वैशम्पाय़न उवाच:
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः |
१ क
वैशम्पाय़न उवाच:
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ||
१ ख
वैशम्पाय़न उवाच:
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् |
२ क
वैशम्पाय़न उवाच:
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ||
२ ख
वैशम्पाय़न उवाच:
तस्याः पापमभिप्राय़ं विदित्वा पाण्डवान्प्रति |
३ क
वैशम्पाय़न उवाच:
ऋषिः सत्यवतीपुत्रः प्रागेव समवुध्यत ||
३ ख
वैशम्पाय़न उवाच:
स गङ्गाय़ामुपस्पृश्य पुण्यगन्धं पय़ः शुचि |
४ क
वैशम्पाय़न उवाच:
तं देशमुपसम्पेदे परमर्षिर्मनोजवः ||
४ ख
वैशम्पाय़न उवाच:
दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च |
५ क
वैशम्पाय़न उवाच:
सर्वप्राणभृतां भावं स तत्र समवुध्यत ||
५ ख
वैशम्पाय़न उवाच:
स स्नुषामव्रवीत्काले कल्यवादी महातपाः |
६ क
वैशम्पाय़न उवाच:
शापकालमवाक्षिप्य शमकालमुदीरय़न् ||
६ ख
वैशम्पाय़न उवाच:
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि |
७ क
वैशम्पाय़न उवाच:
रजो निगृह्यतामेतच्छृणु चेदं वचो मम ||
७ ख
वैशम्पाय़न उवाच:
उक्तास्यष्टादशाहानि पुत्रेण जय़मिच्छता |
८ क
वैशम्पाय़न उवाच:
शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः ||
८ ख
वैशम्पाय़न उवाच:
सा तथा याच्यमाना त्वं काले काले जय़ैषिणा |
९ क
वैशम्पाय़न उवाच:
उक्तवत्यसि गान्धारि यतो धर्मस्ततो जय़ः ||
९ ख
वैशम्पाय़न उवाच:
न चाप्यतीतां गान्धारि वाचं ते वितथामहम् |
१० क
वैशम्पाय़न उवाच:
स्मरामि भाषमाणाय़ास्तथा प्रणिहिता ह्यसि ||
१० ख
वैशम्पाय़न उवाच:
सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि |
११ क
वैशम्पाय़न उवाच:
कोपं संय़च्छ गान्धारि मैवं भूः सत्यवादिनि ||
११ ख
गान्धार्यु उवाच:
भगवन्नाभ्यसूय़ामि नैतानिच्छामि नश्यतः |
१२ क
गान्धार्यु उवाच:
पुत्रशोकेन तु वलान्मनो विह्वलतीव मे ||
१२ ख
गान्धार्यु उवाच:
यथैव कुन्त्या कौन्तेय़ा रक्षितव्यास्तथा मय़ा |
१३ क
गान्धार्यु उवाच:
यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मय़ा ||
१३ ख
गान्धार्यु उवाच:
दुर्योधनापराधेन शकुनेः सौवलस्य च |
१४ क
गान्धार्यु उवाच:
कर्णदुःशासनाभ्यां च वृत्तोऽय़ं कुरुसङ्क्षय़ः ||
१४ ख
गान्धार्यु उवाच:
नापराध्यति वीभत्सुर्न च पार्थो वृकोदरः |
१५ क
गान्धार्यु उवाच:
नकुलः सहदेवो वा नैव जातु युधिष्ठिरः ||
१५ ख
गान्धार्यु उवाच:
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् |
१६ क
गान्धार्यु उवाच:
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रिय़ं मम ||
१६ ख
गान्धार्यु उवाच:
यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः |
१७ क
गान्धार्यु उवाच:
दुर्योधनं समाहूय़ गदाय़ुद्धे महामनाः ||
१७ ख
गान्धार्यु उवाच:
शिक्षय़ाभ्यधिकं ज्ञात्वा चरन्तं वहुधा रणे |
१८ क
गान्धार्यु उवाच:
अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धय़त् ||
१८ ख
गान्धार्यु उवाच:
कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः |
१९ क
गान्धार्यु उवाच:
त्यजेय़ुराहवे शूराः प्राणहेतोः कथञ्चन ||
१९ ख