chevron_left वन पर्व अध्याय ६५
वृहदश्व उवाच:
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते |
१ क
वृहदश्व उवाच:
द्विजान्प्रस्थापय़ामास नलदर्शनकाङ्क्षय़ा ||
१ ख
वृहदश्व उवाच:
सन्दिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् |
२ क
वृहदश्व उवाच:
मृगय़ध्वं नलं चैव दमय़न्तीं च मे सुताम् ||
२ ख
वृहदश्व उवाच:
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे |
३ क
वृहदश्व उवाच:
गवां सहस्रं दास्यामि यो वस्तावानय़िष्यति |
३ ख
वृहदश्व उवाच:
अग्रहारं च दास्यामि ग्रामं नगरसंमितम् ||
३ ग
वृहदश्व उवाच:
न चेच्छक्याविहानेतुं दमय़न्ती नलोऽपि वा |
४ क
वृहदश्व उवाच:
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ||
४ ख
वृहदश्व उवाच:
इत्युक्तास्ते यय़ुर्हृष्टा व्राह्मणाः सर्वतोदिशम् |
५ क
वृहदश्व उवाच:
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ||
५ ख
वृहदश्व उवाच:
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः |
६ क
वृहदश्व उवाच:
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि |
६ ख
वृहदश्व उवाच:
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ||
६ ग
वृहदश्व उवाच:
मन्दप्रख्याय़मानेन रूपेणाप्रतिमेन ताम् |
७ क
वृहदश्व उवाच:
पिनद्धां धूमजालेन प्रभामिव विभावसोः ||
७ ख
वृहदश्व उवाच:
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् |
८ क
वृहदश्व उवाच:
तर्कय़ामास भैमीति कारणैरुपपादय़न् ||
८ ख
सुदेव उवाच:
यथेय़ं मे पुरा दृष्टा तथारूपेय़मङ्गना |
९ क
सुदेव उवाच:
कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रिय़म् ||
९ ख
सुदेव उवाच:
पूर्णचन्द्राननां श्यामां चारुवृत्तपय़ोधराम् |
१० क
सुदेव उवाच:
कुर्वन्तीं प्रभय़ा देवीं सर्वा वितिमिरा दिशः ||
१० ख
सुदेव उवाच:
चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव |
११ क
सुदेव उवाच:
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ||
११ ख
सुदेव उवाच:
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् |
१२ क
सुदेव उवाच:
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ||
१२ ख
सुदेव उवाच:
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् |
१३ क
सुदेव उवाच:
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ||
१३ ख
सुदेव उवाच:
विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम् |
१४ क
सुदेव उवाच:
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ||
१४ ख
सुदेव उवाच:
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् |
१५ क
सुदेव उवाच:
दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ||
१५ ख
सुदेव उवाच:
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् |
१६ क
सुदेव उवाच:
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ||
१६ ख
सुदेव उवाच:
कामभोगैः प्रिय़ैर्हीनां हीनां वन्धुजनेन च |
१७ क
सुदेव उवाच:
देहं धारय़तीं दीनां भर्तृदर्शनकाङ्क्षय़ा ||
१७ ख
सुदेव उवाच:
भर्ता नाम परं नार्या भूषणं भूषणैर्विना |
१८ क
सुदेव उवाच:
एषा विरहिता तेन शोभनापि न शोभते ||
१८ ख
सुदेव उवाच:
दुष्करं कुरुतेऽत्यर्थं हीनो यदनय़ा नलः |
१९ क
सुदेव उवाच:
धारय़त्यात्मनो देहं न शोकेनावसीदति ||
१९ ख
सुदेव उवाच:
इमामसितकेशान्तां शतपत्राय़तेक्षणाम् |
२० क
सुदेव उवाच:
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ||
२० ख
सुदेव उवाच:
कदा नु खलु दुःखस्य पारं यास्यति वै शुभा |
२१ क
सुदेव उवाच:
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ||
२१ ख
सुदेव उवाच:
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति |
२२ क
सुदेव उवाच:
राजा राज्यपरिभ्रष्टः पुनर्लव्ध्वेव मेदिनीम् ||
२२ ख
सुदेव उवाच:
तुल्यशीलवय़ोय़ुक्तां तुल्याभिजनसंय़ुताम् |
२३ क
सुदेव उवाच:
नैषधोऽर्हति वैदर्भीं तं चेय़मसितेक्षणा ||
२३ ख
सुदेव उवाच:
युक्तं तस्याप्रमेय़स्य वीर्यसत्त्ववतो मय़ा |
२४ क
सुदेव उवाच:
समाश्वासय़ितुं भार्यां पतिदर्शनलालसाम् ||
२४ ख
सुदेव उवाच:
अय़माश्वासय़ाम्येनां पूर्णचन्द्रनिभाननाम् |
२५ क
सुदेव उवाच:
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ||
२५ ख
वृहदश्व उवाच:
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् |
२६ क
वृहदश्व उवाच:
उपगम्य ततो भैमीं सुदेवो व्राह्मणोऽव्रवीत् ||
२६ ख
वृहदश्व उवाच:
अहं सुदेवो वैदर्भि भ्रातुस्ते दय़ितः सखा |
२७ क
वृहदश्व उवाच:
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ||
२७ ख
वृहदश्व उवाच:
कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते |
२८ क
वृहदश्व उवाच:
आय़ुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते |
२८ ख
वृहदश्व उवाच:
त्वत्कृते वन्धुवर्गाश्च गतसत्त्वा इवासते ||
२८ ग
वृहदश्व उवाच:
अभिज्ञाय़ सुदेवं तु दमय़न्ती युधिष्ठिर |
२९ क
वृहदश्व उवाच:
पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ||
२९ ख
वृहदश्व उवाच:
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता |
३० क
वृहदश्व उवाच:
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ||
३० ख
वृहदश्व उवाच:
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् |
३१ क
वृहदश्व उवाच:
सुदेवेन सहैकान्ते कथय़न्तीं च भारत ||
३१ ख
वृहदश्व उवाच:
जनित्र्यै प्रेषय़ामास सैरन्ध्री रुदते भृशम् |
३२ क
वृहदश्व उवाच:
व्राह्मणेन समागम्य तां वेद यदि मन्यसे ||
३२ ख
वृहदश्व उवाच:
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा |
३३ क
वृहदश्व उवाच:
जगाम यत्र सा वाला व्राह्मणेन सहाभवत् ||
३३ ख
वृहदश्व उवाच:
ततः सुदेवमानाय़्य राजमाता विशां पते |
३४ क
वृहदश्व उवाच:
पप्रच्छ भार्या कस्येय़ं सुता वा कस्य भामिनी ||
३४ ख
वृहदश्व उवाच:
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना |
३५ क
वृहदश्व उवाच:
त्वय़ा च विदिता विप्र कथमेवङ्गता सती ||
३५ ख
वृहदश्व उवाच:
एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः |
३६ क
वृहदश्व उवाच:
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ||
३६ ख
वृहदश्व उवाच:
एवमुक्तस्तय़ा राजन्सुदेवो द्विजसत्तमः |
३७ क
वृहदश्व उवाच:
सुखोपविष्ट आचष्ट दमय़न्त्या यथातथम् ||
३७ ख