सञ्जय़ उवाच:
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः |
१ क
सञ्जय़ उवाच:
अमर्षवशमापन्नो युद्धाय़ैव मनो दधे ||
१ ख
सञ्जय़ उवाच:
अव्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव |
२ क
सञ्जय़ उवाच:
पश्य कृष्णसहाय़ेन पाण्डवेन किरीटिना |
२ ख
सञ्जय़ उवाच:
आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ||
२ ग
सञ्जय़ उवाच:
तव व्याय़च्छमानस्य द्रोणस्य च महात्मनः |
३ क
सञ्जय़ उवाच:
मिषतां योधमुख्यानां सैन्धवो विनिपातितः ||
३ ख
सञ्जय़ उवाच:
पश्य राधेय़ राजानः पृथिव्यां प्रवरा युधि |
४ क
सञ्जय़ उवाच:
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ||
४ ख
सञ्जय़ उवाच:
मम व्याय़च्छमानस्य समरे शत्रुसूदन |
५ क
सञ्जय़ उवाच:
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ||
५ ख
सञ्जय़ उवाच:
कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः |
६ क
सञ्जय़ उवाच:
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संय़ुगे ||
६ ख
सञ्जय़ उवाच:
प्रिय़ो हि फल्गुनो नित्यमाचार्यस्य महात्मनः |
७ क
सञ्जय़ उवाच:
ततोऽस्य दत्तवान्द्वारं नय़ुद्धेनारिमर्दन ||
७ ख
सञ्जय़ उवाच:
अभय़ं सैन्धवस्याजौ दत्त्वा द्रोणः परन्तपः |
८ क
सञ्जय़ उवाच:
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ||
८ ख
सञ्जय़ उवाच:
यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति |
९ क
सञ्जय़ उवाच:
सिन्धुराजस्य समरे नाभविष्यज्जनक्षय़ः ||
९ ख
सञ्जय़ उवाच:
जय़द्रथो जीवितार्थी गच्छमानो गृहान्प्रति |
१० क
सञ्जय़ उवाच:
मय़ानार्येण संरुद्धो द्रोणात्प्राप्याभय़ं रणे ||
१० ख
सञ्जय़ उवाच:
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादय़ो युधि |
११ क
सञ्जय़ उवाच:
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ||
११ ख
कर्ण उवाच:
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः |
१२ क
कर्ण उवाच:
अजय़्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ||
१२ ख
कर्ण उवाच:
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः |
१३ क
कर्ण उवाच:
दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ||
१३ ख
कर्ण उवाच:
ततो नो युध्यमानानां परं शक्त्या सुय़ोधन |
१४ क
कर्ण उवाच:
सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ||
१४ ख
कर्ण उवाच:
परं यत्नं कुर्वतां च त्वय़ा सार्धं रणाजिरे |
१५ क
कर्ण उवाच:
हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः |
१५ ख
कर्ण उवाच:
सततं चेष्टमानानां निकृत्या विक्रमेण च ||
१५ ग
कर्ण उवाच:
दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् |
१६ क
कर्ण उवाच:
कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ||
१६ ख
कर्ण उवाच:
यत्कर्तव्यं मनुष्येण व्यवसाय़वता सता |
१७ क
कर्ण उवाच:
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ||
१७ ख
कर्ण उवाच:
निकृत्या निकृताः पार्था विषय़ोगैश्च भारत |
१८ क
कर्ण उवाच:
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ||
१८ ख
कर्ण उवाच:
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् |
१९ क
कर्ण उवाच:
यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ||
१९ ख
कर्ण उवाच:
युध्यस्व यत्नमास्थाय़ मृत्युं कृत्वा निवर्तनम् |
२० क
कर्ण उवाच:
यततस्तव तेषां च दैवं मार्गेण यास्यति ||
२० ख
कर्ण उवाच:
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् |
२१ क
कर्ण उवाच:
दुष्कृतं तव वा वीर वुद्ध्या हीनं कुरूद्वह ||
२१ ख
कर्ण उवाच:
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा |
२२ क
कर्ण उवाच:
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ||
२२ ख
कर्ण उवाच:
वहूनि तव सैन्यानि योधाश्च वहवस्तथा |
२३ क
कर्ण उवाच:
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ||
२३ ख
कर्ण उवाच:
तैरल्पैर्वहवो यूय़ं क्षय़ं नीताः प्रहारिणः |
२४ क
कर्ण उवाच:
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ||
२४ ख
सञ्जय़ उवाच:
एवं सम्भाषमाणानां वहु तत्तज्जनाधिप |
२५ क
सञ्जय़ उवाच:
पाण्डवानामनीकानि समदृश्यन्त संय़ुगे ||
२५ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |
२६ क
सञ्जय़ उवाच:
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ||
२६ ख