युधिष्ठिर उवाच:
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चय़म् |
१ क
युधिष्ठिर उवाच:
लोकय़ात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ||
१ ख
युधिष्ठिर उवाच:
धर्मार्थकामाः किंमूलास्त्रय़ाणां प्रभवश्च कः |
२ क
युधिष्ठिर उवाच:
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ||
२ ख
भीष्म उवाच:
यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चय़े |
३ क
भीष्म उवाच:
कालप्रभवसंस्थासु सज्जन्ते च त्रय़स्तदा ||
३ ख
भीष्म उवाच:
धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते |
४ क
भीष्म उवाच:
सङ्कल्पमूलास्ते सर्वे सङ्कल्पो विषय़ात्मकः ||
४ ख
भीष्म उवाच:
विषय़ाश्चैव कार्त्स्न्येन सर्व आहारसिद्धय़े |
५ क
भीष्म उवाच:
मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ||
५ ख
भीष्म उवाच:
धर्मः शरीरसङ्गुप्तिर्धर्मार्थं चार्थ इष्यते |
६ क
भीष्म उवाच:
कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः ||
६ ख
भीष्म उवाच:
संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत् |
७ क
भीष्म उवाच:
विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् ||
७ ख
भीष्म उवाच:
श्रेष्ठवुद्धिस्त्रिवर्गस्य यदय़ं प्राप्नुय़ात्क्षणात् |
८ क
भीष्म उवाच:
वुद्ध्या वुध्येदिहार्थे न तदह्ना तु निकृष्टय़ा ||
८ ख
भीष्म उवाच:
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् |
९ क
भीष्म उवाच:
सम्प्रमोदमलः कामो भूय़ः स्वगुणवर्तितः ||
९ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१० क
भीष्म उवाच:
कामन्दस्य च संवादमङ्गारिष्ठस्य चोभय़ोः ||
१० ख
भीष्म उवाच:
कामन्दमृषिमासीनमभिवाद्य नराधिपः |
११ क
भीष्म उवाच:
अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समय़पर्ययम् ||
११ ख
भीष्म उवाच:
यः पापं कुरुते राजा काममोहवलात्कृतः |
१२ क
भीष्म उवाच:
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ||
१२ ख
भीष्म उवाच:
अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह |
१३ क
भीष्म उवाच:
तं चापि प्रथितं लोके कथं राजा निवर्तय़ेत् ||
१३ ख
कामन्द उवाच:
यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते |
१४ क
कामन्द उवाच:
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति ||
१४ ख
कामन्द उवाच:
प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः |
१५ क
कामन्द उवाच:
तस्मान्नास्तिकता चैव दुराचारश्च जाय़ते ||
१५ ख
कामन्द उवाच:
दुराचारान्यदा राजा प्रदुष्टान्न निय़च्छति |
१६ क
कामन्द उवाच:
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ||
१६ ख
कामन्द उवाच:
तं प्रजा नानुवर्तन्ते व्राह्मणा न च साधवः |
१७ क
कामन्द उवाच:
ततः सङ्क्षय़माप्नोति तथा वध्यत्वमेति च ||
१७ ख
कामन्द उवाच:
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् |
१८ क
कामन्द उवाच:
जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् ||
१८ ख
कामन्द उवाच:
अत्रैतदाहुराचार्याः पापस्य च निवर्हणम् |
१९ क
कामन्द उवाच:
सेवितव्या त्रय़ी विद्या सत्कारो व्राह्मणेषु च ||
१९ ख
कामन्द उवाच:
महामना भवेद्धर्मे विवहेच्च महाकुले |
२० क
कामन्द उवाच:
व्राह्मणांश्चापि सेवेत क्षमाय़ुक्तान्मनस्विनः ||
२० ख
कामन्द उवाच:
जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः |
२१ क
कामन्द उवाच:
धर्मान्वितान्सम्प्रविशेद्वहिः कृत्वैव दुष्कृतीन् ||
२१ ख
कामन्द उवाच:
प्रसादय़ेन्मधुरय़ वाचाप्यथ च कर्मणा |
२२ क
कामन्द उवाच:
इत्यस्मीति वदेन्नित्यं परेषां कीर्तय़न्गुणान् ||
२२ ख
कामन्द उवाच:
अपापो ह्येवमाचारः क्षिप्रं वहुमतो भवेत् |
२३ क
कामन्द उवाच:
पापान्यपि च कृच्छ्राणि शमय़ेन्नात्र संशय़ः ||
२३ ख
कामन्द उवाच:
गुरवोऽपि परं धर्मं यद्व्रूय़ुस्तत्तथा कुरु |
२४ क
कामन्द उवाच:
गुरूणां हि प्रसादाद्धि श्रेय़ः परमवाप्स्यसि ||
२४ ख