chevron_left द्रोण पर्व अध्याय १२
सञ्जय़ उवाच:
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् |
१ क
सञ्जय़ उवाच:
सिंहनादरवांश्चक्रुर्वाणशङ्खरवैः सह ||
१ ख
सञ्जय़ उवाच:
तत्तु सर्वं यथावृत्तं धर्मराजेन भारत |
२ क
सञ्जय़ उवाच:
आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ||
२ ख
सञ्जय़ उवाच:
ततः सर्वान्समानाय़्य भ्रातॄन्सैन्यांश्च सर्वशः |
३ क
सञ्जय़ उवाच:
अव्रवीद्धर्मराजस्तु धनञ्जय़मिदं वचः ||
३ ख
सञ्जय़ उवाच:
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् |
४ क
सञ्जय़ उवाच:
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीय़ताम् ||
४ ख
सञ्जय़ उवाच:
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन |
५ क
सञ्जय़ उवाच:
तच्चान्तरममोघेषौ त्वय़ि तेन समाहितम् ||
५ ख
सञ्जय़ उवाच:
स त्वमद्य महावाहो युध्यस्व मदनन्तरम् |
६ क
सञ्जय़ उवाच:
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुय़ात् ||
६ ख
अर्जुन उवाच:
यथा मे न वधः कार्य आचार्यस्य कथञ्चन |
७ क
अर्जुन उवाच:
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ||
७ ख
अर्जुन उवाच:
अप्येवं पाण्डव प्राणानुत्सृजेय़महं युधि |
८ क
अर्जुन उवाच:
प्रतीय़ां नाहमाचार्यं त्वां न जह्यां कथञ्चन ||
८ ख
अर्जुन उवाच:
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति |
९ क
अर्जुन उवाच:
न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथञ्चन ||
९ ख
अर्जुन उवाच:
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् |
१० क
अर्जुन उवाच:
न त्वां द्रोणो निगृह्णीय़ाज्जीवमाने मय़ि ध्रुवम् ||
१० ख
अर्जुन उवाच:
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वय़म् |
११ क
अर्जुन उवाच:
देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ||
११ ख
अर्जुन उवाच:
मय़ि जीवति राजेन्द्र न भय़ं कर्तुमर्हसि |
१२ क
अर्जुन उवाच:
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ||
१२ ख
अर्जुन उवाच:
न स्मराम्यनृतां वाचं न स्मरामि पराजय़म् |
१३ क
अर्जुन उवाच:
न स्मरामि प्रतिश्रुत्य किञ्चिदप्यनपाकृतम् ||
१३ ख
सञ्जय़ उवाच:
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह |
१४ क
सञ्जय़ उवाच:
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ||
१४ ख
सञ्जय़ उवाच:
सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम् |
१५ क
सञ्जय़ उवाच:
धनुर्ज्यातलशव्दश्च गगनस्पृक्सुभैरवः ||
१५ ख
सञ्जय़ उवाच:
तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः |
१६ क
सञ्जय़ उवाच:
त्वदीय़ेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ||
१६ ख
सञ्जय़ उवाच:
ततो व्यूढान्यनीकानि तव तेषां च भारत |
१७ क
सञ्जय़ उवाच:
शनैरुपेय़ुरन्योन्यं योत्स्यमानानि संय़ुगे ||
१७ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
१८ क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ||
१८ ख
सञ्जय़ उवाच:
यतमानाः प्रय़त्नेन द्रोणानीकविशातने |
१९ क
सञ्जय़ उवाच:
न शेकुः सृञ्जय़ा राजंस्तद्धि द्रोणेन पालितम् ||
१९ ख
सञ्जय़ उवाच:
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः |
२० क
सञ्जय़ उवाच:
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ||
२० ख
सञ्जय़ उवाच:
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् |
२१ क
सञ्जय़ उवाच:
सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ||
२१ ख
सञ्जय़ उवाच:
ततो रुक्मरथो राजन्नर्केणेव विराजता |
२२ क
सञ्जय़ उवाच:
वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ||
२२ ख
सञ्जय़ उवाच:
तमुद्यतं रथेनैकमाशुकारिणमाहवे |
२३ क
सञ्जय़ उवाच:
अनेकमिव सन्त्रासान्मेनिरे पाण्डुसृञ्जय़ाः ||
२३ ख
सञ्जय़ उवाच:
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् |
२४ क
सञ्जय़ उवाच:
त्रासय़न्तो महाराज पाण्डवेय़स्य वाहिनीम् ||
२४ ख
सञ्जय़ उवाच:
मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः |
२५ क
सञ्जय़ उवाच:
यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ||
२५ ख
सञ्जय़ उवाच:
न चैनं पाण्डवेय़ानां कश्चिच्छक्नोति मारिष |
२६ क
सञ्जय़ उवाच:
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ||
२६ ख
सञ्जय़ उवाच:
मोहय़ित्वा ततः सैन्यं भारद्वाजः प्रतापवान् |
२७ क
सञ्जय़ उवाच:
धृष्टद्युम्नवलं तूर्णं व्यधमन्निशितैः शरैः ||
२७ ख
सञ्जय़ उवाच:
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः |
२८ क
सञ्जय़ उवाच:
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ||
२८ ख