chevron_left उद्योग पर्व अध्याय १२९
वैशम्पाय़न उवाच:
विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा |
१ क
वैशम्पाय़न उवाच:
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ||
१ ख
वैशम्पाय़न उवाच:
एकोऽहमिति यन्मोहान्मन्यसे मां सुय़ोधन |
२ क
वैशम्पाय़न उवाच:
परिभूय़ च दुर्वुद्धे ग्रहीतुं मां चिकीर्षसि ||
२ ख
वैशम्पाय़न उवाच:
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णय़ः |
३ क
वैशम्पाय़न उवाच:
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ||
३ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा जहासोच्चैः केशवः परवीरहा |
४ क
वैशम्पाय़न उवाच:
तस्य संस्मय़तः शौरेर्विद्युद्रूपा महात्मनः |
४ ख
वैशम्पाय़न उवाच:
अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ||
४ ग
वैशम्पाय़न उवाच:
तस्य व्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् |
५ क
वैशम्पाय़न उवाच:
लोकपाला भुजेष्वासन्नग्निरास्यादजाय़त ||
५ ख
वैशम्पाय़न उवाच:
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि |
६ क
वैशम्पाय़न उवाच:
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च |
६ ख
वैशम्पाय़न उवाच:
वभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् ||
६ ग
वैशम्पाय़न उवाच:
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जय़ौ |
७ क
वैशम्पाय़न उवाच:
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ||
७ ख
वैशम्पाय़न उवाच:
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः |
८ क
वैशम्पाय़न उवाच:
अन्धका वृष्णय़श्चैव प्रद्युम्नप्रमुखास्ततः ||
८ ख
वैशम्पाय़न उवाच:
अग्रे वभूवुः कृष्णस्य समुद्यतमहाय़ुधाः |
९ क
वैशम्पाय़न उवाच:
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ||
९ ख
वैशम्पाय़न उवाच:
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च |
१० क
वैशम्पाय़न उवाच:
नानावाहुषु कृष्णस्य दीप्यमानानि सर्वशः ||
१० ख
वैशम्पाय़न उवाच:
नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः |
११ क
वैशम्पाय़न उवाच:
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः |
११ ख
वैशम्पाय़न उवाच:
रोमकूपेषु च तथा सूर्यस्येव मरीचय़ः ||
११ ग
वैशम्पाय़न उवाच:
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः |
१२ क
वैशम्पाय़न उवाच:
न्यमीलय़न्त नेत्राणि राजानस्त्रस्तचेतसः ||
१२ ख
वैशम्पाय़न उवाच:
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् |
१३ क
वैशम्पाय़न उवाच:
सञ्जय़ं च महाभागमृषींश्चैव तपोधनान् |
१३ ख
वैशम्पाय़न उवाच:
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ||
१३ ग
वैशम्पाय़न उवाच:
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले |
१४ क
वैशम्पाय़न उवाच:
देवदुन्दुभय़ो नेदुः पुष्पवर्षं पपात च ||
१४ ख
वैशम्पाय़न उवाच:
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे |
१५ क
वैशम्पाय़न उवाच:
विस्मय़ं परमं जग्मुः पार्थिवा भरतर्षभ ||
१५ ख
वैशम्पाय़न उवाच:
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् |
१६ क
वैशम्पाय़न उवाच:
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः ||
१६ ख
वैशम्पाय़न उवाच:
ततः सात्यकिमादाय़ पाणौ हार्दिक्यमेव च |
१७ क
वैशम्पाय़न उवाच:
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ||
१७ ख
वैशम्पाय़न उवाच:
ऋषय़ोऽन्तर्हिता जग्मुस्ततस्ते नारदादय़ः |
१८ क
वैशम्पाय़न उवाच:
तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा ||
१८ ख
वैशम्पाय़न उवाच:
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः |
१९ क
वैशम्पाय़न उवाच:
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ||
१९ ख
वैशम्पाय़न उवाच:
अचिन्तय़न्नमेय़ात्मा सर्वं तद्राजमण्डलम् |
२० क
वैशम्पाय़न उवाच:
निश्चक्राम ततः शौरिः सधूम इव पावकः ||
२० ख
वैशम्पाय़न उवाच:
ततो रथेन शुभ्रेण महता किङ्किणीकिना |
२१ क
वैशम्पाय़न उवाच:
हेमजालविचित्रेण लघुना मेघनादिना ||
२१ ख
वैशम्पाय़न उवाच:
सूपस्करेण शुभ्रेण वैय़ाघ्रेण वरूथिना |
२२ क
वैशम्पाय़न उवाच:
सैन्यसुग्रीवय़ुक्तेन प्रत्यदृश्यत दारुकः ||
२२ ख
वैशम्पाय़न उवाच:
तथैव रथमास्थाय़ कृतवर्मा महारथः |
२३ क
वैशम्पाय़न उवाच:
वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत ||
२३ ख
वैशम्पाय़न उवाच:
उपस्थितरथं शौरिं प्रय़ास्यन्तमरिन्दमम् |
२४ क
वैशम्पाय़न उवाच:
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ||
२४ ख
वैशम्पाय़न उवाच:
यावद्वलं मे पुत्रेषु पश्यस्येतज्जनार्दन |
२५ क
वैशम्पाय़न उवाच:
प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ||
२५ ख
वैशम्पाय़न उवाच:
कुरूणां शममिच्छन्तं यतमानं च केशव |
२६ क
वैशम्पाय़न उवाच:
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ||
२६ ख
वैशम्पाय़न उवाच:
न मे पापोऽस्त्यभिप्राय़ः पाण्डवान्प्रति केशव |
२७ क
वैशम्पाय़न उवाच:
ज्ञातमेव हि ते वाक्यं यन्मय़ोक्तः सुय़ोधनः ||
२७ ख
वैशम्पाय़न उवाच:
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः |
२८ क
वैशम्पाय़न उवाच:
शमे प्रय़तमानं मां सर्वय़त्नेन माधव ||
२८ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीन्महावाहुर्धृतराष्ट्रं जनेश्वरम् |
२९ क
वैशम्पाय़न उवाच:
द्रोणं पितामहं भीष्मं क्षत्तारं वाह्लिकं कृपम् ||
२९ ख
वैशम्पाय़न उवाच:
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि |
३० क
वैशम्पाय़न उवाच:
यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः ||
३० ख
वैशम्पाय़न उवाच:
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः |
३१ क
वैशम्पाय़न उवाच:
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ||
३१ ख
वैशम्पाय़न उवाच:
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् |
३२ क
वैशम्पाय़न उवाच:
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ||
३२ ख
वैशम्पाय़न उवाच:
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ वाह्लिकः |
३३ क
वैशम्पाय़न उवाच:
अश्वत्थामा विकर्णश्च युय़ुत्सुश्च महारथः ||
३३ ख
वैशम्पाय़न उवाच:
ततो रथेन शुभ्रेण महता किङ्किणीकिना |
३४ क
वैशम्पाय़न उवाच:
कुरूणां पश्यतां प्राय़ात्पृथां द्रष्टुं पितृष्वसाम् ||
३४ ख