वैशम्पाय़न उवाच:
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जय़म् |
१ क
वैशम्पाय़न उवाच:
दुर्योधनो लक्षय़ित्व पर्यतप्यत दुर्मतिः ||
१ ख
वैशम्पाय़न उवाच:
ततो वैकर्तनः कर्णः शकुनिश्चापि सौवलः |
२ क
वैशम्पाय़न उवाच:
अनेकैरभ्युपाय़ैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||
२ ख
वैशम्पाय़न उवाच:
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः |
३ क
वैशम्पाय़न उवाच:
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||
३ ख
वैशम्पाय़न उवाच:
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा |
४ क
वैशम्पाय़न उवाच:
कथय़न्ति स्म सम्भूय़ चत्वरेषु सभासु च ||
४ ख
वैशम्पाय़न उवाच:
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः |
५ क
वैशम्पाय़न उवाच:
राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ||
५ ख
वैशम्पाय़न उवाच:
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः |
६ क
वैशम्पाय़न उवाच:
प्रत्याख्याय़ पुरा राज्यं नाद्य जातु ग्रहीष्यति ||
६ ख
वैशम्पाय़न उवाच:
ते वय़ं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् |
७ क
वैशम्पाय़न उवाच:
अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ||
७ ख
वैशम्पाय़न उवाच:
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् |
८ क
वैशम्पाय़न उवाच:
सपुत्रं विविधैर्भोगैर्योजय़िष्यति पूजय़न् ||
८ ख
वैशम्पाय़न उवाच:
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् |
९ क
वैशम्पाय़न उवाच:
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ||
९ ख
वैशम्पाय़न उवाच:
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे |
१० क
वैशम्पाय़न उवाच:
ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ||
१० ख
वैशम्पाय़न उवाच:
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः |
११ क
वैशम्पाय़न उवाच:
पौरानुरागसन्तप्तः पश्चादिदमभाषत ||
११ ख
वैशम्पाय़न उवाच:
श्रुता मे जल्पतां तात पौराणामशिवा गिरः |
१२ क
वैशम्पाय़न उवाच:
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ||
१२ ख
वैशम्पाय़न उवाच:
मतमेतच्च भीष्मस्य न स राज्यं वुभूषति |
१३ क
वैशम्पाय़न उवाच:
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ||
१३ ख
वैशम्पाय़न उवाच:
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा |
१४ क
वैशम्पाय़न उवाच:
त्वमप्यगुणसंय़ोगात्प्राप्तं राज्यं न लव्धवान् ||
१४ ख
वैशम्पाय़न उवाच:
स एष पाण्डोर्दाय़ाद्यं यदि प्राप्नोति पाण्डवः |
१५ क
वैशम्पाय़न उवाच:
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ||
१५ ख
वैशम्पाय़न उवाच:
ते वय़ं राजवंशेन हीनाः सह सुतैरपि |
१६ क
वैशम्पाय़न उवाच:
अवज्ञाता भविष्यामो लोकस्य जगतीपते ||
१६ ख
वैशम्पाय़न उवाच:
सततं निरय़ं प्राप्ताः परपिण्डोपजीविनः |
१७ क
वैशम्पाय़न उवाच:
न भवेम यथा राजंस्तथा शीघ्रं विधीय़ताम् ||
१७ ख
वैशम्पाय़न उवाच:
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप |
१८ क
वैशम्पाय़न उवाच:
ध्रुवं प्राप्स्याम च वय़ं राज्यमप्यवशे जने ||
१८ ख