chevron_left सभा पर्व अध्याय १२
वैशम्पाय़न उवाच:
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
चिन्तय़न्राजसूय़ाप्तिं न लेभे शर्म भारत ||
१ ख
वैशम्पाय़न उवाच:
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् |
२ क
वैशम्पाय़न उवाच:
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ||
२ ख
वैशम्पाय़न उवाच:
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः |
३ क
वैशम्पाय़न उवाच:
यज्वानं यज्ञमाहर्तुं राजसूय़मिय़ेष सः ||
३ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्ततः सर्वानर्चय़ित्वा सभासदः |
४ क
वैशम्पाय़न उवाच:
प्रत्यर्चितश्च तैः सर्वैर्यज्ञाय़ैव मनो दधे ||
४ ख
वैशम्पाय़न उवाच:
स राजसूय़ं राजेन्द्र कुरूणामृषभः क्रतुम् |
५ क
वैशम्पाय़न उवाच:
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य सोऽसकृत् ||
५ ख
वैशम्पाय़न उवाच:
भूय़श्चाद्भुतवीर्यौजा धर्ममेवानुपालय़न् |
६ क
वैशम्पाय़न उवाच:
किं हितं सर्वलोकानां भवेदिति मनो दधे ||
६ ख
वैशम्पाय़न उवाच:
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः |
७ क
वैशम्पाय़न उवाच:
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ||
७ ख
वैशम्पाय़न उवाच:
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः |
८ क
वैशम्पाय़न उवाच:
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ||
८ ख
वैशम्पाय़न उवाच:
स मन्त्रिणः समानाय़्य भ्रातॄंश्च वदतां वरः |
९ क
वैशम्पाय़न उवाच:
राजसूय़ं प्रति तदा पुनः पुनरपृच्छत ||
९ ख
वैशम्पाय़न उवाच:
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा |
१० क
वैशम्पाय़न उवाच:
युधिष्ठिरं महाप्राज्ञं यिय़क्षुमिदमव्रुवन् ||
१० ख
वैशम्पाय़न उवाच:
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति |
११ क
वैशम्पाय़न उवाच:
तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ||
११ ख
वैशम्पाय़न उवाच:
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन |
१२ क
वैशम्पाय़न उवाच:
राजसूय़स्य समय़ं मन्यन्ते सुहृदस्तव ||
१२ ख
वैशम्पाय़न उवाच:
तस्य यज्ञस्य समय़ः स्वाधीनः क्षत्रसम्पदा |
१३ क
वैशम्पाय़न उवाच:
साम्ना षडग्नय़ो यस्मिंश्चीय़न्ते संशितव्रतैः ||
१३ ख
वैशम्पाय़न उवाच:
दर्वीहोमानुपादाय़ सर्वान्यः प्राप्नुते क्रतून् |
१४ क
वैशम्पाय़न उवाच:
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ||
१४ ख
वैशम्पाय़न उवाच:
समर्थोऽसि महावाहो सर्वे ते वशगा वय़म् |
१५ क
वैशम्पाय़न उवाच:
अविचार्य महाराज राजसूय़े मनः कुरु ||
१५ ख
वैशम्पाय़न उवाच:
इत्येवं सुहृदः सर्वे पृथक्च सह चाव्रुवन् |
१६ क
वैशम्पाय़न उवाच:
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते |
१६ ख
वैशम्पाय़न उवाच:
धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ||
१६ ग
वैशम्पाय़न उवाच:
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् |
१७ क
वैशम्पाय़न उवाच:
पुनः पुनर्मनो दध्रे राजसूय़ाय़ भारत ||
१७ ख
वैशम्पाय़न उवाच:
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः |
१८ क
वैशम्पाय़न उवाच:
धौम्यद्वैपाय़नाद्यैश्च मन्त्रय़ामास मन्त्रिभिः ||
१८ ख
युधिष्ठिर उवाच:
इय़ं या राजसूय़स्य सम्राडर्हस्य सुक्रतोः |
१९ क
युधिष्ठिर उवाच:
श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ||
१९ ख
वैशम्पाय़न उवाच:
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन |
२० क
वैशम्पाय़न उवाच:
इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् |
२० ख
वैशम्पाय़न उवाच:
अर्हस्त्वमसि धर्मज्ञ राजसूय़ं महाक्रतुम् ||
२० ग
वैशम्पाय़न उवाच:
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा |
२१ क
वैशम्पाय़न उवाच:
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजय़न् ||
२१ ख
वैशम्पाय़न उवाच:
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् |
२२ क
वैशम्पाय़न उवाच:
भूय़ो विममृशे पार्थो लोकानां हितकाम्यया ||
२२ ख
वैशम्पाय़न उवाच:
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ |
२३ क
वैशम्पाय़न उवाच:
विमृश्य सम्यक्च धिय़ा कुर्वन्प्राज्ञो न सीदति ||
२३ ख
वैशम्पाय़न उवाच:
न हि यज्ञसमारम्भः केवलात्मविपत्तय़े |
२४ क
वैशम्पाय़न उवाच:
भवतीति समाज्ञाय़ यत्नतः कार्यमुद्वहन् ||
२४ ख
वैशम्पाय़न उवाच:
स निश्चय़ार्थं कार्यस्य कृष्णमेव जनार्दनम् |
२५ क
वैशम्पाय़न उवाच:
सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ||
२५ ख
वैशम्पाय़न उवाच:
अप्रमेय़ं महावाहुं कामाज्जातमजं नृषु |
२६ क
वैशम्पाय़न उवाच:
पाण्डवस्तर्कय़ामास कर्मभिर्देवसंमितैः ||
२६ ख
वैशम्पाय़न उवाच:
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् |
२७ क
वैशम्पाय़न उवाच:
न स किञ्चिन्न विषहेदिति कृष्णममन्यत ||
२७ ख
वैशम्पाय़न उवाच:
स तु तां नैष्ठिकीं वुद्धिं कृत्वा पार्थो युधिष्ठिरः |
२८ क
वैशम्पाय़न उवाच:
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ||
२८ ख
वैशम्पाय़न उवाच:
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् |
२९ क
वैशम्पाय़न उवाच:
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ||
२९ ख
वैशम्पाय़न उवाच:
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षय़ाच्युतः |
३० क
वैशम्पाय़न उवाच:
इन्द्रसेनेन सहित इन्द्रप्रस्थं यय़ौ तदा ||
३० ख
वैशम्पाय़न उवाच:
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः |
३१ क
वैशम्पाय़न उवाच:
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ||
३१ ख
वैशम्पाय़न उवाच:
स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः |
३२ क
वैशम्पाय़न उवाच:
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ||
३२ ख
वैशम्पाय़न उवाच:
प्रीतः प्रिय़ेण सुहृदा रेमे स सहितस्तदा |
३३ क
वैशम्पाय़न उवाच:
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ||
३३ ख
वैशम्पाय़न उवाच:
तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् |
३४ क
वैशम्पाय़न उवाच:
धर्मराजः समागम्य ज्ञापय़त्स्वं प्रय़ोजनम् ||
३४ ख
युधिष्ठिर उवाच:
प्रार्थितो राजसूय़ो मे न चासौ केवलेप्सय़ा |
३५ क
युधिष्ठिर उवाच:
प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ||
३५ ख
युधिष्ठिर उवाच:
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते |
३६ क
युधिष्ठिर उवाच:
यश्च सर्वेश्वरो राजा राजसूय़ं स विन्दति ||
३६ ख
युधिष्ठिर उवाच:
तं राजसूय़ं सुहृदः कार्यमाहुः समेत्य मे |
३७ क
युधिष्ठिर उवाच:
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ||
३७ ख
युधिष्ठिर उवाच:
केचिद्धि सौहृदादेव दोषं न परिचक्षते |
३८ क
युधिष्ठिर उवाच:
अर्थहेतोस्तथैवान्ये प्रिय़मेव वदन्त्युत ||
३८ ख
युधिष्ठिर उवाच:
प्रिय़मेव परीप्सन्ते केचिदात्मनि यद्धितम् |
३९ क
युधिष्ठिर उवाच:
एवम्प्राय़ाश्च दृश्यन्ते जनवादाः प्रय़ोजने ||
३९ ख
युधिष्ठिर उवाच:
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च |
४० क
युधिष्ठिर उवाच:
परमं नः क्षमं लोके यथावद्वक्तुमर्हसि ||
४० ख