धृतराष्ट्र उवाच:
जम्वूखण्डस्त्वय़ा प्रोक्तो यथावदिह सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
विष्कम्भमस्य प्रव्रूहि परिमाणं च तत्त्वतः ||
१ ख
धृतराष्ट्र उवाच:
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन |
२ क
धृतराष्ट्र उवाच:
शाकद्वीपं च मे व्रूहि कुशद्वीपं च सञ्जय़ ||
२ ख
धृतराष्ट्र उवाच:
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च |
३ क
धृतराष्ट्र उवाच:
व्रूहि गावल्गणे सर्वं राहोः सोमार्कय़ोस्तथा ||
३ ख
सञ्जय़ उवाच:
राजन्सुवहवो द्वीपा यैरिदं सन्ततं जगत् |
४ क
सञ्जय़ उवाच:
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ||
४ ख
सञ्जय़ उवाच:
अष्टादश सहस्राणि योजनानां विशां पते |
५ क
सञ्जय़ उवाच:
षट्शतानि च पूर्णानि विष्कम्भो जम्वुपर्वतः ||
५ ख
सञ्जय़ उवाच:
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः |
६ क
सञ्जय़ उवाच:
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ||
६ ख
सञ्जय़ उवाच:
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः |
७ क
सञ्जय़ उवाच:
सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ||
७ ख
सञ्जय़ उवाच:
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव |
८ क
सञ्जय़ उवाच:
शृणु मे त्वं यथान्याय़ं व्रुवतः कुरुनन्दन ||
८ ख
सञ्जय़ उवाच:
जम्वूद्वीपप्रमाणेन द्विगुणः स नराधिप |
९ क
सञ्जय़ उवाच:
विष्कम्भेण महाराज सागरोऽपि विभागशः |
९ ख
सञ्जय़ उवाच:
क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः ||
९ ग
सञ्जय़ उवाच:
तत्र पुण्या जनपदा न तत्र म्रिय़ते जनः |
१० क
सञ्जय़ उवाच:
कुत एव हि दुर्भिक्षं क्षमातेजोय़ुता हि ते ||
१० ख
सञ्जय़ उवाच:
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ |
११ क
सञ्जय़ उवाच:
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ||
११ ख
धृतराष्ट्र उवाच:
शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय़ |
१२ क
धृतराष्ट्र उवाच:
उक्तस्त्वय़ा महाभाग विस्तरं व्रूहि तत्त्वतः ||
१२ ख
सञ्जय़ उवाच:
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः |
१३ क
सञ्जय़ उवाच:
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु |
१३ ख
सञ्जय़ उवाच:
अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ||
१३ ग
सञ्जय़ उवाच:
देवर्षिगन्धर्वय़ुतः परमो मेरुरुच्यते |
१४ क
सञ्जय़ उवाच:
प्रागाय़तो महाराज मलय़ो नाम पर्वतः |
१४ ख
सञ्जय़ उवाच:
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ||
१४ ग
सञ्जय़ उवाच:
ततः परेण कौरव्य जलधारो महागिरिः |
१५ क
सञ्जय़ उवाच:
यत्र नित्यमुपादत्ते वासवः परमं जलम् |
१५ ख
सञ्जय़ उवाच:
यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ||
१५ ग
सञ्जय़ उवाच:
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः |
१६ क
सञ्जय़ उवाच:
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ||
१६ ख
सञ्जय़ उवाच:
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः |
१७ क
सञ्जय़ उवाच:
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ||
१७ ख
धृतराष्ट्र उवाच:
सुमहान्संशय़ो मेऽद्य प्रोक्तं सञ्जय़ यत्त्वय़ा |
१८ क
धृतराष्ट्र उवाच:
प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह ||
१८ ख
सञ्जय़ उवाच:
सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन |
१९ क
सञ्जय़ उवाच:
गौरः कृष्णश्च वर्णौ द्वौ तय़ोर्वर्णान्तरं नृप ||
१९ ख
सञ्जय़ उवाच:
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत |
२० क
सञ्जय़ उवाच:
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ||
२० ख
सञ्जय़ उवाच:
ततः परं कौरवेन्द्र दुर्गशैलो महोदय़ः |
२१ क
सञ्जय़ उवाच:
केसरी केसरय़ुतो यतो वातः प्रवाय़ति ||
२१ ख
सञ्जय़ उवाच:
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः |
२२ क
सञ्जय़ उवाच:
वर्षाणि तेषु कौरव्य सम्प्रोक्तानि मनीषिभिः ||
२२ ख
सञ्जय़ उवाच:
महामेरुर्महाकाशो जलदः कुमुदोत्तरः |
२३ क
सञ्जय़ उवाच:
जलधारात्परो राजन्सुकुमार इति स्मृतः ||
२३ ख
सञ्जय़ उवाच:
रैवतस्य तु कौमारः श्यामस्य तु मणीचकः |
२४ क
सञ्जय़ उवाच:
केसरस्याथ मोदाकी परेण तु महापुमान् ||
२४ ख
सञ्जय़ उवाच:
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च |
२५ क
सञ्जय़ उवाच:
जम्वूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ||
२५ ख
सञ्जय़ उवाच:
शाको नाम महाराज तस्य द्वीपस्य मध्यगः |
२६ क
सञ्जय़ उवाच:
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ||
२६ ख
सञ्जय़ उवाच:
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च |
२७ क
सञ्जय़ उवाच:
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ||
२७ ख
सञ्जय़ उवाच:
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते |
२८ क
सञ्जय़ उवाच:
दीर्घाय़ुषो महाराज जरामृत्युविवर्जिताः ||
२८ ख
सञ्जय़ उवाच:
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः |
२९ क
सञ्जय़ उवाच:
नद्यः पुण्यजलास्तत्र गङ्गा च वहुधागतिः ||
२९ ख
सञ्जय़ उवाच:
सुकुमारी कुमारी च सीता कावेरका तथा |
३० क
सञ्जय़ उवाच:
महानदी च कौरव्य तथा मणिजला नदी |
३० ख
सञ्जय़ उवाच:
इक्षुवर्धनिका चैव तथा भरतसत्तम ||
३० ग
सञ्जय़ उवाच:
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह |
३१ क
सञ्जय़ उवाच:
सहस्राणां शतान्येव यतो वर्षति वासवः ||
३१ ख
सञ्जय़ उवाच:
न तासां नामधेय़ानि परिमाणं तथैव च |
३२ क
सञ्जय़ उवाच:
शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ||
३२ ख
सञ्जय़ उवाच:
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः |
३३ क
सञ्जय़ उवाच:
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ||
३३ ख
सञ्जय़ उवाच:
मगा व्राह्मणभूय़िष्ठाः स्वकर्मनिरता नृप |
३४ क
सञ्जय़ उवाच:
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ||
३४ ख
सञ्जय़ उवाच:
मानसेषु महाराज वैश्याः कर्मोपजीविनः |
३५ क
सञ्जय़ उवाच:
सर्वकामसमाय़ुक्ताः शूरा धर्मार्थनिश्चिताः |
३५ ख
सञ्जय़ उवाच:
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ||
३५ ग
सञ्जय़ उवाच:
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः |
३६ क
सञ्जय़ उवाच:
स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ||
३६ ख
सञ्जय़ उवाच:
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् |
३७ क
सञ्जय़ उवाच:
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ||
३७ ख