chevron_left आदि पर्व अध्याय १२७
वैशम्पाय़न उवाच:
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः |
१ क
वैशम्पाय़न उवाच:
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वय़न्निव ||
१ ख
वैशम्पाय़न उवाच:
तमालोक्य धनुस्त्यक्त्वा पितृगौरवय़न्त्रितः |
२ क
वैशम्पाय़न उवाच:
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ||
२ ख
वैशम्पाय़न उवाच:
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः |
३ क
वैशम्पाय़न उवाच:
पुत्रेति परिपूर्णार्थमव्रवीद्रथसारथिः ||
३ ख
वैशम्पाय़न उवाच:
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः |
४ क
वैशम्पाय़न उवाच:
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ||
४ ख
वैशम्पाय़न उवाच:
तं दृष्ट्वा सूतपुत्रोऽय़मिति निश्चित्य पाण्डवः |
५ क
वैशम्पाय़न उवाच:
भीमसेनस्तदा वाक्यमव्रवीत्प्रहसन्निव ||
५ ख
वैशम्पाय़न उवाच:
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् |
६ क
वैशम्पाय़न उवाच:
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वय़ा ||
६ ख
वैशम्पाय़न उवाच:
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम |
७ क
वैशम्पाय़न उवाच:
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ||
७ ख
वैशम्पाय़न उवाच:
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः |
८ क
वैशम्पाय़न उवाच:
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ||
८ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनः कोपादुत्पपात महावलः |
९ क
वैशम्पाय़न उवाच:
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ||
९ ख
वैशम्पाय़न उवाच:
सोऽव्रवीद्भीमकर्माणं भीमसेनमवस्थितम् |
१० क
वैशम्पाय़न उवाच:
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ||
१० ख
वैशम्पाय़न उवाच:
क्षत्रिय़ाणां वलं ज्येष्ठं योद्धव्यं क्षत्रवन्धुना |
११ क
वैशम्पाय़न उवाच:
शूराणां च नदीनां च प्रभवा दुर्विदाः किल ||
११ ख
वैशम्पाय़न उवाच:
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् |
१२ क
वैशम्पाय़न उवाच:
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ||
१२ ख
वैशम्पाय़न उवाच:
आग्नेय़ः कृत्तिकापुत्रो रौद्रो गाङ्गेय़ इत्यपि |
१३ क
वैशम्पाय़न उवाच:
श्रूय़ते भगवान्देवः सर्वगुह्यमय़ो गुहः ||
१३ ख
वैशम्पाय़न उवाच:
क्षत्रिय़ाभ्यश्च ये जाता व्राह्मणास्ते च विश्रुताः |
१४ क
वैशम्पाय़न उवाच:
आचार्यः कलशाज्जातः शरस्तम्वाद्गुरुः कृपः |
१४ ख
वैशम्पाय़न उवाच:
भवतां च यथा जन्म तदप्यागमितं नृपैः ||
१४ ग
वैशम्पाय़न उवाच:
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् |
१५ क
वैशम्पाय़न उवाच:
कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ||
१५ ख
वैशम्पाय़न उवाच:
पृथिवीराज्यमर्होऽय़ं नाङ्गराज्यं नरेश्वरः |
१६ क
वैशम्पाय़न उवाच:
अनेन वाहुवीर्येण मय़ा चाज्ञानुवर्तिना ||
१६ ख
वैशम्पाय़न उवाच:
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् |
१७ क
वैशम्पाय़न उवाच:
रथमारुह्य पद्भ्यां वा विनामय़तु कार्मुकम् ||
१७ ख
वैशम्पाय़न उवाच:
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् |
१८ क
वैशम्पाय़न उवाच:
साधुवादानुसम्वद्धः सूर्यश्चास्तमुपागमत् ||
१८ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनः कर्णमालम्व्याथ करे नृप |
१९ क
वैशम्पाय़न उवाच:
दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ||
१९ ख
वैशम्पाय़न उवाच:
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते |
२० क
वैशम्पाय़न उवाच:
भीष्मेण सहिताः सर्वे यय़ुः स्वं स्वं निवेशनम् ||
२० ख
वैशम्पाय़न उवाच:
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत |
२१ क
वैशम्पाय़न उवाच:
कश्चिद्दुर्योधनेत्येवं व्रुवन्तः प्रस्थितास्तदा ||
२१ ख
वैशम्पाय़न उवाच:
कुन्त्याश्च प्रत्यभिज्ञाय़ दिव्यलक्षणसूचितम् |
२२ क
वैशम्पाय़न उवाच:
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ||
२२ ख
वैशम्पाय़न उवाच:
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव |
२३ क
वैशम्पाय़न उवाच:
भय़मर्जुनसाञ्जातं क्षिप्रमन्तरधीय़त ||
२३ ख
वैशम्पाय़न उवाच:
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुय़ोधनम् |
२४ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ||
२४ ख