धृतराष्ट्र उवाच:
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे |
१ क
धृतराष्ट्र उवाच:
यथा भूय़ोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
भूरिश्रवसि सङ्क्रान्ते परलोकाय़ भारत |
२ क
सञ्जय़ उवाच:
वासुदेवं महावाहुरर्जुनः समचूचुदत् ||
२ ख
सञ्जय़ उवाच:
चोदय़ाश्वान्भृशं कृष्ण यतो राजा जय़द्रथः |
३ क
सञ्जय़ उवाच:
अस्तमेति महावाहो त्वरमाणो दिवाकरः ||
३ ख
सञ्जय़ उवाच:
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मय़ा |
४ क
सञ्जय़ उवाच:
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ||
४ ख
सञ्जय़ उवाच:
नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः |
५ क
सञ्जय़ उवाच:
चोदय़ाश्वांस्तथा कृष्ण यथा हन्यां जय़द्रथम् ||
५ ख
सञ्जय़ उवाच:
ततः कृष्णो महावाहू रजतप्रतिमान्हय़ान् |
६ क
सञ्जय़ उवाच:
हय़ज्ञश्चोदय़ामास जय़द्रथरथं प्रति ||
६ ख
सञ्जय़ उवाच:
तं प्रय़ान्तममोघेषुमुत्पतद्भिरिवाशुगैः |
७ क
सञ्जय़ उवाच:
त्वरमाणा महाराज सेनामुख्याः समाव्रजन् ||
७ ख
सञ्जय़ उवाच:
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् |
८ क
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव स्वय़मेव च सैन्धवः ||
८ ख
सञ्जय़ उवाच:
समासाद्य तु वीभत्सुः सैन्धवं प्रमुखे स्थितम् |
९ क
सञ्जय़ उवाच:
नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ||
९ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा राधेय़ं त्वरितोऽव्रवीत् |
१० क
सञ्जय़ उवाच:
अर्जुनं वीक्ष्य संय़ान्तं जय़द्रथरथं प्रति ||
१० ख
सञ्जय़ उवाच:
अय़ं स वैकर्तन युद्धकालो; विदर्शय़स्वात्मवलं महात्मन् |
११ क
सञ्जय़ उवाच:
यथा न वध्येत रणेऽर्जुनेन; जय़द्रथः कर्ण तथा कुरुष्व ||
११ ख
सञ्जय़ उवाच:
अल्पावशिष्टं दिवसं नृवीर; विघातय़स्वाद्य रिपुं शरौघैः |
१२ क
सञ्जय़ उवाच:
दिनक्षय़ं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जय़ो भविष्यति ||
१२ ख
सञ्जय़ उवाच:
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमय़ं प्रति |
१३ क
सञ्जय़ उवाच:
मिथ्याप्रतिज्ञः कौन्तेय़ः प्रवेक्ष्यति हुताशनम् ||
१३ ख
सञ्जय़ उवाच:
अनर्जुनाय़ां च भुवि मुहूर्तमपि मानद |
१४ क
सञ्जय़ उवाच:
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ||
१४ ख
सञ्जय़ उवाच:
विनष्टैः पाण्डवेय़ैश्च सशैलवनकाननाम् |
१५ क
सञ्जय़ उवाच:
वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ||
१५ ख
सञ्जय़ उवाच:
दैवेनोपहतः पार्थो विपरीतश्च मानद |
१६ क
सञ्जय़ उवाच:
कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ||
१६ ख
सञ्जय़ उवाच:
नूनमात्मविनाशाय़ पाण्डवेन किरीटिना |
१७ क
सञ्जय़ उवाच:
प्रतिज्ञेय़ं कृता कर्ण जय़द्रथवधं प्रति ||
१७ ख
सञ्जय़ उवाच:
कथं जीवति दुर्धर्षे त्वय़ि राधेय़ फल्गुनः |
१८ क
सञ्जय़ उवाच:
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ||
१८ ख
सञ्जय़ उवाच:
रक्षितं मद्रराजेन कृपेण च महात्मना |
१९ क
सञ्जय़ उवाच:
जय़द्रथं रणमुखे कथं हन्याद्धनञ्जय़ः ||
१९ ख
सञ्जय़ उवाच:
द्रौणिना रक्ष्यमाणं च मय़ा दुःशासनेन च |
२० क
सञ्जय़ उवाच:
कथं प्राप्स्यति वीभत्सुः सैन्धवं कालचोदितः ||
२० ख
सञ्जय़ उवाच:
युध्यन्ते वहवः शूरा लम्वते च दिवाकरः |
२१ क
सञ्जय़ उवाच:
शङ्के जय़द्रथं पार्थो नैव प्राप्स्यति मानद ||
२१ ख
सञ्जय़ उवाच:
स त्वं कर्ण मय़ा सार्धं शूरैश्चान्यैर्महारथैः |
२२ क
सञ्जय़ उवाच:
युध्यस्व यत्नमास्थाय़ परं पार्थेन संय़ुगे ||
२२ ख
सञ्जय़ उवाच:
एवमुक्तस्तु राधेय़स्तव पुत्रेण मारिष |
२३ क
सञ्जय़ उवाच:
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ||
२३ ख
सञ्जय़ उवाच:
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना |
२४ क
सञ्जय़ उवाच:
भृशमुद्वेजितः सङ्ख्ये शरजालैरनेकशः ||
२४ ख
सञ्जय़ उवाच:
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद |
२५ क
सञ्जय़ उवाच:
नैवाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य रणेषुभिः ||
२५ ख
सञ्जय़ उवाच:
योत्स्यामि तु तथा राजञ्शक्त्याहं परय़ा रणे |
२६ क
सञ्जय़ उवाच:
यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ||
२६ ख
सञ्जय़ उवाच:
न हि मे युध्यमानस्य साय़कांश्चास्यतः शितान् |
२७ क
सञ्जय़ उवाच:
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जय़ः ||
२७ ख
सञ्जय़ उवाच:
यत्तु शक्तिमता कार्यं सततं हितकारिणा |
२८ क
सञ्जय़ उवाच:
तत्करिष्यामि कौरव्य जय़ो दैवे प्रतिष्ठितः ||
२८ ख
सञ्जय़ उवाच:
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः |
२९ क
सञ्जय़ उवाच:
त्वदर्थं पुरुषव्याघ्र जय़ो दैवे प्रतिष्ठितः ||
२९ ख
सञ्जय़ उवाच:
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभय़ोः |
३० क
सञ्जय़ उवाच:
पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् ||
३० ख
सञ्जय़ उवाच:
कर्णकौरवय़ोरेवं रणे सम्भाषमाणय़ोः |
३१ क
सञ्जय़ उवाच:
अर्जुनो निशितैर्वाणैर्जघान तव वाहिनीम् ||
३१ ख
सञ्जय़ उवाच:
चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् |
३२ क
सञ्जय़ उवाच:
भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ||
३२ ख
सञ्जय़ उवाच:
शिरांसि च महावाहुश्चिच्छेद निशितैः शरैः |
३३ क
सञ्जय़ उवाच:
हस्तिहस्तान्हय़ग्रीवा रथाक्षांश्च समन्ततः ||
३३ ख
सञ्जय़ उवाच:
शोणिताक्तान्हय़ारोहान्गृहीतप्रासतोमरान् |
३४ क
सञ्जय़ उवाच:
क्षुरैश्चिच्छेद वीभत्सुर्द्विधैकैकं त्रिधैव च ||
३४ ख
सञ्जय़ उवाच:
हय़वारणमुख्याश्च प्रापतन्त सहस्रशः |
३५ क
सञ्जय़ उवाच:
ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ||
३५ ख
सञ्जय़ उवाच:
कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् |
३६ क
सञ्जय़ उवाच:
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ||
३६ ख
सञ्जय़ उवाच:
हतभूय़िष्ठय़ोधं तत्कृत्वा तव वलं वली |
३७ क
सञ्जय़ उवाच:
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ||
३७ ख
सञ्जय़ उवाच:
वीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः |
३८ क
सञ्जय़ उवाच:
स वभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ||
३८ ख
सञ्जय़ उवाच:
तं तथावस्थितं दृष्ट्वा त्वदीय़ा वीर्यसंमताः |
३९ क
सञ्जय़ उवाच:
नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ||
३९ ख
सञ्जय़ उवाच:
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् |
४० क
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव स्वय़मेव च सैन्धवः ||
४० ख
सञ्जय़ उवाच:
संरव्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् |
४१ क
सञ्जय़ उवाच:
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ||
४१ ख
सञ्जय़ उवाच:
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः |
४२ क
सञ्जय़ उवाच:
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ||
४२ ख
सञ्जय़ उवाच:
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ |
४३ क
सञ्जय़ उवाच:
सूर्यास्तमय़मिच्छन्तो लोहिताय़ति भास्करे ||
४३ ख
सञ्जय़ उवाच:
ते भुजैर्भोगिभोगाभैर्धनूंष्याय़म्य साय़कान् |
४४ क
सञ्जय़ उवाच:
मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ||
४४ ख
सञ्जय़ उवाच:
तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः |
४५ क
सञ्जय़ उवाच:
द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ||
४५ ख
सञ्जय़ उवाच:
सिंहलाङ्गूलकेतुस्तु दर्शय़ञ्शक्तिमात्मनः |
४६ क
सञ्जय़ उवाच:
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारय़त् ||
४६ ख
सञ्जय़ उवाच:
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः |
४७ क
सञ्जय़ उवाच:
अतिष्ठद्रथमार्गेषु सैन्धवं परिपालय़न् ||
४७ ख
सञ्जय़ उवाच:
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः |
४८ क
सञ्जय़ उवाच:
महता रथवंशेन सर्वतः पर्यवारय़न् ||
४८ ख
सञ्जय़ उवाच:
विस्फारय़न्तश्चापानि विसृजन्तश्च साय़कान् |
४९ क
सञ्जय़ उवाच:
सैन्धवं पर्यरक्षन्त शासनात्तनय़स्य ते ||
४९ ख
सञ्जय़ उवाच:
तत्र पार्थस्य शूरस्य वाह्वोर्वलमदृश्यत |
५० क
सञ्जय़ उवाच:
इषूणामक्षय़त्वं च धनुषो गाण्डिवस्य च ||
५० ख