chevron_left द्रोण पर्व अध्याय १२२
सञ्जय़ उवाच:
उपारमत तत्सैन्यं सरथाश्वनरद्विपम् |
५० क
सञ्जय़ उवाच:
तय़ोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ||
५० ख
सञ्जय़ उवाच:
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् |
५१ क
सञ्जय़ उवाच:
तय़ोर्नृवरय़ो राजन्सारथ्यं दारुकस्य च ||
५१ ख
सञ्जय़ उवाच:
गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः |
५२ क
सञ्जय़ उवाच:
सारथेस्तु रथस्थस्य काश्यपेय़स्य विस्मिताः ||
५२ ख
सञ्जय़ उवाच:
नभस्तलगताश्चैव देवगन्धर्वदानवाः |
५३ क
सञ्जय़ उवाच:
अतीवावहिता द्रष्टुं कर्णशैनेय़यो रणम् ||
५३ ख
सञ्जय़ उवाच:
मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे |
५४ क
सञ्जय़ उवाच:
कर्णश्चामरसङ्काशो युय़ुधानश्च सात्यकिः ||
५४ ख
सञ्जय़ उवाच:
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् |
५५ क
सञ्जय़ उवाच:
प्रममाथ शिनेः पौत्रं कर्णः साय़कवृष्टिभिः ||
५५ ख
सञ्जय़ उवाच:
अमृष्यमाणो निधनं कौरव्यजलसन्धय़ोः |
५६ क
सञ्जय़ उवाच:
कर्णः शोकसमाविष्टो महोरग इव श्वसन् ||
५६ ख
सञ्जय़ उवाच:
स शैनेय़ं रणे क्रुद्धः प्रदहन्निव चक्षुषा |
५७ क
सञ्जय़ उवाच:
अभ्यद्रवत वेगेन पुनः पुनररिन्दमः ||
५७ ख
सञ्जय़ उवाच:
तं तु सम्प्रेक्ष्य सङ्क्रुद्धं सात्यकिः प्रत्यविध्यत |
५८ क
सञ्जय़ उवाच:
महता शरवर्षेण गजः प्रतिगजं यथा ||
५८ ख
सञ्जय़ उवाच:
तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ |
५९ क
सञ्जय़ उवाच:
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ||
५९ ख
सञ्जय़ उवाच:
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः |
६० क
सञ्जय़ उवाच:
विभेद सर्वगात्रेषु पुनः पुनररिन्दमः ||
६० ख
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन रथनीडादपाहरत् |
६१ क
सञ्जय़ उवाच:
अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ||
६१ ख
सञ्जय़ उवाच:
छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः |
६२ क
सञ्जय़ उवाच:
चकार विरथं कर्णं तव पुत्रस्य पश्यतः ||
६२ ख
सञ्जय़ उवाच:
ततो विमनसो राजंस्तावकाः पुरुषर्षभाः |
६३ क
सञ्जय़ उवाच:
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ||
६३ ख
सञ्जय़ उवाच:
द्रोणपुत्रश्च शैनेय़ं सर्वतः पर्यवारय़न् |
६४ क
सञ्जय़ उवाच:
ततः पर्याकुलं सर्वं न प्राज्ञाय़त किञ्चन ||
६४ ख
सञ्जय़ उवाच:
तथा सात्यकिना वीरे विरथे सूतजे कृते |
६५ क
सञ्जय़ उवाच:
हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् ||
६५ ख
सञ्जय़ उवाच:
कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः |
६६ क
सञ्जय़ उवाच:
दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ||
६६ ख
सञ्जय़ उवाच:
मानय़ंस्तव पुत्रस्य वाल्यात्प्रभृति सौहृदम् |
६७ क
सञ्जय़ उवाच:
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालय़न् ||
६७ ख
सञ्जय़ उवाच:
तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव |
६८ क
सञ्जय़ उवाच:
दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ||
६८ ख
सञ्जय़ उवाच:
रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा |
६९ क
सञ्जय़ उवाच:
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजय़त् ||
६९ ख
सञ्जय़ उवाच:
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः |
७० क
सञ्जय़ उवाच:
पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः ||
७० ख
सञ्जय़ उवाच:
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा |
७१ क
सञ्जय़ उवाच:
नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ||
७१ ख
सञ्जय़ उवाच:
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः |
७२ क
सञ्जय़ उवाच:
निर्जिता धनुषैकेन शतशः क्षत्रिय़र्षभाः |
७२ ख
सञ्जय़ उवाच:
काङ्क्षता परलोकं च धर्मराजस्य च प्रिय़म् ||
७२ ग
सञ्जय़ उवाच:
कृष्णय़ोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः |
७३ क
सञ्जय़ उवाच:
कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः |
७३ ख
सञ्जय़ उवाच:
शैनेय़ो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ||
७३ ग
धृतराष्ट्र उवाच:
अजय़्यं रथमास्थाय़ वासुदेवस्य सात्यकिः |
७४ क
धृतराष्ट्र उवाच:
विरथं कृतवान्कर्णं वासुदेवसमो युवा ||
७४ ख
धृतराष्ट्र उवाच:
दारुकेण समाय़ुक्तं स्ववाहुवलदर्पितः |
७५ क
धृतराष्ट्र उवाच:
कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ||
७५ ख
धृतराष्ट्र उवाच:
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् |
७६ क
धृतराष्ट्र उवाच:
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय़ ||
७६ ख
सञ्जय़ उवाच:
शृणु राजन्यथा तस्य रथमन्यं महामतिः |
७७ क
सञ्जय़ उवाच:
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ||
७७ ख
सञ्जय़ उवाच:
आय़सैः काञ्चनैश्चापि पट्टैर्नद्धं सकूवरम् |
७८ क
सञ्जय़ उवाच:
तारासहस्रखचितं सिंहध्वजपताकिनम् ||
७८ ख
सञ्जय़ उवाच:
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः |
७९ क
सञ्जय़ उवाच:
पाण्डुरैरिन्दुसङ्काशैः सर्वशव्दातिगैर्दृढैः ||
७९ ख
सञ्जय़ उवाच:
चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते |
८० क
सञ्जय़ उवाच:
घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ||
८० ख
सञ्जय़ उवाच:
वृतं साङ्ग्रामिकैर्द्रव्यैर्वहुशस्त्रपरिच्छदम् |
८१ क
सञ्जय़ उवाच:
रथं सम्पादय़ामास मेघगम्भीरनिस्वनम् ||
८१ ख
सञ्जय़ उवाच:
तं समारुह्य शैनेय़स्तव सैन्यमुपाद्रवत् |
८२ क
सञ्जय़ उवाच:
दारुकोऽपि यथाकामं प्रय़यौ केशवान्तिकम् ||
८२ ख
सञ्जय़ उवाच:
कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः |
८३ क
सञ्जय़ उवाच:
चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ||
८३ ख
सञ्जय़ उवाच:
हेमकक्ष्याध्वजोपेतं कॢप्तय़न्त्रपताकिनम् |
८४ क
सञ्जय़ उवाच:
अग्र्यं रथं सुय़न्तारं वहुशस्त्रपरिच्छदम् ||
८४ ख
सञ्जय़ उवाच:
उपाजह्रुस्तमास्थाय़ कर्णोऽप्यभ्यद्रवद्रिपून् |
८५ क
सञ्जय़ उवाच:
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||
८५ ख
सञ्जय़ उवाच:
भूय़श्चापि निवोध त्वं तवापनय़जं क्षय़म् |
८६ क
सञ्जय़ उवाच:
एकत्रिंशत्तव सुता भीमसेनेन पातिताः ||
८६ ख
सञ्जय़ उवाच:
दुर्मुखं प्रमुखे कृत्वा सततं चित्रय़ोधिनम् |
८७ क
सञ्जय़ उवाच:
शतशो निहताः शूराः सात्वतेनार्जुनेन च ||
८७ ख
सञ्जय़ उवाच:
भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष |
८८ क
सञ्जय़ उवाच:
एवमेष क्षय़ो वृत्तो राजन्दुर्मन्त्रिते तव ||
८८ ख