chevron_left द्रोण पर्व अध्याय १२१
सञ्जय़ उवाच:
स रणे व्यचरत्पार्थः प्रेक्षणीय़ो धनञ्जय़ः |
१ क
सञ्जय़ उवाच:
युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शय़न् ||
१ ख
सञ्जय़ उवाच:
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्वरे |
२ क
सञ्जय़ उवाच:
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ||
२ ख
सञ्जय़ उवाच:
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः |
३ क
सञ्जय़ उवाच:
सङ्ग्रामे समपश्याम हंसपङ्क्तीरिवाम्वरे ||
३ ख
सञ्जय़ उवाच:
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः |
४ क
सञ्जय़ उवाच:
दर्शय़न्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ||
४ ख
सञ्जय़ उवाच:
स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः |
५ क
सञ्जय़ उवाच:
मोहय़न्निव नाराचैर्जय़द्रथवधेप्सय़ा ||
५ ख
सञ्जय़ उवाच:
विसृजन्दिक्षु सर्वासु शरानसितसारथिः |
६ क
सञ्जय़ उवाच:
स रणे व्यचरत्तूर्णं प्रेक्षणीय़ो धनञ्जय़ः ||
६ ख
सञ्जय़ उवाच:
भ्रमन्त इव शूरस्य शरव्राता महात्मनः |
७ क
सञ्जय़ उवाच:
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ||
७ ख
सञ्जय़ उवाच:
आददानं महेष्वासं सन्दधानं च पाण्डवम् |
८ क
सञ्जय़ उवाच:
विसृजन्तं च कौन्तेय़ं नानुपश्यामहे तदा ||
८ ख
सञ्जय़ उवाच:
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे |
९ क
सञ्जय़ उवाच:
आकुलीकृत्य कौन्तेय़ो जय़द्रथमुपाद्रवत् |
९ ख
सञ्जय़ उवाच:
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ||
९ ग
सञ्जय़ उवाच:
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना |
१० क
सञ्जय़ उवाच:
न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः ||
१० ख
सञ्जय़ उवाच:
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् |
११ क
सञ्जय़ उवाच:
आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् |
११ ख
सञ्जय़ उवाच:
मुमोच निशितान्सङ्ख्ये साय़कान्सव्यसाचिनि ||
११ ग
सञ्जय़ उवाच:
त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् |
१२ क
सञ्जय़ उवाच:
अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ||
१२ ख
सञ्जय़ उवाच:
स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् |
१३ क
सञ्जय़ उवाच:
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह |
१३ ख
सञ्जय़ उवाच:
सारथेश्च शिरः काय़ाद्ध्वजं च समलङ्कृतम् ||
१३ ग
सञ्जय़ उवाच:
स छिन्नय़ष्टिः सुमहाञ्शीर्यमाणः शराहतः |
१४ क
सञ्जय़ उवाच:
वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ||
१४ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे |
१५ क
सञ्जय़ उवाच:
अव्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ||
१५ ख
सञ्जय़ उवाच:
धनञ्जय़ शिरश्छिन्धि सैन्धवस्य दुरात्मनः |
१६ क
सञ्जय़ उवाच:
अस्तं महीधरश्रेष्ठं यिय़ासति दिवाकरः |
१६ ख
सञ्जय़ उवाच:
शृणुष्वैव च मे वाक्यं जय़द्रथवधं प्रति ||
१६ ग
सञ्जय़ उवाच:
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः |
१७ क
सञ्जय़ उवाच:
स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ||
१७ ख
सञ्जय़ उवाच:
जय़द्रथममित्रघ्नं तं चोवाच ततो नृपम् |
१८ क
सञ्जय़ उवाच:
अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ||
१८ ख
सञ्जय़ उवाच:
तवात्मजोऽय़ं मर्त्येषु कुलशीलदमादिभिः |
१९ क
सञ्जय़ उवाच:
गुणैर्भविष्यति विभो सदृशो वंशय़ोर्द्वय़ोः |
१९ ख
सञ्जय़ उवाच:
क्षत्रिय़प्रवरो लोके नित्यं शूराभिसत्कृतः ||
१९ ग
सञ्जय़ उवाच:
शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः |
२० क
सञ्जय़ उवाच:
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि ||
२० ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दम |
२१ क
सञ्जय़ उवाच:
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ||
२१ ख
सञ्जय़ उवाच:
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् |
२२ क
सञ्जय़ उवाच:
धरण्यां मम पुत्रस्य पातय़िष्यति यः शिरः |
२२ ख
सञ्जय़ उवाच:
तस्यापि शतधा मूर्धा फलिष्यति न संशय़ः ||
२२ ग
सञ्जय़ उवाच:
एवमुक्त्वा ततो राज्ये स्थापय़ित्वा जय़द्रथम् |
२३ क
सञ्जय़ उवाच:
वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ||
२३ ख
सञ्जय़ उवाच:
सोऽय़ं तप्यति तेजस्वी तपो घोरं दुरासदम् |
२४ क
सञ्जय़ उवाच:
समन्तपञ्चकादस्माद्वहिर्वानरकेतन ||
२४ ख
सञ्जय़ उवाच:
तस्माज्जय़द्रथस्य त्वं शिरश्छित्त्वा महामृधे |
२५ क
सञ्जय़ उवाच:
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ||
२५ ख
सञ्जय़ उवाच:
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज |
२६ क
सञ्जय़ उवाच:
उत्सङ्गे पातय़स्वाशु वृद्धक्षत्रस्य भारत ||
२६ ख
सञ्जय़ उवाच:
अथ त्वमस्य मूर्धानं पातय़िष्यसि भूतले |
२७ क
सञ्जय़ उवाच:
तवापि शतधा मूर्धा फलिष्यति न संशय़ः ||
२७ ख
सञ्जय़ उवाच:
यथा चैतन्न जानीय़ात्स राजा पृथिवीपतिः |
२८ क
सञ्जय़ उवाच:
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ||
२८ ख
सञ्जय़ उवाच:
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन |
२९ क
सञ्जय़ उवाच:
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ||
२९ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् |
३० क
सञ्जय़ उवाच:
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ||
३० ख
सञ्जय़ उवाच:
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् |
३१ क
सञ्जय़ उवाच:
विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ||
३१ ख
सञ्जय़ उवाच:
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः |
३२ क
सञ्जय़ उवाच:
शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ||
३२ ख
सञ्जय़ उवाच:
अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनञ्जय़ः |
३३ क
सञ्जय़ उवाच:
दुर्हृदामप्रहर्षाय़ सुहृदां हर्षणाय़ च ||
३३ ख
सञ्जय़ उवाच:
शरैः कदम्वकीकृत्य काले तस्मिंश्च पाण्डवः |
३४ क
सञ्जय़ उवाच:
समन्तपञ्चकाद्वाह्यं शिरस्तद्व्यहरत्ततः ||
३४ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः |
३५ क
सञ्जय़ उवाच:
सन्ध्यामुपास्ते तेजस्वी सम्वन्धी तव मारिष ||
३५ ख
सञ्जय़ उवाच:
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् |
३६ क
सञ्जय़ उवाच:
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातय़त् ||
३६ ख
सञ्जय़ उवाच:
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् |
३७ क
सञ्जय़ उवाच:
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम ||
३७ ख
सञ्जय़ उवाच:
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः |
३८ क
सञ्जय़ उवाच:
उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ||
३८ ख
सञ्जय़ उवाच:
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् |
३९ क
सञ्जय़ उवाच:
गते तस्यापि शतधा मूर्धागच्छदरिन्दम ||
३९ ख
सञ्जय़ उवाच:
ततः सर्वाणि भूतानि विस्मय़ं जग्मुरुत्तमम् |
४० क
सञ्जय़ उवाच:
वासुदेवश्च वीभत्सुं प्रशशंस महारथम् ||
४० ख
सञ्जय़ उवाच:
ततो दृष्ट्वा विनिहतं सिन्धुराजं जय़द्रथम् |
४१ क
सञ्जय़ उवाच:
पुत्राणां तव नेत्रेभ्यो दुःखाद्वह्वपतज्जलम् ||
४१ ख
सञ्जय़ उवाच:
भीमसेनोऽपि सङ्ग्रामे वोधय़न्निव पाण्डवम् |
४२ क
सञ्जय़ उवाच:
सिंहनादेन महता पूरय़ामास रोदसी ||
४२ ख
सञ्जय़ उवाच:
तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः |
४३ क
सञ्जय़ उवाच:
सैन्धवं निहतं मेने फल्गुनेन महात्मना ||
४३ ख
सञ्जय़ उवाच:
ततो वादित्रघोषेण स्वान्योधानभिहर्षय़न् |
४४ क
सञ्जय़ उवाच:
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युय़ुत्सय़ा ||
४४ ख
सञ्जय़ उवाच:
ततः प्रववृते राजन्नस्तं गच्छति भास्करे |
४५ क
सञ्जय़ उवाच:
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो लोमहर्षणः ||
४५ ख
सञ्जय़ उवाच:
ते तु सर्वप्रय़त्नेन भारद्वाजं जिघांसवः |
४६ क
सञ्जय़ उवाच:
सैन्धवे निहते राजन्नय़ुध्यन्त महारथाः ||
४६ ख
सञ्जय़ उवाच:
पाण्डवास्तु जय़ं लव्ध्वा सैन्धवं विनिहत्य च |
४७ क
सञ्जय़ उवाच:
अय़ोधय़ंस्ततो द्रोणं जय़ोन्मत्तास्ततस्ततः ||
४७ ख