chevron_left उद्योग पर्व अध्याय १२०
नारद उवाच:
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः |
१ क
नारद उवाच:
यय़ातिर्दिव्यसंस्थानो वभूव विगतज्वरः ||
१ ख
नारद उवाच:
दिव्यमाल्याम्वरधरो दिव्याभरणभूषितः |
२ क
नारद उवाच:
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ||
२ ख
नारद उवाच:
ततो वसुमनाः पूर्वमुच्चैरुच्चारय़न्वचः |
३ क
नारद उवाच:
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ||
३ ख
नारद उवाच:
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हय़ा |
४ क
नारद उवाच:
तदप्यथ च दास्यामि तेन संय़ुज्यतां भवान् ||
४ ख
नारद उवाच:
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् |
५ क
नारद उवाच:
यच्च मे फलमाधाने तेन संय़ुज्यतां भवान् ||
५ ख
नारद उवाच:
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रिय़पुङ्गवः |
६ क
नारद उवाच:
यथा धर्मरतिर्नित्यं नित्यं युद्धपराय़णः ||
६ ख
नारद उवाच:
प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः |
७ क
नारद उवाच:
वीरशव्दफलं चैव तेन संय़ुज्यतां भवान् ||
७ ख
नारद उवाच:
शिविरौशीनरो धीमानुवाच मधुरां गिरम् |
८ क
नारद उवाच:
यथा वालेषु नारीषु वैहार्येषु तथैव च ||
८ ख
नारद उवाच:
सङ्गरेषु निपातेषु तथापद्व्यसनेषु च |
९ क
नारद उवाच:
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ||
९ ख
नारद उवाच:
यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च |
१० क
नारद उवाच:
त्यजेय़ं न पुनः सत्यं तेन सत्येन खं व्रज ||
१० ख
नारद उवाच:
यथा सत्येन मे धर्मो यथा सत्येन पावकः |
११ क
नारद उवाच:
प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज ||
११ ख
नारद उवाच:
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः |
१२ क
नारद उवाच:
अनेकशतय़ज्वानं वचनं प्राह धर्मवित् ||
१२ ख
नारद उवाच:
शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो |
१३ क
नारद उवाच:
क्रतवो वाजपेय़ाश्च तेषां फलमवाप्नुहि ||
१३ ख
नारद उवाच:
न मे रत्नानि न धनं न तथान्ये परिच्छदाः |
१४ क
नारद उवाच:
क्रतुष्वनुपय़ुक्तानि तेन सत्येन खं व्रज ||
१४ ख
नारद उवाच:
यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् |
१५ क
नारद उवाच:
तथा तथा वसुमतीं त्यक्त्वा राजा दिवं यय़ौ ||
१५ ख
नारद उवाच:
एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा |
१६ क
नारद उवाच:
यय़ातिं स्वर्गतो भ्रष्टं तारय़ामासुरञ्जसा ||
१६ ख
नारद उवाच:
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै |
१७ क
नारद उवाच:
चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः |
१७ ख
नारद उवाच:
मातामहं महाप्राज्ञं दिवमारोपय़न्ति ते ||
१७ ग
राजान ऊचुः:
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः |
१८ क
राजान ऊचुः:
दौहित्रास्ते वय़ं राजन्दिवमारोह पार्थिवः ||
१८ ख