chevron_left आश्वमेधिक पर्व अध्याय १२
वासुदेव उवाच:
द्विविधो जाय़ते व्याधिः शारीरो मानसस्तथा |
१ क
वासुदेव उवाच:
परस्परं तय़ोर्जन्म निर्द्वन्द्वं नोपलभ्यते ||
१ ख
वासुदेव उवाच:
शरीरे जाय़ते व्याधिः शारीरो नात्र संशय़ः |
२ क
वासुदेव उवाच:
मानसो जाय़ते व्याधिर्मनस्येवेति निश्चय़ः ||
२ ख
वासुदेव उवाच:
शीतोष्णे चैव वाय़ुश्च गुणा राजञ्शरीरजाः |
३ क
वासुदेव उवाच:
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् |
३ ख
वासुदेव उवाच:
उष्णेन वाध्यते शीतं शीतेनोष्णं च वाध्यते ||
३ ग
वासुदेव उवाच:
सत्त्वं रजस्तमश्चेति त्रय़स्त्वात्मगुणाः स्मृताः |
४ क
वासुदेव उवाच:
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् |
४ ख
वासुदेव उवाच:
तेषामन्यतमोत्सेके विधानमुपदिश्यते ||
४ ग
वासुदेव उवाच:
हर्षेण वाध्यते शोको हर्षः शोकेन वाध्यते |
५ क
वासुदेव उवाच:
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति |
५ ख
वासुदेव उवाच:
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ||
५ ग
वासुदेव उवाच:
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा |
६ क
वासुदेव उवाच:
स्मर्तुमिच्छसि कौन्तेय़ दिष्टं हि वलवत्तरम् ||
६ ख
वासुदेव उवाच:
अथ वा ते स्वभावोऽय़ं येन पार्थावकृष्यसे |
७ क
वासुदेव उवाच:
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् |
७ ख
वासुदेव उवाच:
मिषतां पाण्डवेय़ानां न तत्संस्मर्तुमिच्छसि ||
७ ग
वासुदेव उवाच:
प्रव्राजनं च नगरादजिनैश्च विवासनम् |
८ क
वासुदेव उवाच:
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ||
८ ख
वासुदेव उवाच:
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः |
९ क
वासुदेव उवाच:
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ||
९ ख
वासुदेव उवाच:
पुनरज्ञातचर्याय़ां कीचकेन पदा वधः |
१० क
वासुदेव उवाच:
याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ||
१० ख
वासुदेव उवाच:
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम |
११ क
वासुदेव उवाच:
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् |
११ ख
वासुदेव उवाच:
तस्मादभ्युपगन्तव्यं युद्धाय़ भरतर्षभ ||
११ ग
वासुदेव उवाच:
परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः |
१२ क
वासुदेव उवाच:
यत्र नैव शरैः कार्यं न भृत्यैर्न च वन्धुभिः |
१२ ख
वासुदेव उवाच:
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||
१२ ग
वासुदेव उवाच:
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि |
१३ क
वासुदेव उवाच:
एतज्ज्ञात्वा तु कौन्तेय़ कृतकृत्यो भविष्यसि ||
१३ ख
वासुदेव उवाच:
एतां वुद्धिं विनिश्चित्य भूतानामागतिं गतिम् |
१४ क
वासुदेव उवाच:
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||
१४ ख