सञ्जय़ उवाच:
स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं वलं च |
५१ क
सञ्जय़ उवाच:
महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय़ कर्णः ||
५१ ख
सञ्जय़ उवाच:
स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षय़त्प्रतिघातं रणे तम् |
५२ क
सञ्जय़ उवाच:
शक्तिं श्रेष्ठां वैजय़न्तीमसह्यां; समाददे तस्य वधं चिकीर्षन् ||
५२ ख
सञ्जय़ उवाच:
यासौ राजन्निहिता वर्षपूगा; न्वधाय़ाजौ सत्कृता फल्गुनस्य |
५३ क
सञ्जय़ उवाच:
यां वै प्रादात्सूतपुत्राय़ शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय़ ||
५३ ख
सञ्जय़ उवाच:
तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम् |
५४ क
सञ्जय़ उवाच:
मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय़ ||
५४ ख
सञ्जय़ उवाच:
तामुत्तमां परकाय़ापहन्त्रीं; दृष्ट्वा सौतेर्वाहुसंस्थां ज्वलन्तीम् |
५५ क
सञ्जय़ उवाच:
भीतं रक्षो विप्रदुद्राव राज; न्कृत्वात्मानं विन्ध्यपादप्रमाणम् ||
५५ ख
सञ्जय़ उवाच:
दृष्ट्वा शक्तिं कर्णवाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र |
५६ क
सञ्जय़ उवाच:
ववुर्वातास्तुमुलाश्चापि राज; न्सनिर्घाता चाशानिर्गां जगाम ||
५६ ख
सञ्जय़ उवाच:
सा तां माय़ां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदय़ं राक्षसस्य |
५७ क
सञ्जय़ उवाच:
ऊर्ध्वं यय़ौ दीप्यमाना निशाय़ां; नक्षत्राणामन्तराण्याविशन्ती ||
५७ ख
सञ्जय़ उवाच:
युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै; र्दिव्यैर्वीरो मानुषै राक्षसैश्च |
५८ क
सञ्जय़ उवाच:
नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या ||
५८ ख
सञ्जय़ उवाच:
इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षय़ाय़ |
५९ क
सञ्जय़ उवाच:
तस्मिन्काले शक्तिनिर्भिन्नमर्मा; वभौ राजन्मेघशैलप्रकाशः ||
५९ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः |
६० क
सञ्जय़ उवाच:
अवाक्षिराः स्तव्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय़ रूपम् ||
६० ख
सञ्जय़ उवाच:
स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात |
६१ क
सञ्जय़ उवाच:
हतोऽप्येवं तव सैन्येकदेश; मपोथय़त्कौरवान्भीषय़ाणः ||
६१ ख
सञ्जय़ उवाच:
ततो मिश्राः प्राणदन्सिंहनादै; र्भेर्यः शङ्खा मुरजाश्चानकाश्च |
६२ क
सञ्जय़ उवाच:
दग्धां माय़ां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेय़ाः ||
६२ ख
सञ्जय़ उवाच:
ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः |
६३ क
सञ्जय़ उवाच:
अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम् ||
६३ ख