chevron_left अनुशासन पर्व अध्याय १३
युधिष्ठिर उवाच:
किं कर्तव्यं मनुष्येण लोकय़ात्राहितार्थिना |
१ क
युधिष्ठिर उवाच:
कथं वै लोकय़ात्रां तु किंशीलश्च समाचरेत् ||
१ ख
भीष्म उवाच:
काय़ेन त्रिविधं कर्म वाचा चापि चतुर्विधम् |
२ क
भीष्म उवाच:
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ||
२ ख
भीष्म उवाच:
प्राणातिपातं स्तैन्यं च परदारमथापि च |
३ क
भीष्म उवाच:
त्रीणि पापानि काय़ेन सर्वतः परिवर्जय़ेत् ||
३ ख
भीष्म उवाच:
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा |
४ क
भीष्म उवाच:
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तय़ेत् ||
४ ख
भीष्म उवाच:
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् |
५ क
भीष्म उवाच:
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ||
५ ख
भीष्म उवाच:
तस्माद्वाक्काय़मनसा नाचरेदशुभं नरः |
६ क
भीष्म उवाच:
शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् ||
६ ख