chevron_left विराट पर्व अध्याय १२
जनमेजय़ उवाच:
एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः |
१ क
जनमेजय़ उवाच:
अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज ||
१ ख
वैशम्पाय़न उवाच:
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः |
२ क
वैशम्पाय़न उवाच:
आराधय़न्तो राजानं यदकुर्वन्त तच्छृणु ||
२ ख
वैशम्पाय़न उवाच:
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रिय़ः |
३ क
वैशम्पाय़न उवाच:
तथैव च विराटस्य सपुत्रस्य विशां पते ||
३ ख
वैशम्पाय़न उवाच:
स ह्यक्षहृदय़ज्ञस्तान्क्रीडय़ामास पाण्डवः |
४ क
वैशम्पाय़न उवाच:
अक्षवत्यां यथाकामं सूत्रवद्धानिव द्विजान् ||
४ ख
वैशम्पाय़न उवाच:
अज्ञातं च विराटस्य विजित्य वसु धर्मराट् |
५ क
वैशम्पाय़न उवाच:
भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रय़च्छति ||
५ ख
वैशम्पाय़न उवाच:
भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च |
६ क
वैशम्पाय़न उवाच:
अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे ||
६ ख
वैशम्पाय़न उवाच:
वासांसि परिजीर्णानि लव्धान्यन्तःपुरेऽर्जुनः |
७ क
वैशम्पाय़न उवाच:
विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रय़च्छति ||
७ ख
वैशम्पाय़न उवाच:
सहदेवोऽपि गोपानां वेषमास्थाय़ पाण्डवः |
८ क
वैशम्पाय़न उवाच:
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रय़च्छति ||
८ ख
वैशम्पाय़न उवाच:
नकुलोऽपि धनं लव्ध्वा कृते कर्मणि वाजिनाम् |
९ क
वैशम्पाय़न उवाच:
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रय़च्छति ||
९ ख
वैशम्पाय़न उवाच:
कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी |
१० क
वैशम्पाय़न उवाच:
यथा पुनरविज्ञाता तथा चरति भामिनी ||
१० ख
वैशम्पाय़न उवाच:
एवं सम्पादय़न्तस्ते तथान्योन्यं महारथाः |
११ क
वैशम्पाय़न उवाच:
प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ||
११ ख
वैशम्पाय़न उवाच:
अथ मासे चतुर्थे तु व्रह्मणः सुमहोत्सवः |
१२ क
वैशम्पाय़न उवाच:
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ||
१२ ख
वैशम्पाय़न उवाच:
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः |
१३ क
वैशम्पाय़न उवाच:
महाकाय़ा महावीर्याः कालखञ्जा इवासुराः ||
१३ ख
वैशम्पाय़न उवाच:
वीर्योन्नद्धा वलोदग्रा राज्ञा समभिपूजिताः |
१४ क
वैशम्पाय़न उवाच:
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः |
१४ ख
वैशम्पाय़न उवाच:
असकृल्लव्धलक्षास्ते रङ्गे पार्थिवसंनिधौ ||
१४ ग
वैशम्पाय़न उवाच:
तेषामेको महानासीत्सर्वमल्लान्समाह्वय़त् |
१५ क
वैशम्पाय़न उवाच:
आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ||
१५ ख
वैशम्पाय़न उवाच:
यदा सर्वे विमनसस्ते मल्ला हतचेतसः |
१६ क
वैशम्पाय़न उवाच:
अथ सूदेन तं मल्लं योधय़ामास मत्स्यराट् ||
१६ ख
वैशम्पाय़न उवाच:
चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् |
१७ क
वैशम्पाय़न उवाच:
न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ||
१७ ख
वैशम्पाय़न उवाच:
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् |
१८ क
वैशम्पाय़न उवाच:
प्रविवेश महारङ्गं विराटमभिहर्षय़न् ||
१८ ख
वैशम्पाय़न उवाच:
ववन्ध कक्ष्यां कौन्तेय़स्ततस्तं हर्षय़ञ्जनम् |
१९ क
वैशम्पाय़न उवाच:
ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वय़त् ||
१९ ख
वैशम्पाय़न उवाच:
तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ |
२० क
वैशम्पाय़न उवाच:
मत्ताविव महाकाय़ौ वारणौ षष्टिहाय़नौ ||
२० ख
वैशम्पाय़न उवाच:
चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा |
२१ क
वैशम्पाय़न उवाच:
विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् ||
२१ ख
वैशम्पाय़न उवाच:
तमुद्यम्य महावाहुर्भ्रामय़ामास वीर्यवान् |
२२ क
वैशम्पाय़न उवाच:
ततो मल्लाश्च मत्स्याश्च विस्मय़ं चक्रिरे परम् ||
२२ ख
वैशम्पाय़न उवाच:
भ्रामय़ित्वा शतगुणं गतसत्त्वमचेतनम् |
२३ क
वैशम्पाय़न उवाच:
प्रत्यपिंषन्महावाहुर्मल्लं भुवि वृकोदरः ||
२३ ख
वैशम्पाय़न उवाच:
तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते |
२४ क
वैशम्पाय़न उवाच:
विराटः परमं हर्षमगच्छद्वान्धवैः सह ||
२४ ख
वैशम्पाय़न उवाच:
संहर्षात्प्रददौ वित्तं वहु राजा महामनाः |
२५ क
वैशम्पाय़न उवाच:
वल्लवाय़ महारङ्गे यथा वैश्रवणस्तथा ||
२५ ख
वैशम्पाय़न उवाच:
एवं स सुवहून्मल्लान्पुरुषांश्च महावलान् |
२६ क
वैशम्पाय़न उवाच:
विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् ||
२६ ख
वैशम्पाय़न उवाच:
यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते |
२७ क
वैशम्पाय़न उवाच:
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधय़त् ||
२७ ख
वैशम्पाय़न उवाच:
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः |
२८ क
वैशम्पाय़न उवाच:
योध्यते स्म विराटेन सिंहैर्मत्तैर्महावलैः ||
२८ ख
वैशम्पाय़न उवाच:
वीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः |
२९ क
वैशम्पाय़न उवाच:
विराटं तोषय़ामास सर्वाश्चान्तःपुरस्त्रिय़ः ||
२९ ख
वैशम्पाय़न उवाच:
अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः |
३० क
वैशम्पाय़न उवाच:
तोषय़ामास नकुलो राजानं राजसत्तम ||
३० ख
वैशम्पाय़न उवाच:
तस्मै प्रदेय़ं प्राय़च्छत्प्रीतो राजा धनं वहु |
३१ क
वैशम्पाय़न उवाच:
विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो ||
३१ ख
वैशम्पाय़न उवाच:
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः |
३२ क
वैशम्पाय़न उवाच:
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ||
३२ ख