chevron_left शान्ति पर्व अध्याय १२६
भीष्म उवाच:
ततस्तेषां समस्तानामृषीणामृषिसत्तमः |
१ क
भीष्म उवाच:
ऋषभो नाम विप्रर्षिः स्मय़न्निव ततोऽव्रवीत् ||
१ ख
भीष्म उवाच:
पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो |
२ क
भीष्म उवाच:
समासादितवान्दिव्यं नरनाराय़णाश्रमम् ||
२ ख
भीष्म उवाच:
यत्र सा वदरी रम्या ह्रदो वैहाय़सस्तथा |
३ क
भीष्म उवाच:
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ||
३ ख
भीष्म उवाच:
तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा |
४ क
भीष्म उवाच:
पितॄणां देवतानां च ततोऽऽश्रममिय़ां तदा ||
४ ख
भीष्म उवाच:
रेमाते यत्र तौ नित्यं नरनाराय़णावृषी |
५ क
भीष्म उवाच:
अदूरादाश्रमं कञ्चिद्वासार्थमगमं ततः ||
५ ख
भीष्म उवाच:
ततश्चीराजिनधरं कृशमुच्चमतीव च |
६ क
भीष्म उवाच:
अद्राक्षमृषिमाय़ान्तं तनुं नाम तपोनिधिम् ||
६ ख
भीष्म उवाच:
अन्यैर्नरैर्महावाहो वपुषाष्टगुणान्वितम् |
७ क
भीष्म उवाच:
कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् ||
७ ख
भीष्म उवाच:
शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम् |
८ क
भीष्म उवाच:
ग्रीवा वाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ||
८ ख
भीष्म उवाच:
शिरः काय़ानुरूपं च कर्णौ नेत्रे तथैव च |
९ क
भीष्म उवाच:
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ||
९ ख
भीष्म उवाच:
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः |
१० क
भीष्म उवाच:
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ||
१० ख
भीष्म उवाच:
निवेद्य नाम गोत्रं च पितरं च नरर्षभ |
११ क
भीष्म उवाच:
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ||
११ ख
भीष्म उवाच:
ततः स कथय़ामास कथा धर्मार्थसंहिताः |
१२ क
भीष्म उवाच:
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ||
१२ ख
भीष्म उवाच:
तस्मिंस्तु कथय़त्येव राजा राजीवलोचनः |
१३ क
भीष्म उवाच:
उपाय़ाज्जवनैरश्वैः सवलः सावरोधनः ||
१३ ख
भीष्म उवाच:
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः |
१४ क
भीष्म उवाच:
भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महाय़शाः ||
१४ ख
भीष्म उवाच:
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः |
१५ क
भीष्म उवाच:
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ||
१५ ख
भीष्म उवाच:
दुर्लभः स मय़ा द्रष्टुं नूनं परमधार्मिकः |
१६ क
भीष्म उवाच:
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ||
१६ ख
भीष्म उवाच:
दुर्लभः स मय़ा द्रष्टुमाशा च महती मम |
१७ क
भीष्म उवाच:
तय़ा परीतगात्रोऽहं मुमूर्षुर्नात्र संशय़ः ||
१७ ख
भीष्म उवाच:
एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः |
१८ क
भीष्म उवाच:
अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ||
१८ ख
भीष्म उवाच:
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः |
१९ क
भीष्म उवाच:
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ||
१९ ख
भीष्म उवाच:
दुर्लभं किं नु विप्रर्षे आशाय़ाश्चैव किं भवेत् |
२० क
भीष्म उवाच:
व्रवीतु भगवानेतद्यदि गुह्यं न तन्मय़ि ||
२० ख
भीष्म उवाच:
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः |
२१ क
भीष्म उवाच:
वालिशां वुद्धिमास्थाय़ मन्दभाग्यतय़ात्मनः ||
२१ ख
भीष्म उवाच:
अर्थय़न्कलशं राजन्काञ्चनं वल्कलानि च |
२२ क
भीष्म उवाच:
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ||
२२ ख
भीष्म उवाच:
एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् |
२३ क
भीष्म उवाच:
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ||
२३ ख
भीष्म उवाच:
अर्घ्यं ततः समानीय़ पाद्यं चैव महानृषिः |
२४ क
भीष्म उवाच:
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदय़त् ||
२४ ख
भीष्म उवाच:
ततस्ते मुनय़ः सर्वे परिवार्य नरर्षभम् |
२५ क
भीष्म उवाच:
उपाविशन्पुरस्कृत्य सप्तर्षय़ इव ध्रुवम् ||
२५ ख
भीष्म उवाच:
अपृच्छंश्चैव ते तत्र राजानमपराजितम् |
२६ क
भीष्म उवाच:
प्रय़ोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ||
२६ ख
राजो उवाच:
वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः |
२७ क
राजो उवाच:
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ||
२७ ख
राजो उवाच:
एकपुत्रः स विप्राग्र्य वाल एव च सोऽनघ |
२८ क
राजो उवाच:
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ||
२८ ख
ऋषभ उवाच:
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः |
२९ क
ऋषभ उवाच:
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ||
२९ ख
ऋषभ उवाच:
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः |
३० क
ऋषभ उवाच:
आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः ||
३० ख
ऋषभ उवाच:
प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन |
३१ क
ऋषभ उवाच:
अन्येषां चैव वर्णानामिति कृत्वा धिय़ं तदा ||
३१ ख
ऋषभ उवाच:
आशा हि पुरुषं वालं लालापय़ति तस्थुषी |
३२ क
ऋषभ उवाच:
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ||
३२ ख
राजो उवाच:
आशाय़ाः किं कृशत्वं च किं चेह भुवि दुर्लभम् |
३३ क
राजो उवाच:
व्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ||
३३ ख
ऋषभ उवाच:
ततः संस्मृत्य तत्सर्वं स्मारय़िष्यन्निवाव्रवीत् |
३४ क
ऋषभ उवाच:
राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः ||
३४ ख
ऋषभ उवाच:
कृशत्वे न समं राजन्नाशाय़ा विद्यते नृप |
३५ क
ऋषभ उवाच:
तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मय़ा ||
३५ ख
राजो उवाच:
कृशाकृशे मय़ा व्रह्मन्गृहीते वचनात्तव |
३६ क
राजो उवाच:
दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज ||
३६ ख
राजो उवाच:
संशय़स्तु महाप्राज्ञ सञ्जातो हृदय़े मम |
३७ क
राजो उवाच:
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ||
३७ ख
राजो उवाच:
त्वत्तः कृशतरं किं नु व्रवीतु भगवानिदम् |
३८ क
राजो उवाच:
यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ||
३८ ख
कृशतनुरु उवाच:
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुय़ात् |
३९ क
कृशतनुरु उवाच:
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ||
३९ ख
कृशतनुरु उवाच:
संश्रुत्य नोपक्रिय़ते परं शक्त्या यथार्हतः |
४० क
कृशतनुरु उवाच:
सक्ता या सर्वभूतेषु साशा कृशतरी मय़ा ||
४० ख
कृशतनुरु उवाच:
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा |
४१ क
कृशतनुरु उवाच:
प्रवृत्तिं यो न जानाति साशा कृशतरी मय़ा ||
४१ ख
कृशतनुरु उवाच:
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता |
४२ क
कृशतनुरु उवाच:
तथा नरेन्द्र धनिनामाशा कृशतरी मय़ा ||
४२ ख
ऋषभ उवाच:
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः |
४३ क
ऋषभ उवाच:
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ||
४३ ख
राजो उवाच:
प्रसादय़े त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् |
४४ क
राजो उवाच:
वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ||
४४ ख
ऋषभ उवाच:
अव्रवीच्च हि तं वाक्यं राजा राजीवलोचनः |
४५ क
ऋषभ उवाच:
सत्यमेतद्यथा विप्र त्वय़ोक्तं नास्त्यतो मृषा ||
४५ ख
ऋषभ उवाच:
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः |
४६ क
ऋषभ उवाच:
पुत्रमस्यानय़त्क्षिप्रं तपसा च श्रुतेन च ||
४६ ख
ऋषभ उवाच:
तं समानाय़्य पुत्रं तु तदोपालभ्य पार्थिवम् |
४७ क
ऋषभ उवाच:
आत्मानं दर्शय़ामास धर्मं धर्मभृतां वरः ||
४७ ख
ऋषभ उवाच:
सन्दर्शय़ित्वा चात्मानं दिव्यमद्भुतदर्शनम् |
४८ क
ऋषभ उवाच:
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ||
४८ ख
ऋषभ उवाच:
एतद्दृष्टं मय़ा राजंस्ततश्च वचनं श्रुतम् |
४९ क
ऋषभ उवाच:
आशामपनय़स्वाशु ततः कृशतरीमिमाम् ||
४९ ख
भीष्म उवाच:
स तत्रोक्तो महाराज ऋषभेण महात्मना |
५० क
भीष्म उवाच:
सुमित्रोऽपनय़त्क्षिप्रमाशां कृशतरीं तदा ||
५० ख