chevron_left अनुशासन पर्व अध्याय १२५
युधिष्ठिर उवाच:
साम्ना वापि प्रदाने वा ज्याय़ः किं भवतो मतम् |
१ क
युधिष्ठिर उवाच:
प्रव्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ||
१ ख
भीष्म उवाच:
साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः |
२ क
भीष्म उवाच:
पुरुषः प्रकृतिं ज्ञात्वा तय़ोरेकतरं भजेत् ||
२ ख
भीष्म उवाच:
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ |
३ क
भीष्म उवाच:
दारुणान्यपि भूतानि सान्त्वेनाराधय़ेद्यथा ||
३ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
४ क
भीष्म उवाच:
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ||
४ ख
भीष्म उवाच:
कश्चित्तु वुद्धिसम्पन्नो व्राह्मणो विजने वने |
५ क
भीष्म उवाच:
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षय़िष्यता ||
५ ख
भीष्म उवाच:
स वुद्धिश्रुतसम्पन्नस्तं दृष्ट्वातीव भीषणम् |
६ क
भीष्म उवाच:
सामैवास्मिन्प्रय़ुय़ुजे न मुमोह न विव्यथे ||
६ ख
भीष्म उवाच:
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् |
७ क
भीष्म उवाच:
मोक्ष्यसे व्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ||
७ ख
भीष्म उवाच:
मुहूर्तमथ सञ्चिन्त्य व्राह्मणस्तस्य रक्षसः |
८ क
भीष्म उवाच:
आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ||
८ ख
भीष्म उवाच:
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः |
९ क
भीष्म उवाच:
विषय़ानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ||
९ ख
भीष्म उवाच:
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि |
१० क
भीष्म उवाच:
स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ||
१० ख
भीष्म उवाच:
धनैश्वर्याधिकाः स्तव्धास्त्वद्गुणैः परमावराः |
११ क
भीष्म उवाच:
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ||
११ ख
भीष्म उवाच:
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् |
१२ क
भीष्म उवाच:
प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ||
१२ ख
भीष्म उवाच:
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपाय़ान्विगर्हय़न् |
१३ क
भीष्म उवाच:
माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ||
१३ ख
भीष्म उवाच:
सम्पीड्यात्मानमार्यत्वात्त्वय़ा कश्चिदुपस्कृतः |
१४ क
भीष्म उवाच:
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ||
१४ ख
भीष्म उवाच:
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः |
१५ क
भीष्म उवाच:
मन्ये नु ध्याय़सि जनांस्तेनासि हरिणः कृशः ||
१५ ख
भीष्म उवाच:
प्राज्ञैः सम्भावितो नूनं नप्राज्ञैरुपसंहितः |
१६ क
भीष्म उवाच:
ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ||
१६ ख
भीष्म उवाच:
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् |
१७ क
भीष्म उवाच:
वञ्चय़ित्वा गतस्त्वां वै तेनासि हरिणः कृशः ||
१७ ख
भीष्म उवाच:
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती |
१८ क
भीष्म उवाच:
तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ||
१८ ख
भीष्म उवाच:
असत्स्वभिनिविष्टेषु व्रुवतो मुक्तसंशय़म् |
१९ क
भीष्म उवाच:
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ||
१९ ख
भीष्म उवाच:
धनवुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः |
२० क
भीष्म उवाच:
महत्प्रार्थय़से नूनं तेनासि हरिणः कृशः ||
२० ख
भीष्म उवाच:
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् |
२१ क
भीष्म उवाच:
वन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ||
२१ ख
भीष्म उवाच:
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् |
२२ क
भीष्म उवाच:
न भाति कालेऽभिहितं तेनासि हरिणः कृशः ||
२२ ख
भीष्म उवाच:
दृढपूर्वश्रुतं मूर्खं कुपितं हृदय़प्रिय़म् |
२३ क
भीष्म उवाच:
अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ||
२३ ख
भीष्म उवाच:
नूनमासञ्जय़ित्वा ते कृत्ये कस्मिंश्चिदीप्सिते |
२४ क
भीष्म उवाच:
कश्चिदर्थय़तेऽत्यर्थं तेनासि हरिणः कृशः ||
२४ ख
भीष्म उवाच:
नूनं त्वा स्वगुणापेक्षं पूजय़ानं सुहृद्ध्रुवम् |
२५ क
भीष्म उवाच:
मय़ार्थ इति जानाति तेनासि हरिणः कृशः ||
२५ ख
भीष्म उवाच:
अन्तर्गतमभिप्राय़ं न नूनं लज्जय़ेच्छसि |
२६ क
भीष्म उवाच:
विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ||
२६ ख
भीष्म उवाच:
नानावुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि |
२७ क
भीष्म उवाच:
ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ||
२७ ख
भीष्म उवाच:
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् |
२८ क
भीष्म उवाच:
यशः प्रार्थय़से नूनं तेनासि हरिणः कृशः ||
२८ ख
भीष्म उवाच:
चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते |
२९ क
भीष्म उवाच:
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ||
२९ ख
भीष्म उवाच:
नूनमात्मकृतं दोषमपश्यन्किञ्चिदात्मनि |
३० क
भीष्म उवाच:
अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ||
३० ख
भीष्म उवाच:
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् |
३१ क
भीष्म उवाच:
दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ||
३१ ख
भीष्म उवाच:
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् |
३२ क
भीष्म उवाच:
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ||
३२ ख
भीष्म उवाच:
धर्म्यमर्थं च काले च देशे चाभिहितं वचः |
३३ क
भीष्म उवाच:
न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ||
३३ ख
भीष्म उवाच:
दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः |
३४ क
भीष्म उवाच:
प्राप्य वर्तय़से नूनं तेनासि हरिणः कृशः ||
३४ ख
भीष्म उवाच:
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः |
३५ क
भीष्म उवाच:
ध्रुवं मृगय़से योग्यं तेनासि हरिणः कृशः ||
३५ ख
भीष्म उवाच:
परस्परविरुद्धानां प्रिय़ं नूनं चिकीर्षसि |
३६ क
भीष्म उवाच:
सुहृदामविरोधेन तेनासि हरिणः कृशः ||
३६ ख
भीष्म उवाच:
श्रोत्रिय़ांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रिय़ान् |
३७ क
भीष्म उवाच:
मन्येऽनुध्याय़सि जनांस्तेनासि हरिणः कृशः ||
३७ ख
भीष्म उवाच:
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजय़त् |
३८ क
भीष्म उवाच:
सखाय़मकरोच्चैनं संय़ोज्यार्थैर्मुमोच ह ||
३८ ख