chevron_left अनुशासन पर्व अध्याय १२६
युधिष्ठिर उवाच:
पितामह महाप्राज्ञ सर्वशास्त्रविशारद |
१ क
युधिष्ठिर उवाच:
आगमैर्वहुभिः स्फीतो भवान्नः प्रथितः कुले ||
१ ख
युधिष्ठिर उवाच:
त्वत्तो धर्मार्थसंय़ुक्तमाय़त्यां च सुखोदय़म् |
२ क
युधिष्ठिर उवाच:
आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिन्दम ||
२ ख
युधिष्ठिर उवाच:
अय़ं च कालः सम्प्राप्तो दुर्लभज्ञातिवान्धवः |
३ क
युधिष्ठिर उवाच:
शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ||
३ ख
युधिष्ठिर उवाच:
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ |
४ क
युधिष्ठिर उवाच:
वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ||
४ ख
युधिष्ठिर उवाच:
अय़ं नाराय़णः श्रीमान्सर्वपार्थिवसंमतः |
५ क
युधिष्ठिर उवाच:
भवन्तं वहुमानेन प्रश्रय़ेण च सेवते ||
५ ख
युधिष्ठिर उवाच:
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः |
६ क
युधिष्ठिर उवाच:
भ्रातॄणां च प्रिय़ार्थं मे स्नेहाद्भाषितुमर्हसि ||
६ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा स्नेहादागतसम्भ्रमः |
७ क
वैशम्पाय़न उवाच:
भीष्मो भागीरथीपुत्र इदं वचनमव्रवीत् ||
७ ख
वैशम्पाय़न उवाच:
हन्त ते कथय़िष्यामि कथामतिमनोरमाम् |
८ क
वैशम्पाय़न उवाच:
अस्य विष्णोः पुरा राजन्प्रभावोऽय़ं मय़ा श्रुतः ||
८ ख
वैशम्पाय़न उवाच:
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु |
९ क
वैशम्पाय़न उवाच:
रुद्राण्याः संशय़ो यश्च दम्पत्योस्तं च मे शृणु ||
९ ख
वैशम्पाय़न उवाच:
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् |
१० क
वैशम्पाय़न उवाच:
दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ||
१० ख
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नश्चैव धौम्यश्च जपतां वरः |
११ क
वैशम्पाय़न उवाच:
देवलः काश्यपश्चैव हस्तिकाश्यप एव च ||
११ ख
वैशम्पाय़न उवाच:
अपरे ऋषय़ः सन्तो दीक्षादमसमन्विताः |
१२ क
वैशम्पाय़न उवाच:
शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ||
१२ ख
वैशम्पाय़न उवाच:
तेषामतिथिसत्कारमर्चनीय़ं कुलोचितम् |
१३ क
वैशम्पाय़न उवाच:
देवकीतनय़ः प्रीतो देवकल्पमकल्पय़त् ||
१३ ख
वैशम्पाय़न उवाच:
हरितेषु सुवर्णेषु वर्हिष्केषु नवेषु च |
१४ क
वैशम्पाय़न उवाच:
उपोपविविशुः प्रीता विष्टरेषु महर्षय़ः ||
१४ ख
वैशम्पाय़न उवाच:
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः |
१५ क
वैशम्पाय़न उवाच:
राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ||
१५ ख
वैशम्पाय़न उवाच:
ततो नाराय़णं तेजो व्रतचर्येन्धनोत्थितम् |
१६ क
वैशम्पाय़न उवाच:
वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ||
१६ ख
वैशम्पाय़न उवाच:
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् |
१७ क
वैशम्पाय़न उवाच:
सपक्षिमृगसङ्घातं सश्वापदसरीसृपम् ||
१७ ख
वैशम्पाय़न उवाच:
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् |
१८ क
वैशम्पाय़न उवाच:
शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ||
१८ ख
वैशम्पाय़न उवाच:
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः |
१९ क
वैशम्पाय़न उवाच:
विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ||
१९ ख
वैशम्पाय़न उवाच:
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः |
२० क
वैशम्पाय़न उवाच:
सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानय़त् ||
२० ख
वैशम्पाय़न उवाच:
तथैव स गिरिर्भूय़ः प्रपुष्पितलताद्रुमः |
२१ क
वैशम्पाय़न उवाच:
सपक्षिगणसङ्घुष्टः सश्वापदसरीसृपः ||
२१ ख
वैशम्पाय़न उवाच:
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा |
२२ क
वैशम्पाय़न उवाच:
विस्मितो हृष्टलोमा च वभूवास्राविलेक्षणः ||
२२ ख
वैशम्पाय़न उवाच:
ततो नाराय़णो दृष्ट्वा तानृषीन्विस्मय़ान्वितान् |
२३ क
वैशम्पाय़न उवाच:
प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ||
२३ ख
वैशम्पाय़न उवाच:
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः |
२४ क
वैशम्पाय़न उवाच:
निर्ममस्यागमवतो विस्मय़ः समुपागतः ||
२४ ख
वैशम्पाय़न उवाच:
एतं मे संशय़ं सर्वं याथातथ्यमनिन्दिताः |
२५ क
वैशम्पाय़न उवाच:
ऋषय़ो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ||
२५ ख
ऋषय़ ऊचुः:
भवान्विसृजते लोकान्भवान्संहरते पुनः |
२६ क
ऋषय़ ऊचुः:
भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ||
२६ ख
ऋषय़ ऊचुः:
पृथिव्यां यानि भूतानि स्थावराणि चराणि च |
२७ क
ऋषय़ ऊचुः:
तेषां पिता त्वं माता च प्रभुः प्रभव एव च ||
२७ ख
ऋषय़ ऊचुः:
एतन्नो विस्मय़करं प्रशंस मधुसूदन |
२८ क
ऋषय़ ऊचुः:
त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ||
२८ ख
ऋषय़ ऊचुः:
ततो विगतसन्त्रासा वय़मप्यरिकर्शन |
२९ क
ऋषय़ ऊचुः:
यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ||
२९ ख
वासुदेव उवाच:
एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् |
३० क
वासुदेव उवाच:
कृष्णवर्त्मा युगान्ताभो येनाय़ं मथितो गिरिः ||
३० ख
वासुदेव उवाच:
ऋषय़श्चार्तिमापन्ना जितक्रोधा जितेन्द्रिय़ाः |
३१ क
वासुदेव उवाच:
भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ||
३१ ख
वासुदेव उवाच:
व्रतचर्यापरीतस्य तपस्विव्रतसेवय़ा |
३२ क
वासुदेव उवाच:
मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ||
३२ ख
वासुदेव उवाच:
व्रतं चर्तुमिहाय़ातस्त्वहं गिरिमिमं शुभम् |
३३ क
वासुदेव उवाच:
पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ||
३३ ख
वासुदेव उवाच:
ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः |
३४ क
वासुदेव उवाच:
गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ||
३४ ख
वासुदेव उवाच:
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः |
३५ क
वासुदेव उवाच:
तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ||
३५ ख
वासुदेव उवाच:
सोऽय़ं वह्निरुपागम्य पादमूले ममान्तिकम् |
३६ क
वासुदेव उवाच:
शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ||
३६ ख
वासुदेव उवाच:
एतदस्य रहस्यं वः पद्मनाभस्य धीमतः |
३७ क
वासुदेव उवाच:
मय़ा प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ||
३७ ख
वासुदेव उवाच:
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः |
३८ क
वासुदेव उवाच:
तपस्विव्रतसन्दीप्ता ज्ञानविज्ञानशोभिताः ||
३८ ख
वासुदेव उवाच:
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि |
३९ क
वासुदेव उवाच:
आश्चर्यं परमं किञ्चित्तद्भवन्तो व्रुवन्तु मे ||
३९ ख
वासुदेव उवाच:
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा |
४० क
वासुदेव उवाच:
भवद्भिः कथितस्येह तपोवननिवासिभिः ||
४० ख
वासुदेव उवाच:
यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् |
४१ क
वासुदेव उवाच:
दिवि वा भुवि वा किञ्चित्पश्याम्यमलदर्शनाः ||
४१ ख
वासुदेव उवाच:
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते |
४२ क
वासुदेव उवाच:
न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ||
४२ ख
वासुदेव उवाच:
श्रद्धेय़ः कथितो ह्यर्थः सज्जनश्रवणं गतः |
४३ क
वासुदेव उवाच:
चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ||
४३ ख
वासुदेव उवाच:
तदहं सज्जनमुखान्निःसृतं तत्समागमे |
४४ क
वासुदेव उवाच:
कथय़िष्याम्यहरहर्वुद्धिदीपकरं नृणाम् ||
४४ ख
वासुदेव उवाच:
ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ |
४५ क
वासुदेव उवाच:
नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ||
४५ ख
वासुदेव उवाच:
वर्धय़न्तस्तथैवान्ये पूजय़न्तस्तथापरे |
४६ क
वासुदेव उवाच:
वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ||
४६ ख
वासुदेव उवाच:
ततो मुनिगणाः सर्वे नारदं देवदर्शनम् |
४७ क
वासुदेव उवाच:
तदा निय़ोजय़ामासुर्वचने वाक्यकोविदम् ||
४७ ख
वासुदेव उवाच:
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो |
४८ क
वासुदेव उवाच:
अनुभूतं मुनिगणैस्तीर्थय़ात्रापराय़णैः ||
४८ ख
वासुदेव उवाच:
तद्भवानृषिसङ्घस्य हितार्थं सर्वचोदितः |
४९ क
वासुदेव उवाच:
यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ||
४९ ख
वासुदेव उवाच:
एवमुक्तः स मुनिभिर्नारदो भगवानृषिः |
५० क
वासुदेव उवाच:
कथय़ामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ||
५० ख