chevron_left शल्य पर्व अध्याय १२
सञ्जय़ उवाच:
पीडिते धर्मराजे तु मद्रराजेन मारिष |
१ क
सञ्जय़ उवाच:
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |
१ ख
सञ्जय़ उवाच:
परिवार्य रथैः शल्यं पीडय़ामासुराहवे ||
१ ग
सञ्जय़ उवाच:
तमेकं वहुभिर्दृष्ट्वा पीड्यमानं महारथैः |
२ क
सञ्जय़ उवाच:
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः |
२ ख
सञ्जय़ उवाच:
आश्चर्यमित्यभाषन्त मुनय़श्चापि सङ्गताः ||
२ ग
सञ्जय़ उवाच:
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे |
३ क
सञ्जय़ उवाच:
एकेन विद्ध्वा वाणेन पुनर्विव्याध सप्तभिः ||
३ ख
सञ्जय़ उवाच:
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सय़ा |
४ क
सञ्जय़ उवाच:
मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ||
४ ख
सञ्जय़ उवाच:
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः |
५ क
सञ्जय़ उवाच:
विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः ||
५ ख
सञ्जय़ उवाच:
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः |
६ क
सञ्जय़ उवाच:
विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् ||
६ ख
सञ्जय़ उवाच:
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष |
७ क
सञ्जय़ उवाच:
भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा ||
७ ख
सञ्जय़ उवाच:
ततः सविशिखं चापं सहदेवस्य धन्विनः |
८ क
सञ्जय़ उवाच:
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ||
८ ख
सञ्जय़ उवाच:
सहदेवस्तु समरे मातुलं भूरिवर्चसम् |
९ क
सञ्जय़ उवाच:
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडय़त् |
९ ख
सञ्जय़ उवाच:
शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः ||
९ ग
सञ्जय़ उवाच:
सारथिं चास्य समरे शरेणानतपर्वणा |
१० क
सञ्जय़ उवाच:
विव्याध भृशसङ्क्रुद्धस्तं च भूय़स्त्रिभिः शरैः ||
१० ख
सञ्जय़ उवाच:
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः |
११ क
सञ्जय़ उवाच:
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पय़त् ||
११ ख
सञ्जय़ उवाच:
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः |
१२ क
सञ्जय़ उवाच:
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ||
१२ ख
सञ्जय़ उवाच:
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः |
१३ क
सञ्जय़ उवाच:
विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ||
१३ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष |
१४ क
सञ्जय़ उवाच:
धनुश्चिच्छेद समरे सज्यं स सुमहारथः ||
१४ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ धर्मपुत्रो महारथः |
१५ क
सञ्जय़ उवाच:
साश्वसूतध्वजरथं शल्यं प्राच्छादय़च्छरैः ||
१५ ख
सञ्जय़ उवाच:
स च्छाद्यमानः समरे धर्मपुत्रस्य साय़कैः |
१६ क
सञ्जय़ उवाच:
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ||
१६ ख
सञ्जय़ उवाच:
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते |
१७ क
सञ्जय़ उवाच:
मद्राणामधिपं शूरं शरौघैः समवारय़त् ||
१७ ख
सञ्जय़ उवाच:
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः |
१८ क
सञ्जय़ उवाच:
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडय़त् ||
१८ ख
सञ्जय़ उवाच:
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः |
१९ क
सञ्जय़ उवाच:
तोमरं प्रेषय़ामास स्वर्णदण्डं महाधनम् ||
१९ ख
सञ्जय़ उवाच:
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् |
२० क
सञ्जय़ उवाच:
नकुलः समरे शक्तिं सहदेवो गदां शुभाम् |
२० ख
सञ्जय़ उवाच:
धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे ||
२० ग
सञ्जय़ उवाच:
तानापतत एवाशु पञ्चानां वै भुजच्युतान् |
२१ क
सञ्जय़ उवाच:
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ||
२१ ख
सञ्जय़ उवाच:
भीमेन प्रहितं चापि शरं कनकभूषणम् |
२२ क
सञ्जय़ उवाच:
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ||
२२ ख
सञ्जय़ उवाच:
नकुलप्रेषितां शक्तिं हेमदण्डां भय़ावहाम् |
२३ क
सञ्जय़ उवाच:
गदां च सहदेवेन शरौघैः समवारय़त् ||
२३ ख
सञ्जय़ उवाच:
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत |
२४ क
सञ्जय़ उवाच:
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च |
२४ ख
सञ्जय़ उवाच:
नामृष्यत्तं तु शैनेय़ः शत्रोर्विजय़माहवे ||
२४ ग
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सात्यकिः क्रोधमूर्छितः |
२५ क
सञ्जय़ उवाच:
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ||
२५ ख
सञ्जय़ उवाच:
ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः |
२६ क
सञ्जय़ उवाच:
विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् ||
२६ ख
सञ्जय़ उवाच:
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः |
२७ क
सञ्जय़ उवाच:
न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः ||
२७ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् |
२८ क
सञ्जय़ उवाच:
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जय़ान् ||
२८ ख
सञ्जय़ उवाच:
ततो राजन्महावाहुर्भीमसेनः प्रतापवान् |
२९ क
सञ्जय़ उवाच:
सन्त्यज्य मनसा प्राणान्मद्राधिपमय़ोधय़त् ||
२९ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च सात्यकिश्च महारथः |
३० क
सञ्जय़ उवाच:
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ||
३० ख
सञ्जय़ उवाच:
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः |
३१ क
सञ्जय़ उवाच:
वृतस्तान्योधय़ामास मद्रराजः प्रतापवान् ||
३१ ख
सञ्जय़ उवाच:
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे |
३२ क
सञ्जय़ उवाच:
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव ||
३२ ख
सञ्जय़ उवाच:
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे |
३३ क
सञ्जय़ उवाच:
मद्रराजोऽतिवलवान्सैनिकानास्तृणोच्छरैः ||
३३ ख
सञ्जय़ उवाच:
समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान् |
३४ क
सञ्जय़ उवाच:
चिन्तय़ामास समरे धर्मराजो युधिष्ठिरः ||
३४ ख
सञ्जय़ उवाच:
कथं नु न भवेत्सत्यं तन्माधववचो महत् |
३५ क
सञ्जय़ उवाच:
न हि क्रुद्धो रणे राजा क्षपय़ेत वलं मम ||
३५ ख
सञ्जय़ उवाच:
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज |
३६ क
सञ्जय़ उवाच:
मद्रेश्वरं समासेदुः पीडय़न्तः समन्ततः ||
३६ ख
सञ्जय़ उवाच:
नानाशस्त्रौघवहुलां शस्त्रवृष्टिं समुत्थिताम् |
३७ क
सञ्जय़ उवाच:
व्यधमत्समरे राजन्महाभ्राणीव मारुतः ||
३७ ख
सञ्जय़ उवाच:
ततः कनकपुङ्खां तां शल्यक्षिप्तां विय़द्गताम् |
३८ क
सञ्जय़ उवाच:
शरवृष्टिमपश्याम शलभानामिवाततिम् ||
३८ ख
सञ्जय़ उवाच:
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि |
३९ क
सञ्जय़ उवाच:
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ||
३९ ख
सञ्जय़ उवाच:
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः |
४० क
सञ्जय़ उवाच:
निरन्तरमिवाकाशं सम्वभूव जनाधिप ||
४० ख
सञ्जय़ उवाच:
न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत |
४१ क
सञ्जय़ उवाच:
वाणान्धकारे महति कृते तत्र महाभय़े ||
४१ ख
सञ्जय़ उवाच:
मद्रराजेन वलिना लाघवाच्छरवृष्टिभिः |
४२ क
सञ्जय़ उवाच:
लोड्यमानं तथा दृष्ट्वा पाण्डवानां वलार्णवम् |
४२ ख
सञ्जय़ उवाच:
विस्मय़ं परमं जग्मुर्देवगन्धर्वदानवाः ||
४२ ग
सञ्जय़ उवाच:
स तु तान्सर्वतो यत्ताञ्शरैः सम्पीड्य मारिष |
४३ क
सञ्जय़ उवाच:
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ||
४३ ख
सञ्जय़ उवाच:
ते छन्नाः समरे तेन पाण्डवानां महारथाः |
४४ क
सञ्जय़ उवाच:
न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् ||
४४ ख
सञ्जय़ उवाच:
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः |
४५ क
सञ्जय़ उवाच:
न जहुः समरे शूरं शल्यमाहवशोभिनम् ||
४५ ख