युधिष्ठिर उवाच:
नामृतस्येव पर्याप्तिर्ममास्ति व्रुवति त्वय़ि |
१ क
युधिष्ठिर उवाच:
तस्मात्कथय़ भूय़स्त्वं धर्ममेव पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
गौतमस्य च संवादं यमस्य च महात्मनः ||
२ ख
भीष्म उवाच:
पारिय़ात्रगिरिं प्राप्य गौतमस्याश्रमो महान् |
३ क
भीष्म उवाच:
उवास गौतमो यत्र कालं तदपि मे शृणु ||
३ ख
भीष्म उवाच:
षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः |
४ क
भीष्म उवाच:
तमुग्रतपसं युक्तं तपसा भावितं मुनिम् ||
४ ख
भीष्म उवाच:
उपय़ातो नरव्याघ्र लोकपालो यमस्तदा |
५ क
भीष्म उवाच:
तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम् ||
५ ख
भीष्म उवाच:
स तं विदित्वा व्रह्मर्षिर्यममागतमोजसा |
६ क
भीष्म उवाच:
प्राञ्जलिः प्रय़तो भूत्वा उपसृप्तस्तपोधनः ||
६ ख
भीष्म उवाच:
तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम् |
७ क
भीष्म उवाच:
न्यमन्त्रय़त धर्मेण क्रिय़तां किमिति व्रुवन् ||
७ ख
गौतम उवाच:
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुय़ात् |
८ क
गौतम उवाच:
कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान् ||
८ ख
यम उवाच:
तपःशौचवता नित्यं सत्यधर्मरतेन च |
९ क
यम उवाच:
मातापित्रोरहरहः पूजनं कार्यमञ्जसा ||
९ ख
यम उवाच:
अश्वमेधैश्च यष्टव्यं वहुभिः स्वाप्तदक्षिणैः |
१० क
यम उवाच:
तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान् ||
१० ख