chevron_left द्रोण पर्व अध्याय १७२
सञ्जय़ उवाच:
तत्प्रभग्नं वलं दृष्ट्वा कुन्तीपुत्रो धनञ्जय़ः |
१ क
सञ्जय़ उवाच:
न्यवारय़दमेय़ात्मा द्रोणपुत्रवधेप्सय़ा ||
१ ख
सञ्जय़ उवाच:
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे |
२ क
सञ्जय़ उवाच:
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ||
२ ख
सञ्जय़ उवाच:
एक एव तु वीभत्सुः सोमकावय़वैः सह |
३ क
सञ्जय़ उवाच:
मत्स्यैरन्यैश्च सन्धाय़ कौरवैः संन्यवर्तत ||
३ ख
सञ्जय़ उवाच:
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् |
४ क
सञ्जय़ उवाच:
सव्यसाची महेष्वासमश्वत्थामानमव्रवीत् ||
४ ख
सञ्जय़ उवाच:
या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् |
५ क
सञ्जय़ उवाच:
धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते |
५ ख
सञ्जय़ उवाच:
यच्च भूय़ोऽस्ति तेजस्तत्परमं मम दर्शय़ ||
५ ग
सञ्जय़ उवाच:
स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः |
६ क
सञ्जय़ उवाच:
कालानलसमप्रख्यो द्विषतामन्तको युधि |
६ ख
सञ्जय़ उवाच:
समासादय़ पाञ्चाल्यं मां चापि सहकेशवम् ||
६ ग
धृतराष्ट्र उवाच:
आचार्यपुत्रो मानार्हो वलवांश्चापि सञ्जय़ |
७ क
धृतराष्ट्र उवाच:
प्रीतिर्धनञ्जय़े चास्य प्रिय़श्चापि स वासवेः ||
७ ख
धृतराष्ट्र उवाच:
न भूतपूर्वं वीभत्सोर्वाक्यं परुषमीदृशम् |
८ क
धृतराष्ट्र उवाच:
अथ कस्मात्स कौन्तेय़ः सखाय़ं रूक्षमव्रवीत् ||
८ ख
सञ्जय़ उवाच:
युवराजे हते चैव वृद्धक्षत्रे च पौरवे |
९ क
सञ्जय़ उवाच:
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ||
९ ख
सञ्जय़ उवाच:
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते |
१० क
सञ्जय़ उवाच:
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ||
१० ख
सञ्जय़ उवाच:
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो |
११ क
सञ्जय़ उवाच:
अभूतपूर्वो वीभत्सोर्दुःखान्मन्युरजाय़त ||
११ ख
सञ्जय़ उवाच:
तस्मादनर्हमश्लीलमप्रिय़ं द्रौणिमुक्तवान् |
१२ क
सञ्जय़ उवाच:
मान्यमाचार्यतनय़ं रूक्षं कापुरुषो यथा ||
१२ ख
सञ्जय़ उवाच:
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप |
१३ क
सञ्जय़ उवाच:
पार्थेन परुषं वाक्यं सर्वमर्मघ्नय़ा गिरा |
१३ ख
सञ्जय़ उवाच:
द्रौणिश्चुकोप पार्थाय़ कृष्णाय़ च विशेषतः ||
१३ ग
सञ्जय़ उवाच:
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् |
१४ क
सञ्जय़ उवाच:
देवैरपि सुदुर्धर्षमस्त्रमाग्नेय़माददे ||
१४ ख
सञ्जय़ उवाच:
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः |
१५ क
सञ्जय़ उवाच:
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् |
१५ ख
सञ्जय़ उवाच:
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ||
१५ ग
सञ्जय़ उवाच:
ततस्तुमुलमाकाशे शरवर्षमजाय़त |
१६ क
सञ्जय़ उवाच:
ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ||
१६ ख
सञ्जय़ उवाच:
चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् |
१७ क
सञ्जय़ उवाच:
रुधिरं चापि वर्षन्तो विनेदुस्तोय़दाम्वरे ||
१७ ख
सञ्जय़ उवाच:
पक्षिणः पशवो गावो मुनय़श्चापि सुव्रताः |
१८ क
सञ्जय़ उवाच:
परमं प्रय़तात्मानो न शान्तिमुपलेभिरे ||
१८ ख
सञ्जय़ उवाच:
भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् |
१९ क
सञ्जय़ उवाच:
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम् ||
१९ ख
सञ्जय़ उवाच:
शरतेजोऽभिसन्तप्ता नागा भूमिशय़ास्तथा |
२० क
सञ्जय़ उवाच:
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ||
२० ख
सञ्जय़ उवाच:
जलजानि च सत्त्वानि दह्यमानानि भारत |
२१ क
सञ्जय़ उवाच:
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशय़ैः ||
२१ ख
सञ्जय़ उवाच:
दिशः खं प्रदिशश्चैव भुवं च शरवृष्टय़ः |
२२ क
सञ्जय़ उवाच:
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ||
२२ ख
सञ्जय़ उवाच:
तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः |
२३ क
सञ्जय़ उवाच:
प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ||
२३ ख
सञ्जय़ उवाच:
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः |
२४ क
सञ्जय़ उवाच:
नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ||
२४ ख
सञ्जय़ उवाच:
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः |
२५ क
सञ्जय़ उवाच:
त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ||
२५ ख
सञ्जय़ उवाच:
द्रुमाणां शिखराणीव दावदग्धानि मारिष |
२६ क
सञ्जय़ उवाच:
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो |
२६ ख
सञ्जय़ उवाच:
अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ||
२६ ग
सञ्जय़ उवाच:
तत्सैन्यं भगवानग्निर्ददाह युधि भारत |
२७ क
सञ्जय़ उवाच:
युगान्ते सर्वभूतानि संवर्तक इवानलः ||
२७ ख
सञ्जय़ उवाच:
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे |
२८ क
सञ्जय़ उवाच:
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ||
२८ ख
सञ्जय़ उवाच:
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत |
२९ क
सञ्जय़ उवाच:
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ||
२९ ख
सञ्जय़ उवाच:
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः |
३० क
सञ्जय़ उवाच:
तमसा संवृते लोके नादृश्यत महाहवे ||
३० ख
सञ्जय़ उवाच:
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् |
३१ क
सञ्जय़ उवाच:
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ||
३१ ख
सञ्जय़ उवाच:
अर्जुनस्तु महाराज व्राह्ममस्त्रमुदैरय़त् |
३२ क
सञ्जय़ उवाच:
सर्वास्त्रप्रतिघाताय़ विहितं पद्मय़ोनिना ||
३२ ख
सञ्जय़ उवाच:
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह |
३३ क
सञ्जय़ उवाच:
प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ||
३३ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् |
३४ क
सञ्जय़ उवाच:
अनभिज्ञेय़रूपां च प्रदग्धामस्त्रमाय़या ||
३४ ख
सञ्जय़ उवाच:
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ |
३५ क
सञ्जय़ उवाच:
सहितौ सम्प्रदृश्येतां नभसीव तमोनुदौ ||
३५ ख
सञ्जय़ उवाच:
सपताकध्वजहय़ः सानुकर्षवराय़ुधः |
३६ क
सञ्जय़ उवाच:
प्रवभौ स रथो मुक्तस्तावकानां भय़ङ्करः ||
३६ ख
सञ्जय़ उवाच:
ततः किलकिलाशव्दः शङ्खभेरीरवैः सह |
३७ क
सञ्जय़ उवाच:
पाण्डवानां प्रहृष्टानां क्षणेन समजाय़त ||
३७ ख
सञ्जय़ उवाच:
हताविति तय़ोरासीत्सेनय़ोरुभय़ोर्मतिः |
३८ क
सञ्जय़ उवाच:
तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ||
३८ ख
सञ्जय़ उवाच:
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ |
३९ क
सञ्जय़ उवाच:
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीय़ा व्यथिताभवन् ||
३९ ख
सञ्जय़ उवाच:
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः |
४० क
सञ्जय़ उवाच:
मुहूर्तं चिन्तय़ामास किं त्वेतदिति मारिष ||
४० ख
सञ्जय़ उवाच:
चिन्तय़ित्वा तु राजेन्द्र ध्यानशोकपराय़णः |
४१ क
सञ्जय़ उवाच:
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ||
४१ ख
सञ्जय़ उवाच:
ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः |
४२ क
सञ्जय़ उवाच:
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ||
४२ ख
सञ्जय़ उवाच:
ततः स्निग्धाम्वुदाभासं वेदव्यासमकल्मषम् |
४३ क
सञ्जय़ उवाच:
आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ||
४३ ख
सञ्जय़ उवाच:
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह |
४४ क
सञ्जय़ उवाच:
सन्नकण्ठोऽव्रवीद्वाक्यमभिवाद्य सुदीनवत् ||
४४ ख
सञ्जय़ उवाच:
भो भो माय़ा यदृच्छा वा न विद्मः किमिदं भवेत् |
४५ क
सञ्जय़ उवाच:
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ||
४५ ख
सञ्जय़ उवाच:
अधरोत्तरमेतद्वा लोकानां वा पराभवः |
४६ क
सञ्जय़ उवाच:
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ||
४६ ख
सञ्जय़ उवाच:
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः |
४७ क
सञ्जय़ उवाच:
न सर्पय़क्षपतगा न मनुष्याः कथञ्चन ||
४७ ख
सञ्जय़ उवाच:
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मय़ेरितम् |
४८ क