युधिष्ठिर उवाच:
विद्या तपश्च दानं च किमेतेषां विशिष्यते |
१ क
युधिष्ठिर उवाच:
पृच्छामि त्वा सतां श्रेष्ठ तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
मैत्रेय़स्य च संवादं कृष्णद्वैपाय़नस्य च ||
२ ख
भीष्म उवाच:
कृष्णद्वैपाय़नो राजन्नज्ञातचरितं चरन् |
३ क
भीष्म उवाच:
वाराणस्यामुपातिष्ठन्मैत्रेय़ं स्वैरिणीकुले ||
३ ख
भीष्म उवाच:
तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् |
४ क
भीष्म उवाच:
अर्चित्वा भोजय़ामास मैत्रेय़ोऽशनमुत्तमम् ||
४ ख
भीष्म उवाच:
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् |
५ क
भीष्म उवाच:
प्रतिष्ठमानोऽस्मय़त प्रीतः कृष्णो महामनाः ||
५ ख
भीष्म उवाच:
तमुत्स्मय़न्तं सम्प्रेक्ष्य मैत्रेय़ः कृष्णमव्रवीत् |
६ क
भीष्म उवाच:
कारणं व्रूहि धर्मात्मन्योऽस्मय़िष्ठाः कुतश्च ते |
६ ख
भीष्म उवाच:
तपस्विनो धृतिमतः प्रमोदः समुपागतः ||
६ ग
भीष्म उवाच:
एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च |
७ क
भीष्म उवाच:
आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ||
७ ख
भीष्म उवाच:
पृथगाचरतस्तात पृथगात्मनि चात्मनोः |
८ क
भीष्म उवाच:
अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वय़ा ||
८ ख
व्यास उवाच:
अतिच्छेदातिवादाभ्यां स्मय़ोऽय़ं समुपागतः |
९ क
व्यास उवाच:
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ||
९ ख
व्यास उवाच:
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् |
१० क
व्यास उवाच:
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् |
१० ख
व्यास उवाच:
इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ||
१० ग
व्यास उवाच:
अल्पोऽपि तादृशो दाय़ो भवत्युत महाफलः |
११ क
व्यास उवाच:
तृषिताय़ च यद्दत्तं हृदय़ेनानसूय़ता ||
११ ख
व्यास उवाच:
तृषितस्तृषिताय़ त्वं दत्त्वैतदशनं मम |
१२ क
व्यास उवाच:
अजैषीर्महतो लोकान्महाय़ज्ञैरिवाभिभो |
१२ ख
व्यास उवाच:
अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ||
१२ ग
व्यास उवाच:
पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् |
१३ क
व्यास उवाच:
पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ||
१३ ख
व्यास उवाच:
अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् |
१४ क
व्यास उवाच:
शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् ||
१४ ख
व्यास उवाच:
यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि |
१५ क
व्यास उवाच:
तेषां श्रेष्ठतमं दानमिति मे नास्ति संशय़ः ||
१५ ख
व्यास उवाच:
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः |
१६ क
व्यास उवाच:
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ||
१६ ख
व्यास उवाच:
यथा वेदाः स्वधीताश्च यथा चेन्द्रिय़संय़मः |
१७ क
व्यास उवाच:
सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ||
१७ ख
व्यास उवाच:
त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् |
१८ क
व्यास उवाच:
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ||
१८ ख
व्यास उवाच:
तन्नः प्रत्यक्षमेवेदमुपलव्धमसंशय़म् |
१९ क
व्यास उवाच:
श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ||
१९ ख
व्यास उवाच:
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् |
२० क
व्यास उवाच:
दृश्यते हि महाप्राज्ञ निय़तं वै स्वभावतः ||
२० ख
व्यास उवाच:
त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः |
२१ क
व्यास उवाच:
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ||
२१ ख
व्यास उवाच:
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् |
२२ क
व्यास उवाच:
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ||
२२ ख
व्यास उवाच:
रमस्वैधस्व मोदस्व देहि चैव यजस्व च |
२३ क
व्यास उवाच:
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ||
२३ ख