chevron_left आदि पर्व अध्याय १२२
वैशम्पाय़न उवाच:
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् |
१ क
वैशम्पाय़न उवाच:
अव्रवीत्पार्षतं राजन्सखाय़ं विद्धि मामिति ||
१ ख
द्रुपद उवाच:
अकृतेय़ं तव प्रज्ञा व्रह्मन्नातिसमञ्जसी |
२ क
द्रुपद उवाच:
यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज ||
२ ख
द्रुपद उवाच:
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् |
३ क
द्रुपद उवाच:
सख्यं भवति मन्दात्मञ्श्रिय़ा हीनैर्धनच्युतैः ||
३ ख
द्रुपद उवाच:
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् |
४ क
द्रुपद उवाच:
सौहृदं मे त्वय़ा ह्यासीत्पूर्वं सामर्थ्यवन्धनम् ||
४ ख
द्रुपद उवाच:
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् |
५ क
द्रुपद उवाच:
कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ||
५ ख
द्रुपद उवाच:
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु |
६ क
द्रुपद उवाच:
आसीत्सख्यं द्विजश्रेष्ठ त्वय़ा मेऽर्थनिवन्धनम् ||
६ ख
द्रुपद उवाच:
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा |
७ क
द्रुपद उवाच:
शूरस्य न सखा क्लीवः सखिपूर्वं किमिष्यते ||
७ ख
द्रुपद उवाच:
यय़ोरेव समं वित्तं यय़ोरेव समं कुलम् |
८ क
द्रुपद उवाच:
तय़ोः सख्यं विवाहश्च न तु पुष्टविपुष्टय़ोः ||
८ ख
द्रुपद उवाच:
नाश्रोत्रिय़ः श्रोत्रिय़स्य नारथी रथिनः सखा |
९ क
द्रुपद उवाच:
नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ||
९ ख
वैशम्पाय़न उवाच:
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् |
१० क
वैशम्पाय़न उवाच:
मुहूर्तं चिन्तय़ामास मन्युनाभिपरिप्लुतः ||
१० ख
वैशम्पाय़न उवाच:
स विनिश्चित्य मनसा पाञ्चालं प्रति वुद्धिमान् |
११ क
वैशम्पाय़न उवाच:
जगाम कुरुमुख्यानां नगरं नागसाह्वय़म् ||
११ ख
वैशम्पाय़न उवाच:
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वय़ात् |
१२ क
वैशम्पाय़न उवाच:
क्रीडन्तो वीटय़ा तत्र वीराः पर्यचरन्मुदा ||
१२ ख
वैशम्पाय़न उवाच:
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा |
१३ क
वैशम्पाय़न उवाच:
न च ते प्रत्यपद्यन्त कर्म वीटोपलव्धय़े ||
१३ ख
वैशम्पाय़न उवाच:
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा |
१४ क
वैशम्पाय़न उवाच:
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ||
१४ ख
वैशम्पाय़न उवाच:
अहो नु धिग्वलं क्षात्रं धिगेतां वः कृतास्त्रताम् |
१५ क
वैशम्पाय़न उवाच:
भरतस्यान्वय़े जाता ये वीटां नाधिगच्छत ||
१५ ख
वैशम्पाय़न उवाच:
एष मुष्टिरिषीकाणां मय़ास्त्रेणाभिमन्त्रितः |
१६ क
वैशम्पाय़न उवाच:
अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ||
१६ ख
वैशम्पाय़न उवाच:
वेत्स्यामीषीकय़ा वीटां तामिषीकामथान्यया |
१७ क
वैशम्पाय़न उवाच:
तामन्यया समाय़ोगो वीटाय़ा ग्रहणे मम ||
१७ ख
वैशम्पाय़न उवाच:
तदपश्यन्कुमारास्ते विस्मय़ोत्फुल्ललोचनाः |
१८ क
वैशम्पाय़न उवाच:
अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमव्रुवन् ||
१८ ख
वैशम्पाय़न उवाच:
अभिवादय़ामहे व्रह्मन्नैतदन्येषु विद्यते |
१९ क
वैशम्पाय़न उवाच:
कोऽसि कं त्वाभिजानीमो वय़ं किं करवामहे ||
१९ ख
द्रोण उवाच:
आचक्षध्वं च भीष्माय़ रूपेण च गुणैश्च माम् |
२० क
द्रोण उवाच:
स एव सुमहावुद्धिः साम्प्रतं प्रतिपत्स्यते ||
२० ख
वैशम्पाय़न उवाच:
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् |
२१ क
वैशम्पाय़न उवाच:
व्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ||
२१ ख
वैशम्पाय़न उवाच:
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत |
२२ क
वैशम्पाय़न उवाच:
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ||
२२ ख
वैशम्पाय़न उवाच:
अथैनमानीय़ तदा स्वय़मेव सुसत्कृतम् |
२३ क
वैशम्पाय़न उवाच:
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः |
२३ ख
वैशम्पाय़न उवाच:
हेतुमागमने तस्य द्रोणः सर्वं न्यवेदय़त् ||
२३ ग
वैशम्पाय़न उवाच:
महर्षेरग्निवेश्यस्य सकाशमहमच्युत |
२४ क
वैशम्पाय़न उवाच:
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षय़ा ||
२४ ख
वैशम्पाय़न उवाच:
व्रह्मचारी विनीतात्मा जटिलो वहुलाः समाः |
२५ क
वैशम्पाय़न उवाच:
अवसं तत्र सुचिरं धनुर्वेदचिकीर्षय़ा ||
२५ ख
वैशम्पाय़न उवाच:
पाञ्चालराजपुत्रस्तु यज्ञसेनो महावलः |
२६ क
वैशम्पाय़न उवाच:
मय़ा सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ||
२६ ख
वैशम्पाय़न उवाच:
स मे तत्र सखा चासीदुपकारी प्रिय़श्च मे |
२७ क
वैशम्पाय़न उवाच:
तेनाहं सह सङ्गम्य रतवान्सुचिरं वत |
२७ ख
वैशम्पाय़न उवाच:
वाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ||
२७ ग
वैशम्पाय़न उवाच:
स समासाद्य मां तत्र प्रिय़कारी प्रिय़ंवदः |
२८ क
वैशम्पाय़न उवाच:
अव्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ||
२८ ख
वैशम्पाय़न उवाच:
अहं प्रिय़तमः पुत्रः पितुर्द्रोण महात्मनः |
२९ क
वैशम्पाय़न उवाच:
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ||
२९ ख
वैशम्पाय़न उवाच:
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे |
३० क
वैशम्पाय़न उवाच:
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ||
३० ख
वैशम्पाय़न उवाच:
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सय़ा |
३१ क
वैशम्पाय़न उवाच:
अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तय़न् ||
३१ ख
वैशम्पाय़न उवाच:
प्रिय़ं सखाय़ं सुप्रीतो राज्यस्थं पुनराव्रजम् |
३२ क
वैशम्पाय़न उवाच:
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ||
३२ ख
वैशम्पाय़न उवाच:
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो |
३३ क
वैशम्पाय़न उवाच:
अव्रुवं पुरुषव्याघ्र सखाय़ं विद्धि मामिति ||
३३ ख
वैशम्पाय़न उवाच:
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् |
३४ क
वैशम्पाय़न उवाच:
स मां निराकारमिव प्रहसन्निदमव्रवीत् ||
३४ ख
वैशम्पाय़न उवाच:
अकृतेय़ं तव प्रज्ञा व्रह्मन्नातिसमञ्जसी |
३५ क
वैशम्पाय़न उवाच:
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ||
३५ ख
वैशम्पाय़न उवाच:
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् |
३६ क
वैशम्पाय़न उवाच:
सख्यं भवति मन्दात्मञ्श्रिय़ा हीनैर्धनच्युतैः ||
३६ ख
वैशम्पाय़न उवाच:
नाश्रोत्रिय़ः श्रोत्रिय़स्य नारथी रथिनः सखा |
३७ क
वैशम्पाय़न उवाच:
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ||
३७ ख
वैशम्पाय़न उवाच:
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः |
३८ क
वैशम्पाय़न उवाच:
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ||
३८ ख
वैशम्पाय़न उवाच:
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह |
३९ क
वैशम्पाय़न उवाच:
पौत्रानादाय़ तान्सर्वान्वसूनि विविधानि च ||
३९ ख
वैशम्पाय़न उवाच:
शिष्या इति ददौ राजन्द्रोणाय़ विधिपूर्वकम् |
४० क
वैशम्पाय़न उवाच:
स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ||
४० ख
वैशम्पाय़न उवाच:
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमव्रवीत् |
४१ क
वैशम्पाय़न उवाच:
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ||
४१ ख
वैशम्पाय़न उवाच:
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते |
४२ क
वैशम्पाय़न उवाच:
कृतास्त्रैस्तत्प्रदेय़ं मे तदृतं वदतानघाः ||
४२ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा कौरवेय़ास्ते तूष्णीमासन्विशां पते |
४३ क
वैशम्पाय़न उवाच:
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ||
४३ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय़ पुनः पुनः |
४४ क
वैशम्पाय़न उवाच:
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ||
४४ ख
वैशम्पाय़न उवाच:
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च |
४५ क
वैशम्पाय़न उवाच:
ग्राहय़ामास दिव्यानि मानुषाणि च वीर्यवान् ||
४५ ख
वैशम्पाय़न उवाच:
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ |
४६ क
वैशम्पाय़न उवाच:
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् |
४६ ख
वैशम्पाय़न उवाच:
वृष्णय़श्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ||
४६ ग
वैशम्पाय़न उवाच:
सूतपुत्रश्च राधेय़ो गुरुं द्रोणमिय़ात्तदा |
४७ क
वैशम्पाय़न उवाच:
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः |
४७ ख
वैशम्पाय़न उवाच:
दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ||
४७ ग