धृतराष्ट्र उवाच:
यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः |
१ क
धृतराष्ट्र उवाच:
अन्येषां च मदीय़ानां पाण्डवैस्तद्व्रवीहि मे ||
१ ख
सञ्जय़ उवाच:
शृणु राजन्यथावृत्तं सङ्ग्रामं व्रुवतो मम |
२ क
सञ्जय़ उवाच:
वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् ||
२ ख
सञ्जय़ उवाच:
पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् |
३ क
सञ्जय़ उवाच:
व्यक्षोभय़दमित्रघ्नो महावात इवार्णवम् ||
३ ख
सञ्जय़ उवाच:
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जय़ः |
४ क
सञ्जय़ उवाच:
पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च |
४ ख
सञ्जय़ उवाच:
सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ||
४ ग
सञ्जय़ उवाच:
सुवृत्तानाय़तान्पुष्टांश्चन्दनागुरुभूषितान् |
५ क
सञ्जय़ उवाच:
साय़ुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् |
५ ख
सञ्जय़ उवाच:
वाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे ||
५ ग
सञ्जय़ उवाच:
धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि साय़कान् |
६ क
सञ्जय़ उवाच:
पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः ||
६ ख
सञ्जय़ उवाच:
द्विपान्हय़ान्रथांश्चैव सारोहानर्जुनो रणे |
७ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रै राजन्निन्ये यमक्षय़म् ||
७ ख
सञ्जय़ उवाच:
तं प्रवीरं प्रतीय़ाता नर्दमाना इवर्षभाः |
८ क
सञ्जय़ उवाच:
वाशितार्थमभिक्रुद्धा हुङ्कृत्वा चाभिदुद्रुवुः |
८ ख
सञ्जय़ उवाच:
निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ||
८ ग
सञ्जय़ उवाच:
तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् |
९ क
सञ्जय़ उवाच:
त्रैलोक्यविजय़े यादृग्दैत्यानां सह वज्रिणा ||
९ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः |
१० क
सञ्जय़ उवाच:
इषुभिर्वहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः ||
१० ख
सञ्जय़ उवाच:
छिन्नत्रिवेणुचक्राक्षान्हतय़ोधाश्वसारथीन् |
११ क
सञ्जय़ उवाच:
विध्वस्ताय़ुधतूणीरान्समुन्मथितकेतनान् ||
११ ख
सञ्जय़ उवाच:
सञ्छिन्नय़ोक्त्ररश्मीकान्वित्रिवेणून्विकूवरान् |
१२ क
सञ्जय़ उवाच:
विध्वस्तवन्धुरय़ुगान्विशस्ताय़ुधमण्डलान् |
१२ ख
सञ्जय़ उवाच:
रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ||
१२ ग
सञ्जय़ उवाच:
विस्मापय़न्प्रेक्षणीय़ं द्विषातां भय़वर्धनम् |
१३ क
सञ्जय़ उवाच:
महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् ||
१३ ख
सञ्जय़ उवाच:
सिद्धदेवर्षिसङ्घाश्च चारणाश्चैव तुष्टुवुः |
१४ क
सञ्जय़ उवाच:
देवदुन्दुभय़ो नेदुः पुष्पवर्षाणि चापतन् |
१४ ख
सञ्जय़ उवाच:
केशवार्जुनय़ोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ||
१४ ग
सञ्जय़ उवाच:
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिवलद्युतीः |
१५ क
सञ्जय़ उवाच:
यौ सदा विभ्रतुर्वीरौ ताविमौ केशवार्जुनौ ||
१५ ख
सञ्जय़ उवाच:
व्रह्मेशानाविवाजय़्यौ वीरावेकरथे स्थितौ |
१६ क
सञ्जय़ उवाच:
सर्वभूतवरौ वीरौ नरनाराय़णावुभौ ||
१६ ख
सञ्जय़ उवाच:
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत |
१७ क
सञ्जय़ उवाच:
अश्वत्थामा सुसंय़त्तः कृष्णावभ्यद्रवद्रणे ||
१७ ख
सञ्जय़ उवाच:
अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् |
१८ क
सञ्जय़ उवाच:
सेषुणा पाणिनाहूय़ हसन्द्रौणिरथाव्रवीत् ||
१८ ख
सञ्जय़ उवाच:
यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् |
१९ क
सञ्जय़ उवाच:
ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रय़च्छ मे ||
१९ ख
सञ्जय़ उवाच:
एवमाचार्यपुत्रेण समाहूतो युय़ुत्सय़ा |
२० क
सञ्जय़ उवाच:
वहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् ||
२० ख
सञ्जय़ उवाच:
संशप्तकाश्च मे वध्या द्रौणिराह्वय़ते च माम् |
२१ क
सञ्जय़ उवाच:
यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ||
२१ ख
सञ्जय़ उवाच:
एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् |
२२ क
सञ्जय़ उवाच:
जैत्रेण विधिनाहूतं वाय़ुरिन्द्रमिवाध्वरे ||
२२ ख
सञ्जय़ उवाच:
तमामन्त्र्यैकमनसा केशवो द्रौणिमव्रवीत् |
२३ क
सञ्जय़ उवाच:
अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ||
२३ ख
सञ्जय़ उवाच:
निर्वेष्टुं भर्तृपिण्डं हि कालोऽय़मुपजीविनाम् |
२४ क
सञ्जय़ उवाच:
सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जय़ाजय़ौ ||
२४ ख
सञ्जय़ उवाच:
यां न सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रिय़ाम् |
२५ क
सञ्जय़ उवाच:
तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ||
२५ ख
सञ्जय़ उवाच:
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः |
२६ क
सञ्जय़ उवाच:
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ||
२६ ख
सञ्जय़ उवाच:
तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्भल्लैः शरासनम् |
२७ क
सञ्जय़ उवाच:
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ||
२७ ख
सञ्जय़ उवाच:
सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ |
२८ क
सञ्जय़ उवाच:
त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् ||
२८ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि प्रय़ुतान्यर्वुदानि च |
२९ क
सञ्जय़ उवाच:
ससृजे द्रौणिराय़स्तः संस्तभ्य च रणेऽर्जुनम् ||
२९ ख
सञ्जय़ उवाच:
इषुधेर्धनुषो ज्याय़ा अङ्गुलीभ्यश्च मारिष |
३० क
सञ्जय़ उवाच:
वाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ||
३० ख
सञ्जय़ उवाच:
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च |
३१ क
सञ्जय़ उवाच:
रथध्वजेभ्यश्च शरा निष्पेतुर्व्रह्मवादिनः ||
३१ ख
सञ्जय़ उवाच:
शरजालेन महता विद्ध्वा केशवपाण्डवौ |
३२ क
सञ्जय़ उवाच:
ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः ||
३२ ख
सञ्जय़ उवाच:
तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमव्रवीत् |
३३ क
सञ्जय़ उवाच:
पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ||
३३ ख
सञ्जय़ उवाच:
वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि |
३४ क
सञ्जय़ उवाच:
एषोऽस्य हन्मि सङ्कल्पं शिक्षय़ा च वलेन च ||
३४ ख
सञ्जय़ उवाच:
अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा |
३५ क
सञ्जय़ उवाच:
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ||
३५ ख
सञ्जय़ उवाच:
ततः संशप्तकान्भूय़ः साश्वसूतरथद्विपान् |
३६ क
सञ्जय़ उवाच:
ध्वजपत्तिगणानुग्रैर्वाणैर्विव्याध पाण्डवः ||
३६ ख
सञ्जय़ उवाच:
ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा |
३७ क
सञ्जय़ उवाच:
ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च ||
३७ ख
सञ्जय़ उवाच:
ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः |
३८ क
सञ्जय़ उवाच:
क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे ||
३८ ख
सञ्जय़ उवाच:
भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् |
३९ क
सञ्जय़ उवाच:
छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः ||
३९ ख
सञ्जय़ उवाच:
पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः |
४० क
सञ्जय़ उवाच:
वज्रिवज्रप्रमथिता यथैवाद्रिचय़ास्तथा ||
४० ख
सञ्जय़ उवाच:
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |
४१ क
सञ्जय़ उवाच:
विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् ||
४१ ख
सञ्जय़ उवाच:
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् |
४२ क
सञ्जय़ उवाच:
अलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जय़ः ||
४२ ख
सञ्जय़ उवाच:
धनञ्जय़युगान्तार्कः संशप्तकमहार्णवम् |
४३ क
सञ्जय़ उवाच:
व्यशोषय़त दुःशोषं तीव्रैः शरगभस्तिभिः ||
४३ ख
सञ्जय़ उवाच:
पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः |
४४ क
सञ्जय़ उवाच:
निर्विभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ||
४४ ख
सञ्जय़ उवाच:
तमाचार्यसुतः क्रुद्धः साश्वय़न्तारमाशुगैः |
४५ क
सञ्जय़ उवाच:
युय़ुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् ||
४५ ख
सञ्जय़ उवाच:
ततः परमसङ्क्रुद्धः काण्डकोशानवासृजत् |
४६ क
सञ्जय़ उवाच:
अश्वत्थामाभिरूपाय़ गृहानतिथय़े यथा ||
४६ ख
सञ्जय़ उवाच:
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् |
४७ क
सञ्जय़ उवाच:
अपाङ्क्तेय़मिव त्यक्त्वा दाता पाङ्क्तेय़मर्थिनम् ||
४७ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः |
४८ क