chevron_left आश्रमवासिक पर्व अध्याय १३
युधिष्ठिर उवाच:
एवमेतत्करिष्यामि यथात्थ पृथिवीपते |
१ क
युधिष्ठिर उवाच:
भूय़श्चैवानुशास्योऽहं भवता पार्थिवर्षभ ||
१ ख
युधिष्ठिर उवाच:
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने |
२ क
युधिष्ठिर उवाच:
विदुरे सञ्जय़े चैव कोऽन्यो मां वक्तुमर्हति ||
२ ख
युधिष्ठिर उवाच:
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः |
३ क
युधिष्ठिर उवाच:
कर्तास्म्येतन्महीपाल निर्वृतो भव भारत ||
३ ख
वैशम्पाय़न उवाच:
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता |
४ क
वैशम्पाय़न उवाच:
कौन्तेय़ं समनुज्ञातुमिय़ेष भरतर्षभ ||
४ ख
वैशम्पाय़न उवाच:
पुत्र विश्रम्यतां तावन्ममापि वलवाञ्श्रमः |
५ क
वैशम्पाय़न उवाच:
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ||
५ ख
वैशम्पाय़न उवाच:
तमासनगतं देवी गान्धारी धर्मचारिणी |
६ क
वैशम्पाय़न उवाच:
उवाच काले कालज्ञा प्रजापतिसमं पतिम् ||
६ ख
वैशम्पाय़न उवाच:
अनुज्ञातः स्वय़ं तेन व्यासेनापि महर्षिणा |
७ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ||
७ ख
धृतराष्ट्र उवाच:
गान्धार्यहमनुज्ञातः स्वय़ं पित्रा महात्मना |
८ क
धृतराष्ट्र उवाच:
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ||
८ ख
धृतराष्ट्र उवाच:
अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् |
९ क
धृतराष्ट्र उवाच:
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु |
९ ख
धृतराष्ट्र उवाच:
सर्वप्रकृतिसांनिध्यं कारय़ित्वा स्ववेश्मनि ||
९ ग
वैशम्पाय़न उवाच:
इत्युक्त्वा धर्मराजाय़ प्रेषय़ामास पार्थिवः |
१० क
वैशम्पाय़न उवाच:
स च तद्वचनात्सर्वं समानिन्ये महीपतिः ||
१० ख
वैशम्पाय़न उवाच:
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा |
११ क
वैशम्पाय़न उवाच:
सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा |
११ ख
वैशम्पाय़न उवाच:
समवेतांश्च तान्सर्वान्पौरजानपदानथ ||
११ ग
वैशम्पाय़न उवाच:
व्राह्मणांश्च महीपालान्नानादेशसमागतान् |
१२ क
वैशम्पाय़न उवाच:
ततः प्राह महातेजा धृतराष्ट्रो महीपतिः ||
१२ ख
वैशम्पाय़न उवाच:
शृण्वन्त्येकाग्रमनसो व्राह्मणाः कुरुजाङ्गलाः |
१३ क
वैशम्पाय़न उवाच:
क्षत्रिय़ाश्चैव वैश्याश्च शूद्राश्चैव समागताः ||
१३ ख
वैशम्पाय़न उवाच:
भवन्तः कुरवश्चैव वहुकालं सहोषिताः |
१४ क
वैशम्पाय़न उवाच:
परस्परस्य सुहृदः परस्परहिते रताः ||
१४ ख
वैशम्पाय़न उवाच:
यदिदानीमहं व्रूय़ामस्मिन्काल उपस्थिते |
१५ क
वैशम्पाय़न उवाच:
तथा भवद्भिः कर्तव्यमविचार्य वचो मम ||
१५ ख
वैशम्पाय़न उवाच:
अरण्यगमने वुद्धिर्गान्धारीसहितस्य मे |
१६ क
वैशम्पाय़न उवाच:
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च |
१६ ख
वैशम्पाय़न उवाच:
भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा ||
१६ ग
वैशम्पाय़न उवाच:
अस्माकं भवतां चैव येय़ं प्रीतिर्हि शाश्वती |
१७ क
वैशम्पाय़न उवाच:
न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम ||
१७ ख
वैशम्पाय़न उवाच:
श्रान्तोऽस्मि वय़सानेन तथा पुत्रविनाकृतः |
१८ क
वैशम्पाय़न उवाच:
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ||
१८ ख
वैशम्पाय़न उवाच:
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् |
१९ क
वैशम्पाय़न उवाच:
मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः ||
१९ ख
वैशम्पाय़न उवाच:
मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः |
२० क
वैशम्पाय़न उवाच:
ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ ||
२० ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः |
२१ क
वैशम्पाय़न उवाच:
वाष्पसन्दिग्धय़ा वाचा रुरुदुर्भरतर्षभ ||
२१ ख
वैशम्पाय़न उवाच:
तानविव्रुवतः किञ्चिद्दुःखशोकपराय़णान् |
२२ क
वैशम्पाय़न उवाच:
पुनरेव महातेजा धृतराष्ट्रोऽव्रवीदिदम् ||
२२ ख