chevron_left आदि पर्व अध्याय १२१
वैशम्पाय़न उवाच:
विशेषार्थी ततो भीष्मः पौत्राणां विनय़ेप्सय़ा |
१ क
वैशम्पाय़न उवाच:
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ||
१ ख
वैशम्पाय़न उवाच:
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः |
२ क
वैशम्पाय़न उवाच:
नादेवसत्त्वो विनय़ेत्कुरूनस्त्रे महावलान् ||
२ ख
वैशम्पाय़न उवाच:
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा |
३ क
वैशम्पाय़न उवाच:
ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ||
३ ख
वैशम्पाय़न उवाच:
तस्या वाय़ुः समुद्धूतो वसनं व्यपकर्षत |
४ क
वैशम्पाय़न उवाच:
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ||
४ ख
वैशम्पाय़न उवाच:
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः |
५ क
वैशम्पाय़न उवाच:
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ||
५ ख
वैशम्पाय़न उवाच:
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् |
६ क
वैशम्पाय़न उवाच:
प्रत्यपादय़दाग्नेय़मस्त्रं धर्मभृतां वरः ||
६ ख
वैशम्पाय़न उवाच:
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम |
७ क
वैशम्पाय़न उवाच:
भारद्वाजं तदाग्नेय़ं महास्त्रं प्रत्यपादय़त् ||
७ ख
वैशम्पाय़न उवाच:
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः |
८ क
वैशम्पाय़न उवाच:
तस्यापि द्रुपदो नाम तदा समभवत्सुतः ||
८ ख
वैशम्पाय़न उवाच:
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः |
९ क
वैशम्पाय़न उवाच:
चिक्रीडाध्ययनं चैव चकार क्षत्रिय़र्षभः ||
९ ख
वैशम्पाय़न उवाच:
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् |
१० क
वैशम्पाय़न उवाच:
पाञ्चालेषु महावाहुरुत्तरेषु नरेश्वरः ||
१० ख
वैशम्पाय़न उवाच:
भरद्वाजोऽपि भगवानारुरोह दिवं तदा |
११ क
वैशम्पाय़न उवाच:
ततः पितृनिय़ुक्तात्मा पुत्रलोभान्महाय़शाः |
११ ख
वैशम्पाय़न उवाच:
शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ||
११ ग
वैशम्पाय़न उवाच:
अग्निहोत्रे च धर्मे च दमे च सततं रता |
१२ क
वैशम्पाय़न उवाच:
अलभद्गौतमी पुत्रमश्वत्थामानमेव च ||
१२ ख
वैशम्पाय़न उवाच:
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हय़ः |
१३ क
वैशम्पाय़न उवाच:
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमव्रवीत् ||
१३ ख
वैशम्पाय़न उवाच:
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् |
१४ क
वैशम्पाय़न उवाच:
अश्वत्थामैव वालोऽय़ं तस्मान्नाम्ना भविष्यति ||
१४ ख
वैशम्पाय़न उवाच:
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् |
१५ क
वैशम्पाय़न उवाच:
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ||
१५ ख
वैशम्पाय़न उवाच:
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् |
१६ क
वैशम्पाय़न उवाच:
व्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ||
१६ ख
वैशम्पाय़न उवाच:
वनं तु प्रस्थितं रामं भारद्वाजस्तदाव्रवीत् |
१७ क
वैशम्पाय़न उवाच:
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ||
१७ ख
राम उवाच:
हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते |
१८ क
राम उवाच:
व्राह्मणेभ्यो मय़ा दत्तं सर्वमेव तपोधन ||
१८ ख
राम उवाच:
तथैवेय़ं धरा देवी सागरान्ता सपत्तना |
१९ क
राम उवाच:
कश्यपाय़ मय़ा दत्ता कृत्स्ना नगरमालिनी ||
१९ ख
राम उवाच:
शरीरमात्रमेवाद्य मय़ेदमवशेषितम् |
२० क
राम उवाच:
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च |
२० ख
राम उवाच:
वृणीष्व किं प्रय़च्छामि तुभ्यं द्रोण वदाशु तत् ||
२० ग
द्रोण उवाच:
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव |
२१ क
द्रोण उवाच:
सप्रय़ोगरहस्यानि दातुमर्हस्यशेषतः ||
२१ ख
वैशम्पाय़न उवाच:
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः |
२२ क
वैशम्पाय़न उवाच:
सरहस्यव्रतं चैव धनुर्वेदमशेषतः ||
२२ ख
वैशम्पाय़न उवाच:
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः |
२३ क
वैशम्पाय़न उवाच:
प्रिय़ं सखाय़ं सुप्रीतो जगाम द्रुपदं प्रति ||
२३ ख