chevron_left वन पर्व अध्याय १३३
अष्टावक्र उवाच:
अन्धस्य पन्था वधिरस्य पन्थाः; स्त्रिय़ः पन्था वैवधिकस्य पन्थाः |
१ क
अष्टावक्र उवाच:
राज्ञः पन्था व्राह्मणेनासमेत्य; समेत्य तु व्राह्मणस्यैव पन्थाः ||
१ ख
राजो उवाच:
पन्था अय़ं तेऽद्य मय़ा निसृष्टो; येनेच्छसे तेन कामं व्रजस्व |
२ क
राजो उवाच:
न पावको विद्यते वै लघीय़ा; निन्द्रोऽपि नित्यं नमते व्राह्मणानाम् ||
२ ख
अष्टावक्र उवाच:
यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ वलवद्वै विवृद्धम् |
३ क
अष्टावक्र उवाच:
आवां प्राप्तावतिथी सम्प्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् ||
३ ख
अष्टावक्र उवाच:
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू |
४ क
अष्टावक्र उवाच:
न वै क्रोधाद्व्याधिनैवोत्तमेन; संय़ोजय़ द्वारपाल क्षणेन ||
४ ख
द्वारपाल उवाच:
वन्देः समादेशकरा वय़ं स्म; निवोध वाक्यं च मय़ेर्यमाणम् |
५ क
द्वारपाल उवाच:
न वै वालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः ||
५ ख
अष्टावक्र उवाच:
यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् |
६ क
अष्टावक्र उवाच:
वय़ं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः ||
६ ख
अष्टावक्र उवाच:
शुश्रूषवश्चापि जितेन्द्रिय़ाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम् |
७ क
अष्टावक्र उवाच:
न वाल इत्यवमन्तव्यमाहु; र्वालोऽप्यग्निर्दहति स्पृश्यमानः ||
७ ख
द्वारपाल उवाच:
सरस्वतीमीरय़ वेदजुष्टा; मेकाक्षरां वहुरूपां विराजम् |
८ क
द्वारपाल उवाच:
अङ्गात्मानं समवेक्षस्व वालं; किं श्लाघसे दुर्लभा वादसिद्धिः ||
८ ख
अष्टावक्र उवाच:
न ज्ञाय़ते काय़वृद्ध्या विवृद्धि; र्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा |
९ क
अष्टावक्र उवाच:
ह्रस्वोऽल्पकाय़ः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः ||
९ ख
द्वारपाल उवाच:
वृद्धेभ्य एवेह मतिं स्म वाला; गृह्णन्ति कालेन भवन्ति वृद्धाः |
१० क
द्वारपाल उवाच:
न हि ज्ञानमल्पकालेन शक्यं; कस्माद्वालो वृद्ध इवावभाषसे ||
१० ख
अष्टावक्र उवाच:
न तेन स्थविरो भवति येनास्य पलितं शिरः |
११ क
अष्टावक्र उवाच:
वालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः ||
११ ख
अष्टावक्र उवाच:
न हाय़नैर्न पलितैर्न वित्तेन न वन्धुभिः |
१२ क
अष्टावक्र उवाच:
ऋषय़श्चक्रिरे धर्मं योऽनूचानः स नो महान् ||
१२ ख
अष्टावक्र उवाच:
दिदृक्षुरस्मि सम्प्राप्तो वन्दिनं राजसंसदि |
१३ क
अष्टावक्र उवाच:
निवेदय़स्व मां द्वाःस्थ राज्ञे पुष्करमालिने ||
१३ ख
अष्टावक्र उवाच:
द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे |
१४ क
अष्टावक्र उवाच:
उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य ||
१४ ख
द्वारपाल उवाच:
कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां सम्प्रवेश्यम् |
१५ क
द्वारपाल उवाच:
उपाय़तः प्रय़तिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् ||
१५ ख
अष्टावक्र उवाच:
भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वय़ि सर्वं समृद्धम् |
१६ क
अष्टावक्र उवाच:
त्वं वा कर्ता कर्मणां यज्ञिय़ानां; यय़ातिरेको नृपतिर्वा पुरस्तात् ||
१६ ख
अष्टावक्र उवाच:
विद्वान्वन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः |
१७ क
अष्टावक्र उवाच:
त्वय़ा निसृष्टैः पुरुषैराप्तकृद्भि; र्जले सर्वान्मज्जय़तीति नः श्रुतम् ||
१७ ख
अष्टावक्र उवाच:
स तच्छ्रुत्वा व्राह्मणानां सकाशा; द्व्रह्मोद्यं वै कथय़ितुमागतोऽस्मि |
१८ क
अष्टावक्र उवाच:
क्वासौ वन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशय़ामि ||
१८ ख
राजो उवाच:
आशंससे वन्दिनं त्वं विजेतु; मविज्ञात्वा वाक्यवलं परस्य |
१९ क
राजो उवाच:
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ व्राह्मणैर्वादशीलैः ||
१९ ख
अष्टावक्र उवाच:
विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः |
२० क
अष्टावक्र उवाच:
समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवावलाक्षम् ||
२० ख
राजो उवाच:
षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः |
२१ क
राजो उवाच:
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ||
२१ ख
अष्टावक्र उवाच:
चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि |
२२ क
अष्टावक्र उवाच:
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ||
२२ ख
राजो उवाच:
वडवे इव संय़ुक्ते श्येनपाते दिवौकसाम् |
२३ क
राजो उवाच:
कस्तय़ोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ||
२३ ख
अष्टावक्र उवाच:
मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् |
२४ क
अष्टावक्र उवाच:
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ||
२४ ख
राजो उवाच:
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति |
२५ क
राजो उवाच:
कस्य स्विद्धृदय़ं नास्ति किं स्विद्वेगेन वर्धते ||
२५ ख
अष्टावक्र उवाच:
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति |
२६ क
अष्टावक्र उवाच:
अश्मनो हृदय़ं नास्ति नदी वेगेन वर्धते ||
२६ ख
राजो उवाच:
न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं वालः स्थविरस्त्वं मतो मे |
२७ क
राजो उवाच:
न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष वन्दी ||
२७ ख