सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत |
१ क
सञ्जय़ उवाच:
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ||
१ ख
सञ्जय़ उवाच:
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् |
२ क
सञ्जय़ उवाच:
अव्रवीद्वासुदेवं च पाण्डवं च धनञ्जय़म् ||
२ ख
सञ्जय़ उवाच:
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ |
३ क
सञ्जय़ उवाच:
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ||
३ ख
सञ्जय़ उवाच:
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता |
४ क
सञ्जय़ उवाच:
दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ||
४ ख
सञ्जय़ उवाच:
न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते |
५ क
सञ्जय़ उवाच:
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ||
५ ख
सञ्जय़ उवाच:
तव प्रसादाद्गोविन्द वय़ं जेष्यामहे रिपून् |
६ क
सञ्जय़ उवाच:
यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ||
६ ख
सञ्जय़ उवाच:
पृथिवीविजय़ो वापि त्रैलोक्यविजय़ोऽपि वा |
७ क
सञ्जय़ उवाच:
ध्रुवो हि तेषां वार्ष्णेय़ येषां तुष्टोऽसि माधव ||
७ ख
सञ्जय़ उवाच:
न तेषां विद्यते पापं सङ्ग्रामे वा पराजय़ः |
८ क
सञ्जय़ उवाच:
त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ||
८ ख
सञ्जय़ उवाच:
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः |
९ क
सञ्जय़ उवाच:
त्रैलोक्यविजय़ं श्रीमान्प्राप्तवान्रणमूर्धनि ||
९ ख
सञ्जय़ उवाच:
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर |
१० क
सञ्जय़ उवाच:
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षय़ान् ||
१० ख
सञ्जय़ उवाच:
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन |
११ क
सञ्जय़ उवाच:
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ||
११ ख
सञ्जय़ उवाच:
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् |
१२ क
सञ्जय़ उवाच:
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ||
१२ ख
सञ्जय़ उवाच:
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमय़म् |
१३ क
सञ्जय़ उवाच:
त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ||
१३ ख
सञ्जय़ उवाच:
स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् |
१४ क
सञ्जय़ उवाच:
ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ||
१४ ख
सञ्जय़ उवाच:
अनादिनिधनं देवं लोककर्तारमव्ययम् |
१५ क
सञ्जय़ उवाच:
त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ||
१५ ख
सञ्जय़ उवाच:
परं पुराणं पुरुषं पुराणानां परं च यत् |
१६ क
सञ्जय़ उवाच:
प्रपद्यतस्तं परमं परा भूतिर्विधीय़ते ||
१६ ख
सञ्जय़ उवाच:
योऽगात चतुरो वेदान्यश्च वेदेषु गीय़ते |
१७ क
सञ्जय़ उवाच:
तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ||
१७ ख
सञ्जय़ उवाच:
धनञ्जय़सखा यश्च धनञ्जय़हितश्च यः |
१८ क
सञ्जय़ उवाच:
तं धनञ्जय़गोप्तारं प्रपद्य सुखमेधते ||
१८ ख
सञ्जय़ उवाच:
इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ |
१९ क
सञ्जय़ उवाच:
तावव्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ||
१९ ख
सञ्जय़ उवाच:
तव कोपाग्निना दग्धः पापो राजा जय़द्रथः |
२० क
सञ्जय़ उवाच:
उदीर्णं चापि सुमहद्धार्तराष्ट्रवलं रणे ||
२० ख
सञ्जय़ उवाच:
हन्यते निहतं चैव विनङ्क्ष्यति च भारत |
२१ क
सञ्जय़ उवाच:
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ||
२१ ख
सञ्जय़ उवाच:
त्वां हि चक्षुर्हणं वीरं कोपय़ित्वा सुय़ोधनः |
२२ क
सञ्जय़ उवाच:
समित्रवन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ||
२२ ख
सञ्जय़ उवाच:
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जय़ः |
२३ क
सञ्जय़ उवाच:
शरतल्पगतः शेते भीष्मः कुरुपितामहः ||
२३ ख
सञ्जय़ उवाच:
दुर्लभो हि जय़स्तेषां सङ्ग्रामे रिपुसूदन |
२४ क
सञ्जय़ उवाच:
याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव ||
२४ ख
सञ्जय़ उवाच:
राज्यं प्राणाः प्रिय़ाः पुत्राः सौख्यानि विविधानि च |
२५ क
सञ्जय़ उवाच:
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ||
२५ ख
सञ्जय़ उवाच:
विनष्टान्कौरवान्मन्ये सपुत्रपशुवान्धवान् |
२६ क
सञ्जय़ उवाच:
राजधर्मपरे नित्यं त्वय़ि क्रुद्धे युधिष्ठिर ||
२६ ख
सञ्जय़ उवाच:
ततो भीमो महावाहुः सात्यकिश्च महारथः |
२७ क
सञ्जय़ उवाच:
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ |
२७ ख
सञ्जय़ उवाच:
स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ||
२७ ग
सञ्जय़ उवाच:
तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ |
२८ क
सञ्जय़ उवाच:
अभ्यनन्दत कौन्तेय़स्तावुभौ भीमसात्यकी ||
२८ ख
सञ्जय़ उवाच:
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् |
२९ क
सञ्जय़ उवाच:
द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालय़ात् |
२९ ख
सञ्जय़ उवाच:
दिष्ट्या च निर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ||
२९ ग
सञ्जय़ उवाच:
युवां विजय़िनौ चापि दिष्ट्या पश्यामि संय़ुगे |
३० क
सञ्जय़ उवाच:
दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महावलः ||
३० ख
सञ्जय़ उवाच:
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ |
३१ क
सञ्जय़ उवाच:
समरश्लाघिनौ वीरौ समरेष्वपलाय़िनौ |
३१ ख
सञ्जय़ उवाच:
मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ||
३१ ग
सञ्जय़ उवाच:
इत्युक्त्वा पाण्डवो राजा युय़ुधानवृकोदरौ |
३२ क
सञ्जय़ उवाच:
सस्वजे पुरुषव्याघ्रौ हर्षाद्वाष्पं मुमोच ह ||
३२ ख
सञ्जय़ उवाच:
ततः प्रमुदितं सर्वं वलमासीद्विशां पते |
३३ क
सञ्जय़ उवाच:
पाण्डवानां जय़ं दृष्ट्वा युद्धाय़ च मनो दधे ||
३३ ख