chevron_left वन पर्व अध्याय १३
वैशम्पाय़न उवाच:
तत्राप्यासादय़ामासुर्वकं नाम महावलम् |
१०० क
वैशम्पाय़न उवाच:
पुरुषादं प्रतिभय़ं हिडिम्वेनैव संमितम् ||
१०० ख
वैशम्पाय़न उवाच:
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः |
१०१ क
वैशम्पाय़न उवाच:
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं यय़ौ ||
१०१ ख
वैशम्पाय़न उवाच:
लव्धाहमपि तत्रैव वसता सव्यसाचिना |
१०२ क
वैशम्पाय़न उवाच:
यथा त्वय़ा जिता कृष्ण रुक्मिणी भीष्मकात्मजा ||
१०२ ख
वैशम्पाय़न उवाच:
एवं सुय़ुद्धे पार्थेन जिताहं मधुसूदन |
१०३ क
वैशम्पाय़न उवाच:
स्वय़ंवरे महत्कर्म कृत्वा नसुकरं परैः ||
१०३ ख
वैशम्पाय़न उवाच:
एवं क्लेशैः सुवहुभिः क्लिश्यमानाः सुदुःखिताः |
१०४ क
वैशम्पाय़न उवाच:
निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ||
१०४ ख
वैशम्पाय़न उवाच:
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः |
१०५ क
वैशम्पाय़न उवाच:
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ||
१०५ ख
वैशम्पाय़न उवाच:
एतादृशानि दुःखानि सहन्ते दुर्वलीय़साम् |
१०६ क
वैशम्पाय़न उवाच:
दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ||
१०६ ख
वैशम्पाय़न उवाच:
कुले महति जातास्मि दिव्येन विधिना किल |
१०७ क
वैशम्पाय़न उवाच:
पाण्डवानां प्रिय़ा भार्या स्नुषा पाण्डोर्महात्मनः ||
१०७ ख
वैशम्पाय़न उवाच:
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती |
१०८ क
वैशम्पाय़न उवाच:
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ||
१०८ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना |
१०९ क
वैशम्पाय़न उवाच:
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ||
१०९ ख
वैशम्पाय़न उवाच:
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ |
११० क
वैशम्पाय़न उवाच:
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुविन्दुभिः ||
११० ख
वैशम्पाय़न उवाच:
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः |
१११ क
वैशम्पाय़न उवाच:
वाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमव्रवीत् ||
१११ ख
वैशम्पाय़न उवाच:
नैव मे पतय़ः सन्ति न पुत्रा मधुसूदन |
११२ क
वैशम्पाय़न उवाच:
न भ्रातरो न च पिता नैव त्वं न च वान्धवाः ||
११२ ख
वैशम्पाय़न उवाच:
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् |
११३ क
वैशम्पाय़न उवाच:
न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ||
११३ ख
वैशम्पाय़न उवाच:
अथैनामव्रवीत्कृष्णस्तस्मिन्वीरसमागमे |
११४ क
वैशम्पाय़न उवाच:
रोदिष्यन्ति स्त्रिय़ो ह्येवं येषां क्रुद्धासि भामिनि ||
११४ ख
वैशम्पाय़न उवाच:
वीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् |
११५ क
वैशम्पाय़न उवाच:
निहताञ्जीवितं त्यक्त्वा शय़ानान्वसुधातले ||
११५ ख
वैशम्पाय़न उवाच:
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः |
११६ क
वैशम्पाय़न उवाच:
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ||
११६ ख
वैशम्पाय़न उवाच:
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् |
११७ क
वैशम्पाय़न उवाच:
शुष्येत्तोय़निधिः कृष्णे न मे मोघं वचो भवेत् ||
११७ ख
धृष्टद्युम्न उवाच:
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् |
११८ क
धृष्टद्युम्न उवाच:
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जय़ः ||
११८ ख
धृष्टद्युम्न उवाच:
रामकृष्णौ व्यपाश्रित्य अजेय़ाः स्म शुचिस्मिते |
११९ क
धृष्टद्युम्न उवाच:
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ||
११९ ख
वैशम्पाय़न उवाच:
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता |
१२० क
वैशम्पाय़न उवाच:
तेषां मध्ये महावाहुः केशवो वाक्यमव्रवीत् ||
१२० ख