वैशम्पाय़न उवाच:
एवमुक्त्वा युधां श्रेष्ठः सर्वय़ादवनन्दनः |
१ क
वैशम्पाय़न उवाच:
सर्वाय़ुधवरोपेतमारुरोह महारथम् |
१ ख
वैशम्पाय़न उवाच:
युक्तं परमकाम्वोजैस्तुरगैर्हेममालिभिः ||
१ ग
वैशम्पाय़न उवाच:
आदित्योदय़वर्णस्य धुरं रथवरस्य तु |
२ क
वैशम्पाय़न उवाच:
दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् |
२ ख
वैशम्पाय़न उवाच:
पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पवलाहकौ ||
२ ग
वैशम्पाय़न उवाच:
विश्वकर्मकृता दिव्या नानारत्नविभूषिता |
३ क
वैशम्पाय़न उवाच:
उच्छ्रितेव रथे माय़ा ध्वजय़ष्टिरदृश्यत ||
३ ख
वैशम्पाय़न उवाच:
वैनतेय़ः स्थितस्तस्यां प्रभामण्डलरश्मिवान् |
४ क
वैशम्पाय़न उवाच:
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ||
४ ख
वैशम्पाय़न उवाच:
अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् |
५ क
वैशम्पाय़न उवाच:
अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ||
५ ख
वैशम्पाय़न उवाच:
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ |
६ क
वैशम्पाय़न उवाच:
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ||
६ ख
वैशम्पाय़न उवाच:
तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् |
७ क
वैशम्पाय़न उवाच:
प्रतोदेन जवोपेतान्परमाश्वानचोदय़त् ||
७ ख
वैशम्पाय़न उवाच:
ते हय़ाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् |
८ क
वैशम्पाय़न उवाच:
आस्थितं पाण्डवेय़ाभ्यां यदूनामृषभेण च ||
८ ख
वैशम्पाय़न उवाच:
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् |
९ क
वैशम्पाय़न उवाच:
प्रादुरासीन्महाञ्शव्दः पक्षिणां पततामिव ||
९ ख
वैशम्पाय़न उवाच:
ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ |
१० क
वैशम्पाय़न उवाच:
भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ||
१० ख
वैशम्पाय़न उवाच:
क्रोधदीप्तं तु कौन्तेय़ं द्विषदर्थे समुद्यतम् |
११ क
वैशम्पाय़न उवाच:
नाशक्नुवन्वारय़ितुं समेत्यापि महारथाः ||
११ ख
वैशम्पाय़न उवाच:
स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् |
१२ क
वैशम्पाय़न उवाच:
यय़ौ भागिरथीकच्छं हरिभिर्भृशवेगितैः |
१२ ख
वैशम्पाय़न उवाच:
यत्र स्म श्रूय़ते द्रौणिः पुत्रहन्ता महात्मनाम् ||
१२ ग
वैशम्पाय़न उवाच:
स ददर्श महात्मानमुदकान्ते यशस्विनम् |
१३ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नं व्यासमासीनमृषिभिः सह ||
१३ ख
वैशम्पाय़न उवाच:
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् |
१४ क
वैशम्पाय़न उवाच:
रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ||
१४ ख
वैशम्पाय़न उवाच:
तमभ्यधावत्कौन्तेय़ः प्रगृह्य सशरं धनुः |
१५ क
वैशम्पाय़न उवाच:
भीमसेनो महावाहुस्तिष्ठ तिष्ठेति चाव्रवीत् ||
१५ ख
वैशम्पाय़न उवाच:
स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् |
१६ क
वैशम्पाय़न उवाच:
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ |
१६ ख
वैशम्पाय़न उवाच:
व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ||
१६ ग
वैशम्पाय़न उवाच:
स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तय़त् |
१७ क
वैशम्पाय़न उवाच:
जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना |
१७ ख
वैशम्पाय़न उवाच:
स तामापदमासाद्य दिव्यमस्त्रमुदीरय़त् ||
१७ ग
वैशम्पाय़न उवाच:
अमृष्यमाणस्ताञ्शूरान्दिव्याय़ुधधरान्स्थितान् |
१८ क
वैशम्पाय़न उवाच:
अपाण्डवाय़ेति रुषा व्यसृजद्दारुणं वचः ||
१८ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् |
१९ क
वैशम्पाय़न उवाच:
सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ||
१९ ख
वैशम्पाय़न उवाच:
ततस्तस्यामिषीकाय़ां पावकः समजाय़त |
२० क
वैशम्पाय़न उवाच:
प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकय़मोपमः ||
२० ख