धृतराष्ट्र उवाच:
सिन्धुराजे हते तात समरे सव्यसाचिना |
१ क
धृतराष्ट्र उवाच:
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ||
१ ख
धृतराष्ट्र उवाच:
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि |
२ क
धृतराष्ट्र उवाच:
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
निष्टानको महानासीत्सैन्यानां तव भारत |
३ क
सञ्जय़ उवाच:
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ||
३ ख
सञ्जय़ उवाच:
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे |
४ क
सञ्जय़ उवाच:
येन मन्त्रेण निहताः शतशः क्षत्रिय़र्षभाः ||
४ ख
सञ्जय़ उवाच:
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः |
५ क
सञ्जय़ उवाच:
मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ||
५ ख
सञ्जय़ उवाच:
दुर्योधन किमेवं मां वाक्षरैरभिकृन्तसि |
६ क
सञ्जय़ उवाच:
अजय़्यं समरे नित्यं व्रुवाणं सव्यसाचिनम् ||
६ ख
सञ्जय़ उवाच:
एतेनैवार्जुनं ज्ञातुमलं कौरव संय़ुगे |
७ क
सञ्जय़ उवाच:
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ||
७ ख
सञ्जय़ उवाच:
अवध्यं निहतं दृष्ट्वा संय़ुगे देवमानुषैः |
८ क
सञ्जय़ उवाच:
तदैवाज्ञासिषमहं नेय़मस्तीति भारती ||
८ ख
सञ्जय़ उवाच:
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि |
९ क
सञ्जय़ उवाच:
तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ||
९ ख
सञ्जय़ उवाच:
यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि |
१० क
सञ्जय़ उवाच:
अक्षान्न तेऽक्षा निशिता वाणास्ते शत्रुतापनाः ||
१० ख
सञ्जय़ उवाच:
त एते घ्नन्ति नस्तात विशिखा जय़चोदिताः |
११ क
सञ्जय़ उवाच:
यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न वुध्यसे ||
११ ख
सञ्जय़ उवाच:
तास्ता विलपतश्चापि विदुरस्य महात्मनः |
१२ क
सञ्जय़ उवाच:
धीरस्य वाचो नाश्रौषीः क्षेमाय़ वदतः शिवाः ||
१२ ख
सञ्जय़ उवाच:
तदिदं वर्तते घोरमागतं वैशसं महत् |
१३ क
सञ्जय़ उवाच:
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ||
१३ ख
सञ्जय़ उवाच:
यच्च नः प्रेक्षमाणानां कृष्णामानाय़यः सभाम् |
१४ क
सञ्जय़ उवाच:
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ||
१४ ख
सञ्जय़ उवाच:
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वय़ा |
१५ क
सञ्जय़ उवाच:
नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ||
१५ ख
सञ्जय़ उवाच:
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह |
१६ क
सञ्जय़ उवाच:
प्राव्राजय़स्तदारण्ये रौरवाजिनवाससः ||
१६ ख
सञ्जय़ उवाच:
पुत्राणामिव चैतेषां धर्ममाचरतां सदा |
१७ क
सञ्जय़ उवाच:
द्रुह्येत्को नु नरो लोके मदन्यो व्राह्मणव्रुवः ||
१७ ख
सञ्जय़ उवाच:
पाण्डवानामय़ं कोपस्त्वय़ा शकुनिना सह |
१८ क
सञ्जय़ उवाच:
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ||
१८ ख
सञ्जय़ उवाच:
दुःशासनेन संय़ुक्तः कर्णेन परिवर्धितः |
१९ क
सञ्जय़ उवाच:
क्षत्तुर्वाक्यमनादृत्य त्वय़ाभ्यस्तः पुनः पुनः ||
१९ ख
सञ्जय़ उवाच:
यत्तत्सर्वे पराभूय़ पर्यवारय़तार्जुनिम् |
२० क
सञ्जय़ उवाच:
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ||
२० ख
सञ्जय़ उवाच:
कथं त्वय़ि च कर्णे च कृपे शल्ये च जीवति |
२१ क
सञ्जय़ उवाच:
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ||
२१ ख
सञ्जय़ उवाच:
यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते |
२२ क
सञ्जय़ उवाच:
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ||
२२ ख
सञ्जय़ उवाच:
मय़्येव हि विशेषेण तथा दुर्योधन त्वय़ि |
२३ क
सञ्जय़ उवाच:
आशंसत परित्राणमर्जुनात्स महीपतिः ||
२३ ख
सञ्जय़ उवाच:
ततस्तस्मिन्परित्राणमलव्धवति फल्गुनात् |
२४ क
सञ्जय़ उवाच:
न किञ्चिदनुपश्यामि जीवितत्राणमात्मनः ||
२४ ख
सञ्जय़ उवाच:
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्विषे |
२५ क
सञ्जय़ उवाच:
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ||
२५ ख
सञ्जय़ उवाच:
तन्मा किमभितप्यन्तं वाक्षरैरभिकृन्तसि |
२६ क
सञ्जय़ उवाच:
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय़ भारत ||
२६ ख
सञ्जय़ उवाच:
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः |
२७ क
सञ्जय़ उवाच:
अपश्यन्युधि भीष्मस्य कथमाशंससे जय़म् ||
२७ ख
सञ्जय़ उवाच:
मध्ये महारथानां च यत्राहन्यत सैन्धवः |
२८ क
सञ्जय़ उवाच:
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ||
२८ ख
सञ्जय़ उवाच:
कृप एव च दुर्धर्षो यदि जीवति पार्थिव |
२९ क
सञ्जय़ उवाच:
यो नागात्सिन्धुराजस्य वर्त्म तं पूजय़ाम्यहम् ||
२९ ख
सञ्जय़ उवाच:
यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै |
३० क
सञ्जय़ उवाच:
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् |
३० ख
सञ्जय़ उवाच:
अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः ||
३० ग
सञ्जय़ उवाच:
न ते वसुन्धरास्तीति तदहं चिन्तय़े नृप |
३१ क
सञ्जय़ उवाच:
इमानि पाण्डवानां च सृञ्जय़ानां च भारत |
३१ ख
सञ्जय़ उवाच:
अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ||
३१ ग
सञ्जय़ उवाच:
नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् |
३२ क
सञ्जय़ उवाच:
कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ||
३२ ख
सञ्जय़ उवाच:
राजन्व्रूय़ाः सुतं मे त्वमश्वत्थामानमाहवे |
३३ क
सञ्जय़ उवाच:
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ||
३३ ख
सञ्जय़ उवाच:
यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय़ |
३४ क
सञ्जय़ उवाच:
आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ||
३४ ख
सञ्जय़ उवाच:
धर्मार्थकामकुशलो धर्मार्थावप्यपीडय़न् |
३५ क
सञ्जय़ उवाच:
धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ||
३५ ख
सञ्जय़ उवाच:
चक्षुर्मनोभ्यां सन्तोष्या विप्राः सेव्याश्च शक्तितः |
३६ क
सञ्जय़ उवाच:
न चैषां विप्रिय़ं कार्यं ते हि वह्निशिखोपमाः ||
३६ ख
सञ्जय़ उवाच:
एष त्वहमनीकानि प्रविशाम्यरिसूदन |
३७ क
सञ्जय़ उवाच:
रणाय़ महते राजंस्त्वय़ा वाक्षल्यपीडितः ||
३७ ख
सञ्जय़ उवाच:
त्वं च दुर्योधन वलं यदि शक्नोषि धारय़ |
३८ क
सञ्जय़ उवाच:
रात्रावपि हि योत्स्यन्ते संरव्धाः कुरुसृञ्जय़ाः ||
३८ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततः प्राय़ाद्द्रोणः पाण्डवसृञ्जय़ान् |
३९ क
सञ्जय़ उवाच:
मुष्णन्क्षत्रिय़तेजांसि नक्षत्राणामिवांशुमान् ||
३९ ख