chevron_left आदि पर्व अध्याय १२३
वैशम्पाय़न उवाच:
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने |
१ क
वैशम्पाय़न उवाच:
अस्त्रे च परमं योगं प्रिय़ो द्रोणस्य चाभवत् ||
१ ख
वैशम्पाय़न उवाच:
द्रोणेन तु तदाहूय़ रहस्युक्तोऽन्नसाधकः |
२ क
वैशम्पाय़न उवाच:
अन्धकारेऽर्जुनाय़ान्नं न देय़ं ते कथञ्चन ||
२ ख
वैशम्पाय़न उवाच:
ततः कदाचिद्भुञ्जाने प्रववौ वाय़ुरर्जुने |
३ क
वैशम्पाय़न उवाच:
तेन तत्र प्रदीपः स दीप्यमानो निवापितः ||
३ ख
वैशम्पाय़न उवाच:
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत |
४ क
वैशम्पाय़न उवाच:
हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् |
४ ख
वैशम्पाय़न उवाच:
तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ||
४ ग
वैशम्पाय़न उवाच:
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत |
५ क
वैशम्पाय़न उवाच:
उपेत्य चैनमुत्थाय़ परिष्वज्येदमव्रवीत् ||
५ ख
वैशम्पाय़न उवाच:
प्रय़तिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः |
६ क
वैशम्पाय़न उवाच:
त्वत्समो भविता लोके सत्यमेतद्व्रवीमि ते ||
६ ख
वैशम्पाय़न उवाच:
ततो द्रोणोऽर्जुनं भूय़ो रथेषु च गजेषु च |
७ क
वैशम्पाय़न उवाच:
अश्वेषु भूमावपि च रणशिक्षामशिक्षय़त् ||
७ ख
वैशम्पाय़न उवाच:
गदाय़ुद्धेऽसिचर्याय़ां तोमरप्रासशक्तिषु |
८ क
वैशम्पाय़न उवाच:
द्रोणः सङ्कीर्णय़ुद्धेषु शिक्षय़ामास पाण्डवम् ||
८ ख
वैशम्पाय़न उवाच:
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः |
९ क
वैशम्पाय़न उवाच:
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ||
९ ख
वैशम्पाय़न उवाच:
ततो निषादराजस्य हिरण्यधनुषः सुतः |
१० क
वैशम्पाय़न उवाच:
एकलव्यो महाराज द्रोणमभ्याजगाम ह ||
१० ख
वैशम्पाय़न उवाच:
न स तं प्रतिजग्राह नैषादिरिति चिन्तय़न् |
११ क
वैशम्पाय़न उवाच:
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षय़ा ||
११ ख
वैशम्पाय़न उवाच:
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः |
१२ क
वैशम्पाय़न उवाच:
अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमय़म् ||
१२ ख
वैशम्पाय़न उवाच:
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा |
१३ क
वैशम्पाय़न उवाच:
इष्वस्त्रे योगमातस्थे परं निय़ममास्थितः ||
१३ ख
वैशम्पाय़न उवाच:
परय़ा श्रद्धय़ा युक्तो योगेन परमेण च |
१४ क
वैशम्पाय़न उवाच:
विमोक्षादानसन्धाने लघुत्वं परमाप सः ||
१४ ख
वैशम्पाय़न उवाच:
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः |
१५ क
वैशम्पाय़न उवाच:
रथैर्विनिर्ययुः सर्वे मृगय़ामरिमर्दनाः ||
१५ ख
वैशम्पाय़न उवाच:
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छय़ा |
१६ क
वैशम्पाय़न उवाच:
राजन्ननुजगामैकः श्वानमादाय़ पाण्डवान् ||
१६ ख
वैशम्पाय़न उवाच:
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् |
१७ क
वैशम्पाय़न उवाच:
श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ||
१७ ख
वैशम्पाय़न उवाच:
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने |
१८ क
वैशम्पाय़न उवाच:
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ||
१८ ख
वैशम्पाय़न उवाच:
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे |
१९ क
वैशम्पाय़न उवाच:
लाघवं दर्शय़न्नस्त्रे मुमोच युगपद्यथा ||
१९ ख
वैशम्पाय़न उवाच:
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह |
२० क
वैशम्पाय़न उवाच:
तं दृष्ट्वा पाण्डवा वीरा विस्मय़ं परमं यय़ुः ||
२० ख
वैशम्पाय़न उवाच:
लाघवं शव्दवेधित्वं दृष्ट्वा तत्परमं तदा |
२१ क
वैशम्पाय़न उवाच:
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ||
२१ ख
वैशम्पाय़न उवाच:
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् |
२२ क
वैशम्पाय़न उवाच:
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ||
२२ ख
वैशम्पाय़न उवाच:
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् |
२३ क
वैशम्पाय़न उवाच:
अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ||
२३ ख
एकलव्य उवाच:
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् |
२४ क
एकलव्य उवाच:
द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ||
२४ ख
वैशम्पाय़न उवाच:
ते तमाज्ञाय़ तत्त्वेन पुनरागम्य पाण्डवाः |
२५ क
वैशम्पाय़न उवाच:
यथावृत्तं च ते सर्वं द्रोणाय़ाचख्युरद्भुतम् ||
२५ ख
वैशम्पाय़न उवाच:
कौन्तेय़स्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् |
२६ क
वैशम्पाय़न उवाच:
रहो द्रोणं समागम्य प्रणय़ादिदमव्रवीत् ||
२६ ख
वैशम्पाय़न उवाच:
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः |
२७ क
वैशम्पाय़न उवाच:
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ||
२७ ख
वैशम्पाय़न उवाच:
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् |
२८ क
वैशम्पाय़न उवाच:
अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ||
२८ ख
वैशम्पाय़न उवाच:
मुहूर्तमिव तं द्रोणश्चिन्तय़ित्वा विनिश्चय़म् |
२९ क
वैशम्पाय़न उवाच:
सव्यसाचिनमादाय़ नैषादिं प्रति जग्मिवान् ||
२९ ख
वैशम्पाय़न उवाच:
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् |
३० क
वैशम्पाय़न उवाच:
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ||
३० ख
वैशम्पाय़न उवाच:
एकलव्यस्तु तं दृष्ट्वा द्रोणमाय़ान्तमन्तिकात् |
३१ क
वैशम्पाय़न उवाच:
अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ||
३१ ख
वैशम्पाय़न उवाच:
पूजय़ित्वा ततो द्रोणं विधिवत्स निषादजः |
३२ क
वैशम्पाय़न उवाच:
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ||
३२ ख
वैशम्पाय़न उवाच:
ततो द्रोणोऽव्रवीद्राजन्नेकलव्यमिदं वचः |
३३ क
वैशम्पाय़न उवाच:
यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीय़ताम् ||
३३ ख
वैशम्पाय़न उवाच:
एकलव्यस्तु तच्छ्रुत्वा प्रीय़माणोऽव्रवीदिदम् |
३४ क
वैशम्पाय़न उवाच:
किं प्रय़च्छामि भगवन्नाज्ञापय़तु मां गुरुः ||
३४ ख
वैशम्पाय़न उवाच:
न हि किञ्चिददेय़ं मे गुरवे व्रह्मवित्तम |
३५ क
वैशम्पाय़न उवाच:
तमव्रवीत्त्वय़ाङ्गुष्ठो दक्षिणो दीय़तां मम ||
३५ ख
वैशम्पाय़न उवाच:
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् |
३६ क
वैशम्पाय़न उवाच:
प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ||
३६ ख
वैशम्पाय़न उवाच:
तथैव हृष्टवदनस्तथैवादीनमानसः |
३७ क
वैशम्पाय़न उवाच:
छित्त्वाविचार्य तं प्रादाद्द्रोणाय़ाङ्गुष्ठमात्मनः ||
३७ ख
वैशम्पाय़न उवाच:
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत |
३८ क
वैशम्पाय़न उवाच:
न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ||
३८ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनः प्रीतमना वभूव विगतज्वरः |
३९ क
वैशम्पाय़न उवाच:
द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ||
३९ ख
वैशम्पाय़न उवाच:
द्रोणस्य तु तदा शिष्यौ गदाय़ोग्यां विशेषतः |
४० क
वैशम्पाय़न उवाच:
दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ||
४० ख
वैशम्पाय़न उवाच:
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् |
४१ क
वैशम्पाय़न उवाच:
तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ |
४१ ख
वैशम्पाय़न उवाच:
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जय़ः ||
४१ ग
वैशम्पाय़न उवाच:
प्रथितः सागरान्ताय़ां रथय़ूथपय़ूथपः |
४२ क
वैशम्पाय़न उवाच:
वुद्धिय़ोगवलोत्साहैः सर्वास्त्रेषु च पाण्डवः ||
४२ ख
वैशम्पाय़न उवाच:
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः |
४३ क
वैशम्पाय़न उवाच:
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् |
४३ ख
वैशम्पाय़न उवाच:
एकः सर्वकुमाराणां वभूवातिरथोऽर्जुनः ||
४३ ग
वैशम्पाय़न उवाच:
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जय़म् |
४४ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ||
४४ ख
वैशम्पाय़न उवाच:
तांस्तु सर्वान्समानीय़ सर्वविद्यासु निष्ठितान् |
४५ क
वैशम्पाय़न उवाच:
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ||
४५ ख
वैशम्पाय़न उवाच:
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् |
४६ क
वैशम्पाय़न उवाच:
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ||
४६ ख
द्रोण उवाच:
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय़ सत्वराः |
४७ क
द्रोण उवाच:
भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ||
४७ ख
द्रोण उवाच:
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् |
४८ क
द्रोण उवाच:
एकैकशो निय़ोक्ष्यामि तथा कुरुत पुत्रकाः ||
४८ ख
वैशम्पाय़न उवाच:
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः |
४९ क