धृतराष्ट्र उवाच:
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना |
१ क
धृतराष्ट्र उवाच:
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष |
२ क
सञ्जय़ उवाच:
अमर्षवशमापन्नः कृपः शारद्वतस्तदा ||
२ ख
सञ्जय़ उवाच:
महता शरवर्षेण पाण्डवं समवाकिरत् |
३ क
सञ्जय़ उवाच:
द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय़ फल्गुनम् ||
३ ख
सञ्जय़ उवाच:
तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् |
४ क
सञ्जय़ उवाच:
उभावुभय़तस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ||
४ ख
सञ्जय़ उवाच:
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः |
५ क
सञ्जय़ उवाच:
पीड्यमानः परामार्तिमगमद्रथिनां वरः ||
५ ख
सञ्जय़ उवाच:
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनय़मेव च |
६ क
सञ्जय़ उवाच:
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जय़ः ||
६ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च |
७ क
सञ्जय़ उवाच:
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ||
७ ख
सञ्जय़ उवाच:
ते नातिभृशमभ्यघ्नन्विशिखा जय़चोदिताः |
८ क
सञ्जय़ उवाच:
वहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ||
८ ख
सञ्जय़ उवाच:
अथ शारद्वतो राजन्कौन्तेय़शरपीडितः |
९ क
सञ्जय़ उवाच:
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ||
९ ख
सञ्जय़ उवाच:
विह्वलं तमभिज्ञाय़ भर्तारं शरपीडितम् |
१० क
सञ्जय़ उवाच:
हतोऽय़मिति च ज्ञात्वा सारथिस्तमपावहत् ||
१० ख
सञ्जय़ उवाच:
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि |
११ क
सञ्जय़ उवाच:
अश्वत्थामाप्यपाय़ासीत्पाण्डवेय़ाद्रथान्तरम् ||
११ ख
सञ्जय़ उवाच:
दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् |
१२ क
सञ्जय़ उवाच:
रथ एव महेष्वासः कृपणं पर्यदेवय़त् ||
१२ ख
सञ्जय़ उवाच:
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् |
१३ क
सञ्जय़ उवाच:
कुलान्तकरणे पापे जातमात्रे सुय़ोधने ||
१३ ख
सञ्जय़ उवाच:
नीय़तां परलोकाय़ साध्वय़ं कुलपांसनः |
१४ क
सञ्जय़ उवाच:
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भय़म् ||
१४ ख
सञ्जय़ उवाच:
तदिदं समनुप्राप्तं वचनं सत्यवादिनः |
१५ क
सञ्जय़ उवाच:
तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ||
१५ ख
सञ्जय़ उवाच:
धिगस्तु क्षात्रमाचारं धिगस्तु वलपौरुषम् |
१६ क
सञ्जय़ उवाच:
को हि व्राह्मणमाचार्यमभिद्रुह्येत मादृशः ||
१६ ख
सञ्जय़ उवाच:
ऋषिपुत्रो ममाचार्यो द्रोणस्य दय़ितः सखा |
१७ क
सञ्जय़ उवाच:
एष शेते रथोपस्थे मद्वाणैरभिपीडितः ||
१७ ख
सञ्जय़ उवाच:
अकामय़ानेन मय़ा विशिखैरर्दितो भृशम् |
१८ क
सञ्जय़ उवाच:
अवासीदद्रथोपस्थे प्राणान्पीडय़तीव मे ||
१८ ख
सञ्जय़ उवाच:
शरार्दितेन हि मय़ा प्रेक्षणीय़ो महाद्युतिः |
१९ क
सञ्जय़ उवाच:
प्रत्यस्तो वहुभिर्वाणैर्दशधर्मगतेन वै ||
१९ ख
सञ्जय़ उवाच:
शोचय़त्येष निपतन्भूय़ः पुत्रवधाद्धि माम् |
२० क
सञ्जय़ उवाच:
कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ||
२० ख
सञ्जय़ उवाच:
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः |
२१ क
सञ्जय़ उवाच:
प्रय़च्छन्तीह ये कामान्देवत्वमुपय़ान्ति ते ||
२१ ख
सञ्जय़ उवाच:
ये तु विद्यामुपादाय़ गुरुभ्यः पुरुषाधमाः |
२२ क
सञ्जय़ उवाच:
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरय़गामिनः ||
२२ ख
सञ्जय़ उवाच:
तदिदं नरकाय़ाद्य कृतं कर्म मय़ा ध्रुवम् |
२३ क
सञ्जय़ उवाच:
आचार्यं शरवर्षेण रथे सादय़ता कृपम् ||
२३ ख
सञ्जय़ उवाच:
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामव्रवीत्कृपः |
२४ क
सञ्जय़ उवाच:
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ||
२४ ख
सञ्जय़ उवाच:
तदिदं वचनं साधोराचार्यस्य महात्मनः |
२५ क
सञ्जय़ उवाच:
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ||
२५ ख
सञ्जय़ उवाच:
नमस्तस्मै सुपूज्याय़ गौतमाय़ापलाय़िने |
२६ क
सञ्जय़ उवाच:
धिगस्तु मम वार्ष्णेय़ यो ह्यस्मै प्रहराम्यहम् ||
२६ ख
सञ्जय़ उवाच:
तथा विलपमाने तु सव्यसाचिनि तं प्रति |
२७ क
सञ्जय़ उवाच:
सैन्धवं निहतं दृष्ट्वा राधेय़ः समुपाद्रवत् ||
२७ ख
सञ्जय़ उवाच:
उपाय़ान्तं तु राधेय़ं दृष्ट्वा पार्थो महारथः |
२८ क
सञ्जय़ उवाच:
प्रहसन्देवकीपुत्रमिदं वचनमव्रवीत् ||
२८ ख
सञ्जय़ उवाच:
एष प्रय़ात्याधिरथिः सात्यकेः स्यन्दनं प्रति |
२९ क
सञ्जय़ उवाच:
न मृष्यति हतं नूनं भूरिश्रवसमाहवे ||
२९ ख
सञ्जय़ उवाच:
यत्र यात्येष तत्र त्वं चोदय़ाश्वाञ्जनार्दन |
३० क
सञ्जय़ उवाच:
मा सोमदत्तेः पदवीं गमय़ेत्सात्यकिं वृषः ||
३० ख
सञ्जय़ उवाच:
एवमुक्तो महावाहुः केशवः सव्यसाचिना |
३१ क
सञ्जय़ उवाच:
प्रत्युवाच महातेजाः कालय़ुक्तमिदं वचः ||
३१ ख
सञ्जय़ उवाच:
अलमेष महावाहुः कर्णाय़ैको हि पाण्डव |
३२ क
सञ्जय़ उवाच:
किं पुनर्द्रौपदेय़ाभ्यां सहितः सात्वतर्षभः ||
३२ ख
सञ्जय़ उवाच:
न च तावत्क्षमः पार्थ कर्णेन तव सङ्गरः |
३३ क
सञ्जय़ उवाच:
प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी |
३३ ख
सञ्जय़ उवाच:
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ||
३३ ग
सञ्जय़ उवाच:
अतः कर्णः प्रय़ात्वत्र सात्वतस्य यथा तथा |
३४ क
सञ्जय़ उवाच:
अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ||
३४ ख
धृतराष्ट्र उवाच:
योऽसौ कर्णेन वीरेण वार्ष्णेय़स्य समागमः |
३५ क
धृतराष्ट्र उवाच:
हते तु भूरिश्रवसि सैन्धवे च निपातिते ||
३५ ख
धृतराष्ट्र उवाच:
सात्यकिश्चापि विरथः कं समारूढवान्रथम् |
३६ क
धृतराष्ट्र उवाच:
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय़ ||
३६ ख
सञ्जय़ उवाच:
हन्त ते वर्णय़िष्यामि यथावृत्तं महारणे |
३७ क
सञ्जय़ उवाच:
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ||
३७ ख
सञ्जय़ उवाच:
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो |
३८ क
सञ्जय़ उवाच:
विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना ||
३८ ख
सञ्जय़ उवाच:
अतीतानागतं राजन्स हि वेत्ति जनार्दनः |
३९ क
सञ्जय़ उवाच:
अतः सूतं समाहूय़ दारुकं सन्दिदेश ह |
३९ ख
सञ्जय़ उवाच:
रथो मे युज्यतां काल्यमिति राजन्महावलः ||
३९ ग
सञ्जय़ उवाच:
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः |
४० क
सञ्जय़ उवाच:
मानवा वा विजेतारः कृष्णय़ोः सन्ति केचन ||
४० ख
सञ्जय़ उवाच:
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः |
४१ क
सञ्जय़ उवाच:
तय़ोः प्रभावमतुलं शृणु युद्धं च तद्यथा ||
४१ ख
सञ्जय़ उवाच:
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यताय़ुधम् |
४२ क
सञ्जय़ उवाच:
दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ||
४२ ख
सञ्जय़ उवाच:
दारुकोऽवेत्य सन्देशं श्रुत्वा शङ्खस्य च स्वनम् |
४३ क
सञ्जय़ उवाच:
रथमन्वानय़त्तस्मै सुपर्णोच्छ्रितकेतनम् ||
४३ ख
सञ्जय़ उवाच:
स केशवस्यानुमते रथं दारुकसंय़ुतम् |
४४ क
सञ्जय़ उवाच:
आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् ||
४४ ख
सञ्जय़ उवाच:
कामगैः सैन्यसुग्रीवमेघपुष्पवलाहकैः |
४५ क
सञ्जय़ उवाच:
हय़ोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ||
४५ ख
सञ्जय़ उवाच:
युक्तं समारुह्य च तं विमानप्रतिमं रथम् |
४६ क
सञ्जय़ उवाच:
अभ्यद्रवत राधेय़ं प्रवपन्साय़कान्वहून् ||
४६ ख
सञ्जय़ उवाच:
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ |
४७ क
सञ्जय़ उवाच:
धनञ्जय़रथं हित्वा राधेय़ं प्रत्युदीय़युः ||
४७ ख
सञ्जय़ उवाच:
राधेय़ोऽपि महाराज शरवर्षं समुत्सृजन् |
४८ क
सञ्जय़ उवाच:
अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेय़मच्युतम् ||
४८ ख
सञ्जय़ उवाच:
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् |
४९ क
सञ्जय़ उवाच:
तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ||
४९ ख