लोमश उवाच:
समुद्रं स समासाद्य वारुणिर्भगवानृषिः |
१ क
लोमश उवाच:
उवाच सहितान्देवानृषींश्चैव समागतान् ||
१ ख
लोमश उवाच:
एष लोकहितार्थं वै पिवामि वरुणालय़म् |
२ क
लोमश उवाच:
भवद्भिर्यदनुष्ठेय़ं तच्छीघ्रं संविधीय़ताम् ||
२ ख
लोमश उवाच:
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः |
३ क
लोमश उवाच:
समुद्रमपिवत्क्रुद्धः सर्वलोकस्य पश्यतः ||
३ ख
लोमश उवाच:
पीय़मानं समुद्रं तु दृष्ट्वा देवाः सवासवाः |
४ क
लोमश उवाच:
विस्मय़ं परमं जग्मुः स्तुतिभिश्चाप्यपूजय़न् ||
४ ख
लोमश उवाच:
त्वं नस्त्राता विधाता च लोकानां लोकभावनः |
५ क
लोमश उवाच:
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ||
५ ख
लोमश उवाच:
सम्पूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः |
६ क
लोमश उवाच:
दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार ||
६ ख
लोमश उवाच:
दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः |
७ क
लोमश उवाच:
प्रगृह्य दिव्यानि वराय़ुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः ||
७ ख
लोमश उवाच:
ते वध्यमानास्त्रिदशैर्महात्मभि; र्महावलैर्वेगिभिरुन्नदद्भिः |
८ क
लोमश उवाच:
न सेहिरे वेगवतां महात्मनां; वेगं तदा धारय़ितुं दिवौकसाम् ||
८ ख
लोमश उवाच:
ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः |
९ क
लोमश उवाच:
चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ||
९ ख
लोमश उवाच:
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः |
१० क
लोमश उवाच:
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ||
१० ख
लोमश उवाच:
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः |
११ क
लोमश उवाच:
निहत्य वह्वशोभन्त पुष्पिता इव किंशुकाः ||
११ ख
लोमश उवाच:
हतशेषास्ततः केचित्कालेय़ा मनुजोत्तम |
१२ क
लोमश उवाच:
विदार्य वसुधां देवीं पातालतलमाश्रिताः ||
१२ ख
लोमश उवाच:
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम् |
१३ क
लोमश उवाच:
तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाव्रुवन्वचः ||
१३ ख
लोमश उवाच:
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् |
१४ क
लोमश उवाच:
त्वत्तेजसा च निहताः कालेय़ाः क्रूरविक्रमाः ||
१४ ख
लोमश उवाच:
पूरय़स्व महावाहो समुद्रं लोकभावन |
१५ क
लोमश उवाच:
यत्त्वय़ा सलिलं पीतं तदस्मिन्पुनरुत्सृज ||
१५ ख
लोमश उवाच:
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः |
१६ क
लोमश उवाच:
जीर्णं तद्धि मय़ा तोय़मुपाय़ोऽन्यः प्रचिन्त्यताम् |
१६ ख
लोमश उवाच:
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ||
१६ ग
लोमश उवाच:
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः |
१७ क
लोमश उवाच:
विस्मिताश्च विषण्णाश्च वभूवुः सहिताः सुराः ||
१७ ख
लोमश उवाच:
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम् |
१८ क
लोमश उवाच:
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ||
१८ ख
लोमश उवाच:
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् |
१९ क
लोमश उवाच:
पूरणार्थं समुद्रस्य मन्त्रय़ित्वा पुनः पुनः |
१९ ख
लोमश उवाच:
ऊचुः प्राञ्जलय़ः सर्वे सागरस्याभिपूरणम् ||
१९ ग