युधिष्ठिर उवाच:
कथंवीर्यः स राजाभूत्सोमको वदतां वर |
१ क
युधिष्ठिर उवाच:
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ||
१ ख
लोमश उवाच:
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः |
२ क
लोमश उवाच:
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ||
२ ख
लोमश उवाच:
स वै यत्नेन महता तासु पुत्रं महीपतिः |
३ क
लोमश उवाच:
कञ्चिन्नासादय़ामास कालेन महता अपि ||
३ ख
लोमश उवाच:
कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः |
४ क
लोमश उवाच:
जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजाय़त ||
४ ख
लोमश उवाच:
तं जातं मातरः सर्वाः परिवार्य समासते |
५ क
लोमश उवाच:
सततं पृष्ठतः कृत्वा कामभोगान्विशां पते ||
५ ख
लोमश उवाच:
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि |
६ क
लोमश उवाच:
स दष्टो व्यनदद्राजंस्तेन दुःखेन वालकः ||
६ ख
लोमश उवाच:
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः |
७ क
लोमश उवाच:
परिवार्य जन्तुं सहिताः स शव्दस्तुमुलोऽभवत् ||
७ ख
लोमश उवाच:
तमार्तनादं सहसा शुश्राव स महीपतिः |
८ क
लोमश उवाच:
अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः ||
८ ख
लोमश उवाच:
ततः प्रस्थापय़ामास किमेतदिति पार्थिवः |
९ क
लोमश उवाच:
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ||
९ ख
लोमश उवाच:
त्वरमाणः स चोत्थाय़ सोमकः सह मन्त्रिभिः |
१० क
लोमश उवाच:
प्रविश्यान्तःपुरं पुत्रमाश्वासय़दरिन्दमः ||
१० ख
लोमश उवाच:
सान्त्वय़ित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः |
११ क
लोमश उवाच:
ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् ||
११ ख
सोमक उवाच:
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् |
१२ क
सोमक उवाच:
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ||
१२ ख
सोमक उवाच:
इदं भार्याशतं व्रह्मन्परीक्ष्योपचितं प्रभो |
१३ क
सोमक उवाच:
पुत्रार्थिना मय़ा वोढं न चासां विद्यते प्रजा ||
१३ ख
सोमक उवाच:
एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरय़ं मम |
१४ क
सोमक उवाच:
यतमानस्य सर्वासु किं नु दुःखमतः परम् ||
१४ ख
सोमक उवाच:
वय़श्च समतीतं मे सभार्यस्य द्विजोत्तम |
१५ क
सोमक उवाच:
आसां प्राणाः समाय़त्ता मम चात्रैकपुत्रके ||
१५ ख
सोमक उवाच:
स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् |
१६ क
सोमक उवाच:
महता लघुना वापि कर्मणा दुष्करेण वा ||
१६ ख
ऋत्विगु उवाच:
अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् |
१७ क
ऋत्विगु उवाच:
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ||
१७ ख
सोमक उवाच:
कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् |
१८ क
सोमक उवाच:
कृतमेव हि तद्विद्धि भगवान्प्रव्रवीतु मे ||
१८ ख
ऋत्विगु उवाच:
यजस्व जन्तुना राजंस्त्वं मय़ा वितते क्रतौ |
१९ क
ऋत्विगु उवाच:
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ||
१९ ख
ऋत्विगु उवाच:
वपाय़ां हूय़मानाय़ां धूममाघ्राय़ मातरः |
२० क
ऋत्विगु उवाच:
ततस्ताः सुमहावीर्याञ्जनय़िष्यन्ति ते सुतान् ||
२० ख
ऋत्विगु उवाच:
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः |
२१ क
ऋत्विगु उवाच:
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ||
२१ ख