सञ्जय़ उवाच:
आमन्त्रय़े त्वा नरदेवदेव; गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु |
१ क
सञ्जय़ उवाच:
कच्चिन्न वाचा वृजिनं हि किं चि; दुच्चारितं मे मनसोऽभिषङ्गात् ||
१ ख
सञ्जय़ उवाच:
जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम् |
२ क
सञ्जय़ उवाच:
आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः ||
२ ख
युधिष्ठिर उवाच:
अनुज्ञातः सञ्जय़ स्वस्ति गच्छ; न नोऽकार्षीरप्रिय़ं जातु किञ्चित् |
३ क
युधिष्ठिर उवाच:
विद्मश्च त्वा ते च वय़ं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम् ||
३ ख
युधिष्ठिर उवाच:
आप्तो दूतः सञ्जय़ सुप्रिय़ोऽसि; कल्याणवाक्षीलवान्दृष्टिमांश्च |
४ क
युधिष्ठिर उवाच:
न मुह्येस्त्वं सञ्जय़ जातु मत्या; न च क्रुध्येरुच्यमानोऽपि तथ्यम् ||
४ ख
युधिष्ठिर उवाच:
न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम् |
५ क
युधिष्ठिर उवाच:
धर्मारामामर्थवतीमहिंस्रा; मेतां वाचं तव जानामि सूत ||
५ ख
युधिष्ठिर उवाच:
त्वमेव नः प्रिय़तमोऽसि दूत; इहागच्छेद्विदुरो वा द्वितीय़ः |
६ क
युधिष्ठिर उवाच:
अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं; धनञ्जय़स्यात्मसमः सखासि ||
६ ख
युधिष्ठिर उवाच:
इतो गत्वा सञ्जय़ क्षिप्रमेव; उपातिष्ठेथा व्राह्मणान्ये तदर्हाः |
७ क
युधिष्ठिर उवाच:
विशुद्धवीर्यांश्चरणोपपन्ना; न्कुले जातान्सर्वधर्मोपपन्नान् ||
७ ख
युधिष्ठिर उवाच:
स्वाध्याय़िनो व्राह्मणा भिक्षवश्च; तपस्विनो ये च नित्या वनेषु |
८ क
युधिष्ठिर उवाच:
अभिवाद्या वै मद्वचनेन वृद्धा; स्तथेतरेषां कुशलं वदेथाः ||
८ ख
युधिष्ठिर उवाच:
पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश्च ऋत्विजो ये च तस्य |
९ क
युधिष्ठिर उवाच:
तैश्च त्वं तात सहितैर्यथार्हं; सङ्गच्छेथाः कुशलेनैव सूत ||
९ ख
युधिष्ठिर उवाच:
आचार्य इष्टोऽनपगो विधेय़ो; वेदानीप्सन्व्रह्मचर्यं चचार |
१० क
युधिष्ठिर उवाच:
योऽस्त्रं चतुष्पात्पुनरेव चक्रे; द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् ||
१० ख
युधिष्ठिर उवाच:
अधीतविद्यश्चरणोपपन्नो; योऽस्त्रं चतुष्पात्पुनरेव चक्रे |
११ क
युधिष्ठिर उवाच:
गन्धर्वपुत्रप्रतिमं तरस्विनं; तमश्वत्थामानं कुशलं स्म पृच्छेः ||
११ ख
युधिष्ठिर उवाच:
शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य |
१२ क
युधिष्ठिर उवाच:
त्वं मामभीक्ष्णं परिकीर्तय़न्वै; कृपस्य पादौ सञ्जय़ पाणिना स्पृशेः ||
१२ ख
युधिष्ठिर उवाच:
यस्मिञ्शौर्यमानृशंस्यं तपश्च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च |
१३ क
युधिष्ठिर उवाच:
पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदय़ेथाः ||
१३ ख
युधिष्ठिर उवाच:
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां; वहुश्रुतो वृद्धसेवी मनीषी |
१४ क
युधिष्ठिर उवाच:
तस्मै राज्ञे स्थविराय़ाभिवाद्य; आचक्षीथाः सञ्जय़ मामरोगम् ||
१४ ख
युधिष्ठिर उवाच:
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः सञ्जय़ पापशीलः |
१५ क
युधिष्ठिर उवाच:
प्रशास्ता वै पृथिवी येन सर्वा; सुय़ोधनं कुशलं तात पृच्छेः ||
१५ ख
युधिष्ठिर उवाच:
भ्राता कनीय़ानपि तस्य मन्द; स्तथाशीलः सञ्जय़ सोऽपि शश्वत् |
१६ क
युधिष्ठिर उवाच:
महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः ||
१६ ख
युधिष्ठिर उवाच:
वृन्दारकं कविमर्थेष्वमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम् |
१७ क
युधिष्ठिर उवाच:
न तस्य युद्धं रोचते वै कदा चि; द्वैश्यापुत्रं कुशलं तात पृच्छेः ||
१७ ख
युधिष्ठिर उवाच:
निकर्तने देवने योऽद्वितीय़; श्छन्नोपधः साधुदेवी मताक्षः |
१८ क
युधिष्ठिर उवाच:
यो दुर्जय़ो देवितव्येन सङ्ख्ये; स चित्रसेनः कुशलं तात वाच्यः ||
१८ ख
युधिष्ठिर उवाच:
यस्य कामो वर्तते नित्यमेव; नान्यः शमाद्भारतानामिति स्म |
१९ क
युधिष्ठिर उवाच:
स वाह्लिकानामृषभो मनस्वी; पुरा यथा माभिवदेत्प्रसन्नः ||
१९ ख
युधिष्ठिर उवाच:
गुणैरनेकैः प्रवरैश्च युक्तो; विज्ञानवान्नैव च निष्ठुरो यः |
२० क
युधिष्ठिर उवाच:
स्नेहादमर्षं सहते सदैव; स सोमदत्तः पूजनीय़ो मतो मे ||
२० ख
युधिष्ठिर उवाच:
अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता सञ्जय़ मत्सखा च |
२१ क
युधिष्ठिर उवाच:
महेष्वासो रथिनामुत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः ||
२१ ख
युधिष्ठिर उवाच:
ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश्चैव ये नः |
२२ क
युधिष्ठिर उवाच:
यं यमेषां येन येनाभिगच्छे; रनामय़ं मद्वचनेन वाच्यः ||
२२ ख
युधिष्ठिर उवाच:
ये राजानः पाण्डवाय़ोधनाय़; समानीता धार्तराष्ट्रेण केचित् |
२३ क
युधिष्ठिर उवाच:
वसातय़ः शाल्वकाः केकय़ाश्च; तथाम्वष्ठा ये त्रिगर्ताश्च मुख्याः ||
२३ ख
युधिष्ठिर उवाच:
प्राच्योदीच्या दाक्षिणात्याश्च शूरा; स्तथा प्रतीच्याः पार्वतीय़ाश्च सर्वे |
२४ क
युधिष्ठिर उवाच:
अनृशंसाः शीलवृत्तोपपन्ना; स्तेषां सर्वेषां कुशलं तात पृच्छेः ||
२४ ख
युधिष्ठिर उवाच:
हस्त्यारोहा रथिनः सादिनश्च; पदातय़श्चार्यसङ्घा महान्तः |
२५ क
युधिष्ठिर उवाच:
आख्याय़ मां कुशलिनं स्म तेषा; मनामय़ं परिपृच्छेः समग्रान् ||
२५ ख
युधिष्ठिर उवाच:
तथा राज्ञो ह्यर्थय़ुक्तानमात्या; न्दौवारिकान्ये च सेनां नय़न्ति |
२६ क
युधिष्ठिर उवाच:
आय़व्ययं ये गणय़न्ति युक्ता; अर्थांश्च ये महतश्चिन्तय़न्ति ||
२६ ख
युधिष्ठिर उवाच:
गान्धारराजः शकुनिः पार्वतीय़ो; निकर्तने योऽद्वितीय़ोऽक्षदेवी |
२७ क
युधिष्ठिर उवाच:
मानं कुर्वन्धार्तराष्ट्रस्य सूत; मिथ्यावुद्धेः कुशलं तात पृच्छेः ||
२७ ख
युधिष्ठिर उवाच:
यः पाण्डवानेकरथेन वीरः; समुत्सहत्यप्रधृष्यान्विजेतुम् |
२८ क
युधिष्ठिर उवाच:
यो मुह्यतां मोहय़िताद्वितीय़ो; वैकर्तनं कुशलं तात पृच्छेः ||
२८ ख
युधिष्ठिर उवाच:
स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच्च |
२९ क
युधिष्ठिर उवाच:
अगाधवुद्धिर्विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः ||
२९ ख
युधिष्ठिर उवाच:
वृद्धाः स्त्रिय़ो याश्च गुणोपपन्ना; या ज्ञाय़न्ते सञ्जय़ मातरस्ताः |
३० क
युधिष्ठिर उवाच:
ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः ||
३० ख
युधिष्ठिर उवाच:
कच्चित्पुत्रा जीवपुत्राः सुसम्य; ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् |
३१ क
युधिष्ठिर उवाच:
इति स्मोक्त्वा सञ्जय़ व्रूहि पश्चा; दजातशत्रुः कुशली सपुत्रः ||
३१ ख
युधिष्ठिर उवाच:
या नो भार्याः सञ्जय़ वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः |
३२ क
युधिष्ठिर उवाच:
सुसङ्गुप्ताः सुरभय़ोऽनवद्याः; कच्चिद्गृहानावसथाप्रमत्ताः ||
३२ ख
युधिष्ठिर उवाच:
कच्चिद्वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वमनृशंसरूपाम् |
३३ क
युधिष्ठिर उवाच:
यथा च वः स्युः पतय़ोऽनुकूला; स्तथा वृत्तिमात्मनः स्थापय़ध्वम् ||
३३ ख
युधिष्ठिर उवाच:
या नः स्नुषाः सञ्जय़ वेत्थ तत्र; प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः |
३४ क
युधिष्ठिर उवाच:
प्रजावत्यो व्रूहि समेत्य ताश्च; युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ||
३४ ख
युधिष्ठिर उवाच:
कन्याः स्वजेथाः सदनेषु सञ्जय़; अनामय़ं मद्वचनेन पृष्ट्वा |
३५ क
युधिष्ठिर उवाच:
कल्याणा वः सन्तु पतय़ोऽनुकूला; यूय़ं पतीनां भवतानुकूलाः ||
३५ ख
युधिष्ठिर उवाच:
अलङ्कृता वस्त्रवत्यः सुगन्धा; अवीभत्साः सुखिता भोगवत्यः |
३६ क
युधिष्ठिर उवाच:
लघु यासां दर्शनं वाक्च लघ्वी; वेशस्त्रिय़ः कुशलं तात पृच्छेः ||
३६ ख
युधिष्ठिर उवाच:
दासीपुत्रा ये च दासाः कुरूणां; तदाश्रय़ा वहवः कुव्जखञ्जाः |
३७ क
युधिष्ठिर उवाच:
आख्याय़ मां कुशलिनं स्म तेभ्यो; अनामय़ं परिपृच्छेर्जघन्यम् ||
३७ ख
युधिष्ठिर उवाच:
कच्चिद्वृत्तिर्वर्तते वै पुराणी; कच्चिद्भोगान्धार्तराष्ट्रो ददाति |
३८ क
युधिष्ठिर उवाच:
अङ्गहीनान्कृपणान्वामनांश्च; आनृशंस्याद्धृतराष्ट्रो विभर्ति ||
३८ ख
युधिष्ठिर उवाच:
अन्धाश्च सर्वे स्थविरास्तथैव; हस्ताजीवा वहवो येऽत्र सन्ति |
३९ क
युधिष्ठिर उवाच:
आख्याय़ मां कुशलिनं स्म तेषा; मनामय़ं परिपृच्छेर्जघन्यम् ||
३९ ख
युधिष्ठिर उवाच:
मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम् |
४० क
युधिष्ठिर उवाच:
निगृह्य शत्रून्सुहृदोऽनुगृह्य; वासोभिरन्नेन च वो भरिष्ये ||
४० ख
युधिष्ठिर उवाच:
सन्त्येव मे व्राह्मणेभ्यः कृतानि; भावीन्यथो नो वत वर्तय़न्ति |
४१ क
युधिष्ठिर उवाच:
पश्याम्यहं युक्तरूपांस्तथैव; तामेव सिद्धिं श्रावय़ेथा नृपं तम् ||
४१ ख
युधिष्ठिर उवाच:
ये चानाथा दुर्वलाः सर्वकाल; मात्मन्येव प्रय़तन्तेऽथ मूढाः |
४२ क
युधिष्ठिर उवाच:
तांश्चापि त्वं कृपणान्सर्वथैव; अस्मद्वाक्यात्कुशलं तात पृच्छेः ||
४२ ख
युधिष्ठिर उवाच:
ये चाप्यन्ये संश्रिता धार्तराष्ट्रा; न्नानादिग्भ्योऽभ्यागताः सूतपुत्र |
४३ क
युधिष्ठिर उवाच:
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा; न्सम्पृच्छेथाः कुशलं चाव्ययं च ||
४३ ख
युधिष्ठिर उवाच:
एवं सर्वानागताभ्यागतांश्च; राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् |
४४ क
युधिष्ठिर उवाच:
पृष्ट्वा सर्वान्कुशलं तांश्च सूत; पश्चादहं कुशली तेषु वाच्यः ||
४४ ख
युधिष्ठिर उवाच:
न हीदृशाः सन्त्यपरे पृथिव्यां; ये योधका धार्तराष्ट्रेण लव्धाः |
४५ क
युधिष्ठिर उवाच:
धर्मस्तु नित्यो मम धर्म एव; महावलः शत्रुनिवर्हणाय़ ||
४५ ख
युधिष्ठिर उवाच:
इदं पुनर्वचनं धार्तराष्ट्रं; सुय़ोधनं सञ्जय़ श्रावय़ेथाः |
४६ क
युधिष्ठिर उवाच:
यस्ते शरीरे हृदय़ं दुनोति; कामः कुरूनसपत्नोऽनुशिष्याम् ||
४६ ख
युधिष्ठिर उवाच:
न विद्यते युक्तिरेतस्य का चि; न्नैवंविधाः स्याम यथा प्रिय़ं ते |
४७ क
युधिष्ठिर उवाच:
ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर ||
४७ ख