chevron_left अनुशासन पर्व अध्याय १२२
भीष्म उवाच:
एवमुक्तः प्रत्युवाच मैत्रेय़ः कर्मपूजकः |
१ क
भीष्म उवाच:
अत्यन्तं श्रीमति कुले जातः प्राज्ञो वहुश्रुतः ||
१ ख
भीष्म उवाच:
असंशय़ं महाप्राज्ञ यथैवात्थ तथैव तत् |
२ क
भीष्म उवाच:
अनुज्ञातस्तु भवता किञ्चिद्व्रूय़ामहं विभो ||
२ ख
व्यास उवाच:
यद्यदिच्छसि मैत्रेय़ यावद्यावद्यथा तथा |
३ क
व्यास उवाच:
व्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव ||
३ ख
मैत्रेय़ उवाच:
निर्दोषं निर्मलं चैव वचनं दानसंहितम् |
४ क
मैत्रेय़ उवाच:
विद्यातपोभ्यां हि भवान्भावितात्मा न संशय़ः ||
४ ख
मैत्रेय़ उवाच:
भवतो भावितात्मत्वाद्दाय़ोऽय़ं सुमहान्मम |
५ क
मैत्रेय़ उवाच:
भूय़ो वुद्ध्यानुपश्यामि सुसमृद्धतपा इव ||
५ ख
मैत्रेय़ उवाच:
अपि मे दर्शनादेव भवतोऽभ्युदय़ो महान् |
६ क
मैत्रेय़ उवाच:
मन्ये भवत्प्रसादोऽय़ं तद्धि कर्म स्वभावतः ||
६ ख
मैत्रेय़ उवाच:
तपः श्रुतं च योनिश्चाप्येतद्व्राह्मण्यकारणम् |
७ क
मैत्रेय़ उवाच:
त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः ||
७ ख
मैत्रेय़ उवाच:
तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च |
८ क
मैत्रेय़ उवाच:
न हि श्रुतवतां किञ्चिदधिकं व्राह्मणादृते ||
८ ख
मैत्रेय़ उवाच:
यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः |
९ क
मैत्रेय़ उवाच:
एवं दत्त्वा श्रुतवति फलं दाता समश्नुते ||
९ ख
मैत्रेय़ उवाच:
व्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः |
१० क
मैत्रेय़ उवाच:
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ||
१० ख
मैत्रेय़ उवाच:
अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् |
११ क
मैत्रेय़ उवाच:
तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽवुधः ||
११ ख
मैत्रेय़ उवाच:
प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनय़तीश्वरः |
१२ क
मैत्रेय़ उवाच:
स चान्नाज्जाय़ते तस्मात्सूक्ष्म एव व्यतिक्रमः ||
१२ ख
मैत्रेय़ उवाच:
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः |
१३ क
मैत्रेय़ उवाच:
न ह्येकचक्रं वर्तेत इत्येवमृषय़ो विदुः ||
१३ ख
मैत्रेय़ उवाच:
यत्र वै व्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः |
१४ क
मैत्रेय़ उवाच:
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ||
१४ ख
मैत्रेय़ उवाच:
ये योनिशुद्धाः सततं तपस्यभिरता भृशम् |
१५ क
मैत्रेय़ उवाच:
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ||
१५ ख
मैत्रेय़ उवाच:
तैर्हि सद्भिः कृतः पन्थाश्चेतय़ानो न मुह्यते |
१६ क
मैत्रेय़ उवाच:
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ||
१६ ख