chevron_left द्रोण पर्व अध्याय १२०
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च |
५१ क
सञ्जय़ उवाच:
एकैकं नवभिर्वाणैः सर्वानेव समर्पय़त् ||
५१ ख
सञ्जय़ उवाच:
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः |
५२ क
सञ्जय़ उवाच:
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ||
५२ ख
सञ्जय़ उवाच:
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः |
५३ क
सञ्जय़ उवाच:
विधुन्वन्तश्च चापानि सर्वतः पर्यवारय़न् ||
५३ ख
सञ्जय़ उवाच:
श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते |
५४ क
सञ्जय़ उवाच:
सूर्यास्तमय़मिच्छन्तस्त्वरमाणा महारथाः ||
५४ ख
सञ्जय़ उवाच:
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च |
५५ क
सञ्जय़ उवाच:
सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्वुभिः ||
५५ ख
सञ्जय़ उवाच:
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शय़न् |
५६ क
सञ्जय़ उवाच:
धनञ्जय़स्य गात्रेषु शूराः परिघवाहवः ||
५६ ख
सञ्जय़ उवाच:
हतभूय़िष्ठय़ोधं तत्कृत्वा तव वलं वली |
५७ क
सञ्जय़ उवाच:
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ||
५७ ख
सञ्जय़ उवाच:
तं कर्णः संय़ुगे राजन्प्रत्यवारय़दाशुगैः |
५८ क
सञ्जय़ उवाच:
मिषतो भीमसेनस्य सात्वतस्य च भारत ||
५८ ख
सञ्जय़ उवाच:
तं पार्थो दशभिर्वाणैः प्रत्यविध्यद्रणाजिरे |
५९ क
सञ्जय़ उवाच:
सूतपुत्रं महावाहुः सर्वसैन्यस्य पश्यतः ||
५९ ख
सञ्जय़ उवाच:
सात्वतश्च त्रिभिर्वाणैः कर्णं विव्याध मारिष |
६० क
सञ्जय़ उवाच:
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ||
६० ख
सञ्जय़ उवाच:
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः |
६१ क
सञ्जय़ उवाच:
तद्युद्धमभवद्राजन्कर्णस्य वहुभिः सह ||
६१ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष |
६२ क
सञ्जय़ उवाच:
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारय़त् ||
६२ ख
सञ्जय़ उवाच:
फल्गुनस्तु महावाहुः कर्णं वैकर्तनं रणे |
६३ क
सञ्जय़ उवाच:
साय़कानां शतेनैव सर्वमर्मस्वताडय़त् ||
६३ ख
सञ्जय़ उवाच:
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् |
६४ क
सञ्जय़ उवाच:
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत |
६४ ख
सञ्जय़ उवाच:
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ||
६४ ग
सञ्जय़ उवाच:
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे |
६५ क
सञ्जय़ उवाच:
साय़कैर्नवभिर्वीरस्त्वरमाणो धनञ्जय़ः ||
६५ ख
सञ्जय़ उवाच:
वधार्थं चास्य समरे साय़कं सूर्यवर्चसम् |
६६ क
सञ्जय़ उवाच:
चिक्षेप त्वरय़ा युक्तस्त्वराकाले धनञ्जय़ः ||
६६ ख
सञ्जय़ उवाच:
तमापतन्तं वेगेन द्रौणिश्चिच्छेद साय़कम् |
६७ क
सञ्जय़ उवाच:
अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि ||
६७ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सूतपुत्रः प्रतापवान् |
६८ क
सञ्जय़ उवाच:
कर्णोऽपि द्विषतां हन्ता छादय़ामास फल्गुनम् |
६८ ख
सञ्जय़ उवाच:
साय़कैर्वहुसाहस्रैः कृतप्रतिकृतेप्सय़ा ||
६८ ग
सञ्जय़ उवाच:
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ |
६९ क
सञ्जय़ उवाच:
साय़कौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः |
६९ ख
सञ्जय़ उवाच:
अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ||
६९ ग
सञ्जय़ उवाच:
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन |
७० क
सञ्जय़ उवाच:
इत्येवं तर्जय़न्तौ तौ वाक्षल्यैस्तुदतां तथा ||
७० ख
सञ्जय़ उवाच:
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च |
७१ क
सञ्जय़ उवाच:
प्रेक्षणीय़ौ चाभवतां सर्वय़ोधसमागमे ||
७१ ख
सञ्जय़ उवाच:
प्रशस्यमानौ समरे सिद्धचारणवातिकैः |
७२ क
सञ्जय़ उवाच:
अय़ुध्येतां महाराज परस्परवधैषिणौ ||
७२ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजंस्तावकानभ्यभाषत |
७३ क
सञ्जय़ उवाच:
यत्ता रक्षत राधेय़ं नाहत्वा समरेऽर्जुनम् |
७३ ख
सञ्जय़ उवाच:
निवर्तिष्यति राधेय़ इति मामुक्तवान्वृषः ||
७३ ग
सञ्जय़ उवाच:
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् |
७४ क
सञ्जय़ उवाच:
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हय़ान् |
७४ ख
सञ्जय़ उवाच:
अनय़न्मृत्युलोकाय़ चतुर्भिः साय़कोत्तमैः ||
७४ ग
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन रथनीडादपाहरत् |
७५ क
सञ्जय़ उवाच:
छादय़ामास च शरैस्तव पुत्रस्य पश्यतः ||
७५ ख
सञ्जय़ उवाच:
स छाद्यमानः समरे हताश्वो हतसारथिः |
७६ क
सञ्जय़ उवाच:
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ||
७६ ख
सञ्जय़ उवाच:
तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा |
७७ क
सञ्जय़ उवाच:
अश्वत्थामा महाराज भूय़ोऽर्जुनमय़ोधय़त् ||
७७ ख
सञ्जय़ उवाच:
मद्रराजस्तु कौन्तेय़मविध्यत्त्रिंशता शरैः |
७८ क
सञ्जय़ उवाच:
शारद्वतस्तु विंशत्या वासुदेवं समार्पय़त् |
७८ ख
सञ्जय़ उवाच:
धनञ्जय़ं द्वादशभिराजघान शिलीमुखैः ||
७८ ग
सञ्जय़ उवाच:
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः |
७९ क
सञ्जय़ उवाच:
पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ||
७९ ख
सञ्जय़ उवाच:
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जय़ः |
८० क
सञ्जय़ उवाच:
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ||
८० ख
सञ्जय़ उवाच:
सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः |
८१ क
सञ्जय़ उवाच:
शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ||
८१ ख
सञ्जय़ उवाच:
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः |
८२ क
सञ्जय़ उवाच:
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जय़म् ||
८२ ख
सञ्जय़ उवाच:
अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासय़न्धार्तराष्ट्रान् |
८३ क
सञ्जय़ उवाच:
तं प्रत्युदीय़ुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन् ||
८३ ख
सञ्जय़ उवाच:
ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीय़े |
८४ क
सञ्जय़ उवाच:
नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान् ||
८४ ख
सञ्जय़ उवाच:
राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान् |
८५ क
सञ्जय़ उवाच:
गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेय़ैः ||
८५ ख
सञ्जय़ उवाच:
प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वय़ांसि |
८६ क
सञ्जय़ उवाच:
यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति ||
८६ ख
सञ्जय़ उवाच:
किरीटमाली महता महाय़शाः; शरासनेनास्य शराननीकजित् |
८७ क
सञ्जय़ उवाच:
हय़प्रवेकोत्तमनागधूर्गता; न्कुरुप्रवीरानिषुभिर्न्यपातय़त् ||
८७ ख
सञ्जय़ उवाच:
गदाश्च गुर्वीः परिघानय़स्मय़ा; नसींश्च शक्तीश्च रणे नराधिपाः |
८८ क
सञ्जय़ उवाच:
महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः ||
८८ ख
सञ्जय़ उवाच:
स तानुदीर्णान्सरथाश्ववारणा; न्पदातिसङ्घांश्च महाधनुर्धरः |
८९ क
सञ्जय़ उवाच:
विपन्नसर्वाय़ुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान् ||
८९ ख