||
३५ ख
वैशम्पाय़न उवाच:
क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय़ |
३६ क
वैशम्पाय़न उवाच:
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ ||
३६ ख