chevron_left अनुशासन पर्व अध्याय १२३
भीष्म उवाच:
एवमुक्तः स भगवान्मैत्रेय़ं प्रत्यभाषत |
१ क
भीष्म उवाच:
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते वुद्धिरीदृशी |
१ ख
भीष्म उवाच:
लोको ह्ययं गुणानेव भूय़िष्ठं स्म प्रशंसति ||
१ ग
भीष्म उवाच:
रूपमानवय़ोमानश्रीमानाश्चाप्यसंशय़म् |
२ क
भीष्म उवाच:
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽय़मनुग्रहः |
२ ख
भीष्म उवाच:
यत्ते भृशतरं दानाद्वर्तय़िष्यामि तच्छृणु ||
२ ग
भीष्म उवाच:
यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तय़ः |
३ क
भीष्म उवाच:
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ||
३ ख
भीष्म उवाच:
अहं दानं प्रशंसामि भवानपि तपःश्रुते |
४ क
भीष्म उवाच:
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ||
४ ख
भीष्म उवाच:
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् |
५ क
भीष्म उवाच:
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ||
५ ख
भीष्म उवाच:
यद्यद्धि किञ्चित्सन्धाय़ पुरुषस्तप्यते तपः |
६ क
भीष्म उवाच:
सर्वमेतदवाप्नोति व्राह्मणो वेदपारगः ||
६ ख
भीष्म उवाच:
दुरन्वय़ं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् |
७ क
भीष्म उवाच:
सर्वं वै तपसाभ्येति तपो हि वलवत्तरम् ||
७ ख
भीष्म उवाच:
सुरापोऽसंमतादाय़ी भ्रूणहा गुरुतल्पगः |
८ क
भीष्म उवाच:
तपसा तरते सर्वमेनसश्च प्रमुच्यते ||
८ ख
भीष्म उवाच:
सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः |
९ क
भीष्म उवाच:
तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः ||
९ ख
भीष्म उवाच:
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः |
१० क
भीष्म उवाच:
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रिय़म् ||
१० ख
भीष्म उवाच:
इमं च व्रह्मलोकं च लोकं च वलवत्तरम् |
११ क
भीष्म उवाच:
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ||
११ ख
भीष्म उवाच:
पूजिताः पूजय़न्त्येतान्मानिता मानय़न्ति च |
१२ क
भीष्म उवाच:
अदाता यत्र यत्रैति सर्वतः सम्प्रणुद्यते ||
१२ ख
भीष्म उवाच:
अकर्ता चैव कर्ता च लभते यस्य यादृशम् |
१३ क
भीष्म उवाच:
यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभिय़ास्यसि ||
१३ ख
भीष्म उवाच:
प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् |
१४ क
भीष्म उवाच:
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ||
१४ ख
भीष्म उवाच:
कौमारदारव्रतवान्मैत्रेय़ निरतो भव |
१५ क
भीष्म उवाच:
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ||
१५ ख
भीष्म उवाच:
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता |
१६ क
भीष्म उवाच:
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ||
१६ ख
भीष्म उवाच:
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभय़ा यथा |
१७ क
भीष्म उवाच:
दानेन तपसा चैव सर्वपापमपोह्यते ||
१७ ख
भीष्म उवाच:
स्वस्ति प्राप्नुहि मैत्रेय़ गृहान्साधु व्रजाम्यहम् |
१८ क
भीष्म उवाच:
एतन्मनसि कर्तव्यं श्रेय़ एवं भविष्यति ||
१८ ख
भीष्म उवाच:
तं प्रणम्याथ मैत्रेय़ः कृत्वा चाभिप्रदक्षिणम् |
१९ क
भीष्म उवाच:
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ||
१९ ख