chevron_left आदि पर्व अध्याय १२५
वैशम्पाय़न उवाच:
कुरुराजे च रङ्गस्थे भीमे च वलिनां वरे |
१ क
वैशम्पाय़न उवाच:
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ||
१ ख
वैशम्पाय़न उवाच:
हा वीर कुरुराजेति हा भीमेति च नर्दताम् |
२ क
वैशम्पाय़न उवाच:
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ||
२ ख
वैशम्पाय़न उवाच:
ततः क्षुव्धार्णवनिभं रङ्गमालोक्य वुद्धिमान् |
३ क
वैशम्पाय़न उवाच:
भारद्वाजः प्रिय़ं पुत्रमश्वत्थामानमव्रवीत् ||
३ ख
वैशम्पाय़न उवाच:
वारय़ैतौ महावीर्यौ कृतय़ोग्यावुभावपि |
४ क
वैशम्पाय़न उवाच:
मा भूद्रङ्गप्रकोपोऽय़ं भीमदुर्योधनोद्भवः ||
४ ख
वैशम्पाय़न उवाच:
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ |
५ क
वैशम्पाय़न उवाच:
युगान्तानिलसङ्क्षुव्धौ महावेगाविवार्णवौ ||
५ ख
वैशम्पाय़न उवाच:
ततो रङ्गाङ्गणगतो द्रोणो वचनमव्रवीत् |
६ क
वैशम्पाय़न उवाच:
निवार्य वादित्रगणं महामेघनिभस्वनम् ||
६ ख
वैशम्पाय़न उवाच:
यो मे पुत्रात्प्रिय़तरः सर्वास्त्रविदुषां वरः |
७ क
वैशम्पाय़न उवाच:
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ||
७ ख
वैशम्पाय़न उवाच:
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा |
८ क
वैशम्पाय़न उवाच:
वद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ||
८ ख
वैशम्पाय़न उवाच:
काञ्चनं कवचं विभ्रत्प्रत्यदृश्यत फल्गुनः |
९ क
वैशम्पाय़न उवाच:
सार्कः सेन्द्राय़ुधतडित्ससन्ध्य इव तोय़दः ||
९ ख
वैशम्पाय़न उवाच:
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् |
१० क
वैशम्पाय़न उवाच:
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ||
१० ख
वैशम्पाय़न उवाच:
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः |
११ क
वैशम्पाय़न उवाच:
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ||
११ ख
वैशम्पाय़न उवाच:
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः |
१२ क
वैशम्पाय़न उवाच:
एष शीलवतां चापि शीलज्ञाननिधिः परः ||
१२ ख
वैशम्पाय़न उवाच:
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः |
१३ क
वैशम्पाय़न उवाच:
कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ||
१३ ख
वैशम्पाय़न उवाच:
तेन शव्देन महता पूर्णश्रुतिरथाव्रवीत् |
१४ क
वैशम्पाय़न उवाच:
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ||
१४ ख
वैशम्पाय़न उवाच:
क्षत्तः क्षुव्धार्णवनिभः किमेष सुमहास्वनः |
१५ क
वैशम्पाय़न उवाच:
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ||
१५ ख
विदुर उवाच:
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः |
१६ क
विदुर उवाच:
अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ||
१६ ख
धृतराष्ट्र उवाच:
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते |
१७ क
धृतराष्ट्र उवाच:
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ||
१७ ख
वैशम्पाय़न उवाच:
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते |
१८ क
वैशम्पाय़न उवाच:
दर्शय़ामास वीभत्सुराचार्यादस्त्रलाघवम् ||
१८ ख
वैशम्पाय़न उवाच:
आग्नेय़ेनासृजद्वह्निं वारुणेनासृजत्पय़ः |
१९ क
वैशम्पाय़न उवाच:
वाय़व्येनासृजद्वाय़ुं पार्जन्येनासृजद्घनान् ||
१९ ख
वैशम्पाय़न उवाच:
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् |
२० क
वैशम्पाय़न उवाच:
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ||
२० ख
वैशम्पाय़न उवाच:
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः |
२१ क
वैशम्पाय़न उवाच:
क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ||
२१ ख
वैशम्पाय़न उवाच:
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रिय़ः |
२२ क
वैशम्पाय़न उवाच:
सौष्ठवेनाभिसंय़ुक्तः सोऽविध्यद्विविधैः शरैः ||
२२ ख
वैशम्पाय़न उवाच:
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् |
२३ क
वैशम्पाय़न उवाच:
पञ्च वाणानसंसक्तान्स मुमोचैकवाणवत् ||
२३ ख
वैशम्पाय़न उवाच:
गव्ये विषाणकोशे च चले रज्ज्ववलम्विते |
२४ क
वैशम्पाय़न उवाच:
निचखान महावीर्यः साय़कानेकविंशतिम् ||
२४ ख
वैशम्पाय़न उवाच:
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् |
२५ क
वैशम्पाय़न उवाच:
गदाय़ां शस्त्रकुशलो दर्शनानि व्यदर्शय़त् ||
२५ ख
वैशम्पाय़न उवाच:
ततः समाप्तभूय़िष्ठे तस्मिन्कर्मणि भारत |
२६ क
वैशम्पाय़न उवाच:
मन्दीभूते समाजे च वादित्रस्य च निस्वने ||
२६ ख
वैशम्पाय़न उवाच:
द्वारदेशात्समुद्भूतो माहात्म्य वलसूचकः |
२७ क
वैशम्पाय़न उवाच:
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ||
२७ ख
वैशम्पाय़न उवाच:
दीर्यन्ते किं नु गिरय़ः किं स्विद्भूमिर्विदीर्यते |
२८ क
वैशम्पाय़न उवाच:
किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ||
२८ ख
वैशम्पाय़न उवाच:
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप |
२९ क
वैशम्पाय़न उवाच:
द्वारं चाभिमुखाः सर्वे वभूवुः प्रेक्षकास्तदा ||
२९ ख
वैशम्पाय़न उवाच:
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो वभौ |
३० क
वैशम्पाय़न उवाच:
पञ्चतारेण संय़ुक्तः सावित्रेणेव चन्द्रमाः ||
३० ख
वैशम्पाय़न उवाच:
अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् |
३१ क
वैशम्पाय़न उवाच:
दुर्योधनममित्रघ्नमुत्थितं पर्यवारय़त् ||
३१ ख
वैशम्पाय़न उवाच:
स तैस्तदा भ्रातृभिरुद्यताय़ुधै; र्वृतो गदापाणिरवस्थितैः स्थितः |
३२ क
वैशम्पाय़न उवाच:
वभौ यथा दानवसङ्क्षय़े पुरा; पुरन्दरो देवगणैः समावृतः ||
३२ ख