chevron_left विराट पर्व अध्याय २४
वैशम्पाय़न उवाच:
कीचकस्य तु घातेन सानुजस्य विशां पते |
१ क
वैशम्पाय़न उवाच:
अत्याहितं चिन्तय़ित्वा व्यस्मय़न्त पृथग्जनाः ||
१ ख
वैशम्पाय़न उवाच:
तस्मिन्पुरे जनपदे सञ्जल्पोऽभूच्च सर्वशः |
२ क
वैशम्पाय़न उवाच:
शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः ||
२ ख
वैशम्पाय़न उवाच:
आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः |
३ क
वैशम्पाय़न उवाच:
स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः ||
३ ख
वैशम्पाय़न उवाच:
इत्यजल्पन्महाराज परानीकविशातनम् |
४ क
वैशम्पाय़न उवाच:
देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् ||
४ ख
वैशम्पाय़न उवाच:
अथ वै धार्तराष्ट्रेण प्रय़ुक्ता ये वहिश्चराः |
५ क
वैशम्पाय़न उवाच:
मृगय़ित्वा वहून्ग्रामान्राष्ट्राणि नगराणि च ||
५ ख
वैशम्पाय़न उवाच:
संविधाय़ यथादिष्टं यथादेशप्रदर्शनम् |
६ क
वैशम्पाय़न उवाच:
कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति ||
६ ख
वैशम्पाय़न उवाच:
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् |
७ क
वैशम्पाय़न उवाच:
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ||
७ ख
वैशम्पाय़न उवाच:
सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः |
८ क
वैशम्पाय़न उवाच:
दुर्योधनं सभामध्ये आसीनमिदमव्रुवन् ||
८ ख
वैशम्पाय़न उवाच:
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा |
९ क
वैशम्पाय़न उवाच:
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ||
९ ख
वैशम्पाय़न उवाच:
निर्जने मृगसङ्कीर्णे नानाद्रुमलतावृते |
१० क
वैशम्पाय़न उवाच:
लताप्रतानवहुले नानागुल्मसमावृते ||
१० ख
वैशम्पाय़न उवाच:
न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः |
११ क
वैशम्पाय़न उवाच:
मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ||
११ ख
वैशम्पाय़न उवाच:
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च |
१२ क
वैशम्पाय़न उवाच:
जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ||
१२ ख
वैशम्पाय़न उवाच:
नरेन्द्र वहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् |
१३ क
वैशम्पाय़न उवाच:
अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ ||
१३ ख
वैशम्पाय़न उवाच:
वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम |
१४ क
वैशम्पाय़न उवाच:
कञ्चित्कालं मनुष्येन्द्र सूतानामनुगा वय़म् ||
१४ ख
वैशम्पाय़न उवाच:
मृगय़ित्वा यथान्याय़ं विदितार्थाः स्म तत्त्वतः |
१५ क
वैशम्पाय़न उवाच:
प्राप्ता द्वारवतीं सूता ऋते पार्थैः परन्तप ||
१५ ख
वैशम्पाय़न उवाच:
न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता |
१६ क
वैशम्पाय़न उवाच:
सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ||
१६ ख
वैशम्पाय़न उवाच:
न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् |
१७ क
वैशम्पाय़न उवाच:
पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् |
१७ ख
वैशम्पाय़न उवाच:
स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ||
१७ ग
वैशम्पाय़न उवाच:
अन्वेषणे पाण्डवानां भूय़ः किं करवामहे |
१८ क
वैशम्पाय़न उवाच:
इमां च नः प्रिय़ामीक्ष वाचं भद्रवतीं शुभाम् ||
१८ ख
वैशम्पाय़न उवाच:
येन त्रिगर्ता निकृता वलेन महता नृप |
१९ क
वैशम्पाय़न उवाच:
सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना ||
१९ ख
वैशम्पाय़न उवाच:
स हतः पतितः शेते गन्धर्वैर्निशि भारत |
२० क
वैशम्पाय़न उवाच:
अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत ||
२० ख
वैशम्पाय़न उवाच:
प्रिय़मेतदुपश्रुत्य शत्रूणां तु पराभवम् |
२१ क
वैशम्पाय़न उवाच:
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ||
२१ ख