शल्य उवाच:
क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः |
१ क
शल्य उवाच:
अव्रुवन्देवराजानं नहुषं घोरदर्शनम् ||
१ ख
शल्य उवाच:
देवराज जहि क्रोधं त्वय़ि क्रुद्धे जगद्विभो |
२ क
शल्य उवाच:
त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् ||
२ ख
शल्य उवाच:
जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः |
३ क
शल्य उवाच:
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ||
३ ख
शल्य उवाच:
निवर्तय़ मनः पापात्परदाराभिमर्शनात् |
४ क
शल्य उवाच:
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय़ ||
४ ख
शल्य उवाच:
एवमुक्तो न जग्राह तद्वचः काममोहितः |
५ क
शल्य उवाच:
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ||
५ ख
शल्य उवाच:
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी |
६ क
शल्य उवाच:
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ||
६ ख
शल्य उवाच:
वहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा |
७ क
शल्य उवाच:
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ||
७ ख
शल्य उवाच:
उपतिष्ठतु मां देवी एतदस्या हितं परम् |
८ क
शल्य उवाच:
युष्माकं च सदा देवाः शिवमेवं भविष्यति ||
८ ख
देवा ऊचुः:
इन्द्राणीमानय़िष्यामो यथेच्छसि दिवस्पते |
९ क
देवा ऊचुः:
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ||
९ ख
शल्य उवाच:
इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत |
१० क
शल्य उवाच:
जग्मुर्वृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ||
१० ख
शल्य उवाच:
जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि |
११ क
शल्य उवाच:
दत्ताभय़ां च विप्रेन्द्र त्वय़ा देवर्षिसत्तम ||
११ ख
शल्य उवाच:
ते त्वां देवाः सगन्धर्वा ऋषय़श्च महाद्युते |
१२ क
शल्य उवाच:
प्रसादय़न्ति चेन्द्राणी नहुषाय़ प्रदीय़ताम् ||
१२ ख
शल्य उवाच:
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः |
१३ क
शल्य उवाच:
वृणोत्विय़ं वरारोहा भर्तृत्वे वरवर्णिनी ||
१३ ख
शल्य उवाच:
एवमुक्ते तु सा देवी वाष्पमुत्सृज्य सस्वरम् |
१४ क
शल्य उवाच:
उवाच रुदती दीना वृहस्पतिमिदं वचः ||
१४ ख
शल्य उवाच:
नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् |
१५ क
शल्य उवाच:
शरणागतास्मि ते व्रह्मंस्त्राहि मां महतो भय़ात् ||
१५ ख
वृहस्पतिरु उवाच:
शरणागतां न त्यजेय़मिन्द्राणि मम निश्चितम् |
१६ क
वृहस्पतिरु उवाच:
धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते ||
१६ ख
वृहस्पतिरु उवाच:
नाकार्यं कर्तुमिच्छामि व्राह्मणः सन्विशेषतः |
१७ क
वृहस्पतिरु उवाच:
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ||
१७ ख
वृहस्पतिरु उवाच:
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः |
१८ क
वृहस्पतिरु उवाच:
अस्मिंश्चार्थे पुरा गीतं व्रह्मणा श्रूय़तामिदम् ||
१८ ख
वृहस्पतिरु उवाच:
न तस्य वीजं रोहति वीजकाले; न चास्य वर्षं वर्षति वर्षकाले |
१९ क
वृहस्पतिरु उवाच:
भीतं प्रपन्नं प्रददाति शत्रवे; न सोऽन्तरं लभते त्राणमिच्छन् ||
१९ ख
वृहस्पतिरु उवाच:
मोघमन्नं विन्दति चाप्यचेताः; स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः |
२० क
वृहस्पतिरु उवाच:
भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः ||
२० ख
वृहस्पतिरु उवाच:
प्रमीय़ते चास्य प्रजा ह्यकाले; सदा विवासं पितरोऽस्य कुर्वते |
२१ क
वृहस्पतिरु उवाच:
भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ||
२१ ख
वृहस्पतिरु उवाच:
एतदेवं विजानन्वै न दास्यामि शचीमिमाम् |
२२ क
वृहस्पतिरु उवाच:
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रिय़ाम् ||
२२ ख
वृहस्पतिरु उवाच:
अस्या हितं भवेद्यच्च मम चापि हितं भवेत् |
२३ क
वृहस्पतिरु उवाच:
क्रिय़तां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् ||
२३ ख
शल्य उवाच:
अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् |
२४ क
शल्य उवाच:
कथं सुनीतं तु भवेन्मन्त्रय़स्व वृहस्पते ||
२४ ख
वृहस्पतिरु उवाच:
नहुषं याचतां देवी किञ्चित्कालान्तरं शुभा |
२५ क
वृहस्पतिरु उवाच:
इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति ||
२५ ख
वृहस्पतिरु उवाच:
वहुविघ्नकरः कालः कालः कालं नय़िष्यति |
२६ क
वृहस्पतिरु उवाच:
दर्पितो वलवांश्चापि नहुषो वरसंश्रय़ात् ||
२६ ख
शल्य उवाच:
ततस्तेन तथोक्ते तु प्रीता देवास्तमव्रुवन् |
२७ क
शल्य उवाच:
व्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् |
२७ ख
शल्य उवाच:
एवमेतद्द्विजश्रेष्ठ देवी चेय़ं प्रसाद्यताम् ||
२७ ग
शल्य उवाच:
ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः |
२८ क
शल्य उवाच:
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ||
२८ ख
शल्य उवाच:
त्वय़ा जगदिदं सर्वं धृतं स्थावरजङ्गमम् |
२९ क
शल्य उवाच:
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ||
२९ ख
शल्य उवाच:
क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः |
३० क
शल्य उवाच:
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ||
३० ख
शल्य उवाच:
एवं विनिश्चय़ं कृत्वा इन्द्राणी कार्यसिद्धय़े |
३१ क
शल्य उवाच:
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ||
३१ ख
शल्य उवाच:
दृष्ट्वा तां नहुषश्चापि वय़ोरूपसमन्विताम् |
३२ क
शल्य उवाच:
समहृष्यत दुष्टात्मा कामोपहतचेतनः ||
३२ ख