सात्यकिरु उवाच:
न राम कालः परिदेवनाय़; यदुत्तरं तत्र तदेव सर्वे |
१ क
सात्यकिरु उवाच:
समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किञ्चित् ||
१ ख
सात्यकिरु उवाच:
ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते |
२ क
सात्यकिरु उवाच:
तेषां तु कार्येषु भवन्ति नाथाः; शैव्यादय़ो राम यथा यय़ातेः ||
२ ख
सात्यकिरु उवाच:
येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके |
३ क
सात्यकिरु उवाच:
ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति ||
३ ख
सात्यकिरु उवाच:
कस्मादय़ं रामजनार्दनौ च; प्रद्युम्नसाम्वौ च मय़ा समेतौ |
४ क
सात्यकिरु उवाच:
वसत्यरण्ये सह सोदरीय़ै; स्त्रैलोक्यनाथानधिगम्य नाथान् ||
४ ख
सात्यकिरु उवाच:
निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानाय़ुधचित्रवर्मा |
५ क
सात्यकिरु उवाच:
यमक्षय़ं गच्छतु धार्तराष्ट्रः; सवान्धवो वृष्णिवलाभिभूतः ||
५ ख
सात्यकिरु उवाच:
त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टय़ेस्तिष्ठतु शार्ङ्गधन्वा |
६ क
सात्यकिरु उवाच:
स धार्तराष्ट्रं जहि सानुवन्धं; वृत्रं यथा देवपतिर्महेन्द्रः ||
६ ख
सात्यकिरु उवाच:
भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः |
७ क
सात्यकिरु उवाच:
यदर्थमभ्युद्यतमुत्तमं त; त्करोति कर्माग्र्यमपारणीय़म् ||
७ ख
सात्यकिरु उवाच:
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै; र्विहत्य सर्वाणि रणेऽभिभूय़ |
८ क
सात्यकिरु उवाच:
काय़ाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम ||
८ ख
सात्यकिरु उवाच:
खड्गेन चाहं निशितेन सङ्ख्ये; काय़ाच्छिरस्तस्य वलात्प्रमथ्य |
९ क
सात्यकिरु उवाच:
ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान् ||
९ ख
सात्यकिरु उवाच:
आत्ताय़ुधं मामिह रौहिणेय़; पश्यन्तु भौमा युधि जातहर्षाः |
१० क
सात्यकिरु उवाच:
निघ्नन्तमेकं कुरुय़ोधमुख्या; न्काले महाकक्षमिवान्तकाग्निः ||
१० ख
सात्यकिरु उवाच:
प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः |
११ क
सात्यकिरु उवाच:
जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः ||
११ ख
सात्यकिरु उवाच:
साम्वः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु वलात्प्रमथ्य |
१२ क
सात्यकिरु उवाच:
न विद्यते जाम्ववतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य ||
१२ ख
सात्यकिरु उवाच:
एतेन वालेन हि शम्वरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् |
१३ क
सात्यकिरु उवाच:
वृत्तोरुरत्याय़तपीनवाहु; रेतेन सङ्ख्ये निहतोऽश्वचक्रः |
१३ ख
सात्यकिरु उवाच:
को नाम साम्वस्य रणे मनुष्यो; गत्वान्तरं वै भुजय़ोर्धरेत ||
१३ ग
सात्यकिरु उवाच:
यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत |
१४ क
सात्यकिरु उवाच:
तथा प्रविश्यान्तरमस्य सङ्ख्ये; को नाम जीवन्पुनराव्रजेत ||
१४ ख
सात्यकिरु उवाच:
द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम् |
१५ क
सात्यकिरु उवाच:
सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते साय़कवह्निजालैः ||
१५ ख
सात्यकिरु उवाच:
किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु |
१६ क
सात्यकिरु उवाच:
आत्ताय़ुधस्योत्तमवाणपाणे; श्चक्राय़ुधस्याप्रतिमस्य युद्धे ||
१६ ख
सात्यकिरु उवाच:
ततोऽनिरुद्धोऽप्यसिचर्मपाणि; र्महीमिमां धार्तराष्ट्रैर्विसञ्ज्ञैः |
१७ क
सात्यकिरु उवाच:
हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु ||
१७ ख
सात्यकिरु उवाच:
गदोल्मुकौ वाहुकभानुनीथाः; शूरश्च सङ्ख्ये निशठः कुमारः |
१८ क
सात्यकिरु उवाच:
रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथय़न्तु कर्म ||
१८ ख
सात्यकिरु उवाच:
सवृष्णिभोजान्धकय़ोधमुख्या; समागता क्षत्रिय़शूरसेना |
१९ क
सात्यकिरु उवाच:
हत्वा रणे तान्धृतराष्ट्रपुत्राँ; ल्लोके यशः स्फीतमुपाकरोतु ||
१९ ख
सात्यकिरु उवाच:
ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः |
२० क
सात्यकिरु उवाच:
युधिष्ठिरः पारय़ते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन ||
२० ख
सात्यकिरु उवाच:
अस्मत्प्रमुक्तैर्विशिखैर्जितारि; स्ततो महीं भोक्ष्यति धर्मराजः |
२१ क
सात्यकिरु उवाच:
निर्धार्तराष्ट्रां हतसूतपुत्रा; मेतद्धि नः कृत्यतमं यशश्यम् ||
२१ ख
वासुदेव उवाच:
असंशय़ं माधव सत्यमेत; द्गृह्णीम ते वाक्यमदीनसत्त्व |
२२ क
वासुदेव उवाच:
स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथञ्चित् ||
२२ ख
वासुदेव उवाच:
न ह्येष कामान्न भय़ान्न लोभा; द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् |
२३ क
वासुदेव उवाच:
भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेय़म् ||
२३ ख
वासुदेव उवाच:
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनञ्जय़श्च |
२४ क
वासुदेव उवाच:
कस्मान्न कृत्स्नां पृथिवीं प्रशासे; न्माद्रीसुताभ्यां च पुरस्कृतोऽय़म् ||
२४ ख
वासुदेव उवाच:
यदा तु पाञ्चालपतिर्महात्मा; सकेकय़श्चेदिपतिर्वय़ं च |
२५ क
वासुदेव उवाच:
योत्स्याम विक्रम्य परांस्तदा वै; सुय़ोधनस्त्यक्ष्यति जीवलोकम् ||
२५ ख
युधिष्ठिर उवाच:
नैतच्चित्रं माधव यद्व्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् |
२६ क
युधिष्ठिर उवाच:
कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत् ||
२६ ख
युधिष्ठिर उवाच:
यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य |
२७ क
युधिष्ठिर उवाच:
तदा रणे त्वं च शिनिप्रवीर; सुय़ोधनं जेष्यसि केशवश्च ||
२७ ख
युधिष्ठिर उवाच:
प्रतिप्रय़ान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः |
२८ क
युधिष्ठिर उवाच:
धर्मेऽप्रमादं कुरुताप्रमेय़ा; द्रष्टास्मि भूय़ः सुखिनः समेतान् ||
२८ ख
वैशम्पाय़न उवाच:
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिस्वज्य शिशूंश्च सर्वान् |
२९ क
वैशम्पाय़न उवाच:
यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसञ्चचार ||
२९ ख
वैशम्पाय़न उवाच:
विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् |
३० क
वैशम्पाय़न उवाच:
सुतेन सोमेन विमिश्रितोदां; ततः पय़ोष्णीं प्रति स ह्युवास ||
३० ख