chevron_left आश्वमेधिक पर्व अध्याय १३
वासुदेव उवाच:
न वाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत |
१ क
वासुदेव उवाच:
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ||
१ ख
वासुदेव उवाच:
वाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः |
२ क
वासुदेव उवाच:
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ||
२ ख
वासुदेव उवाच:
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं व्रह्म शाश्वतम् |
३ क
वासुदेव उवाच:
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ||
३ ख
वासुदेव उवाच:
व्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ |
४ क
वासुदेव उवाच:
अदृश्यमानौ भूतानि योधय़ेतामसंशय़म् ||
४ ख
वासुदेव उवाच:
अविनाशोऽस्य सत्त्वस्य निय़तो यदि भारत |
५ क
वासुदेव उवाच:
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ||
५ ख
वासुदेव उवाच:
लव्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् |
६ क
वासुदेव उवाच:
ममत्वं यस्य नैव स्यात्किं तय़ा स करिष्यति ||
६ ख
वासुदेव उवाच:
अथ वा वसतः पार्थ वने वन्येन जीवतः |
७ क
वासुदेव उवाच:
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ||
७ ख
वासुदेव उवाच:
वाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत |
८ क
वासुदेव उवाच:
यन्न पश्यति तद्भूतं मुच्यते स महाभय़ात् ||
८ ख
वासुदेव उवाच:
कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः |
९ क
वासुदेव उवाच:
दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि ||
९ ख
वासुदेव उवाच:
व्रतं यज्ञान्निय़मान्ध्यानय़ोगा; न्कामेन यो नारभते विदित्वा |
१० क
वासुदेव उवाच:
यद्यद्ध्ययं कामय़ते स धर्मो; न यो धर्मो निय़मस्तस्य मूलम् ||
१० ख
वासुदेव उवाच:
अत्र गाथाः कामगीताः कीर्तय़न्ति पुराविदः |
११ क
वासुदेव उवाच:
शृणु सङ्कीर्त्यमानास्ता निखिलेन युधिष्ठिर ||
११ ख
वासुदेव उवाच:
नाहं शक्योऽनुपाय़ेन हन्तुं भूतेन केनचित् |
१२ क
वासुदेव उवाच:
यो मां प्रय़तते हन्तुं ज्ञात्वा प्रहरणे वलम् |
१२ ख
वासुदेव उवाच:
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ||
१२ ग
वासुदेव उवाच:
यो मां प्रय़तते हन्तुं यज्ञैर्विविधदक्षिणैः |
१३ क
वासुदेव उवाच:
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ||
१३ ख
वासुदेव उवाच:
यो मां प्रय़तते हन्तुं वेदैर्वेदान्तसाधनैः |
१४ क
वासुदेव उवाच:
स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ||
१४ ख
वासुदेव उवाच:
यो मां प्रय़तते हन्तुं धृत्या सत्यपराक्रमः |
१५ क
वासुदेव उवाच:
भावो भवामि तस्याहं स च मां नाववुध्यते ||
१५ ख
वासुदेव उवाच:
यो मां प्रय़तते हन्तुं तपसा संशितव्रतः |
१६ क
वासुदेव उवाच:
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ||
१६ ख
वासुदेव उवाच:
यो मां प्रय़तते हन्तुं मोक्षमास्थाय़ पण्डितः |
१७ क
वासुदेव उवाच:
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च |
१७ ख
वासुदेव उवाच:
अवध्यः सर्वभूतानामहमेकः सनातनः ||
१७ ग
वासुदेव उवाच:
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः |
१८ क
वासुदेव उवाच:
धर्मं कुरु महाराज तत्र ते स भविष्यति ||
१८ ख
वासुदेव उवाच:
यजस्व वाजिमेधेन विधिवद्दक्षिणावता |
१९ क
वासुदेव उवाच:
अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ||
१९ ख
वासुदेव उवाच:
मा ते व्यथास्तु निहतान्वन्धून्वीक्ष्य पुनः पुनः |
२० क
वासुदेव उवाच:
न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ||
२० ख
वासुदेव उवाच:
स त्वमिष्ट्वा महाय़ज्ञैः समृद्धैराप्तदक्षिणैः |
२१ क
वासुदेव उवाच:
लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ||
२१ ख