chevron_left द्रोण पर्व अध्याय ५५
सञ्जय़ उवाच:
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः |
१ क
सञ्जय़ उवाच:
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ||
१ ख
सञ्जय़ उवाच:
हा पुत्र मम मन्दाय़ाः कथं संय़ुगमेत्य ह |
२ क
सञ्जय़ उवाच:
निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः ||
२ ख
सञ्जय़ उवाच:
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् |
३ क
सञ्जय़ उवाच:
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ||
३ ख
सञ्जय़ उवाच:
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् |
४ क
सञ्जय़ उवाच:
सुशिरोग्रीववाह्वंसं व्यूढोरस्कं निरूदरम् ||
४ ख
सञ्जय़ उवाच:
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् |
५ क
सञ्जय़ उवाच:
भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् ||
५ ख
सञ्जय़ उवाच:
शय़नीय़ं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् |
६ क
सञ्जय़ उवाच:
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ||
६ ख
सञ्जय़ उवाच:
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः |
७ क
सञ्जय़ उवाच:
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ||
७ ख
सञ्जय़ उवाच:
योऽस्तूय़त पुरा हृष्टैः सूतमागधवन्दिभिः |
८ क
सञ्जय़ उवाच:
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते ||
८ ख
सञ्जय़ उवाच:
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो |
९ क
सञ्जय़ उवाच:
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ||
९ ख
सञ्जय़ उवाच:
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ |
१० क
सञ्जय़ उवाच:
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षय़म् ||
१० ख
सञ्जय़ उवाच:
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च |
११ क
सञ्जय़ उवाच:
तव पुत्र कदा भूय़ो मुखं द्रक्ष्यामि निर्व्रणम् ||
११ ख
सञ्जय़ उवाच:
धिग्वलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् |
१२ क
सञ्जय़ उवाच:
धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्वलम् ||
१२ ख
सञ्जय़ उवाच:
धिक्केकय़ांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जय़ान् |
१३ क
सञ्जय़ उवाच:
ये त्वा रणे गतं वीरं न जानन्ति निपातितम् ||
१३ ख
सञ्जय़ उवाच:
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् |
१४ क
सञ्जय़ उवाच:
अभिमन्युमपश्यन्ती शोकव्याकुललोचना ||
१४ ख
सञ्जय़ उवाच:
स्वस्रीय़ं वासुदेवस्य पुत्रं गाण्डीवधन्वनः |
१५ क
सञ्जय़ उवाच:
कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् ||
१५ ख
सञ्जय़ उवाच:
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे |
१६ क
सञ्जय़ उवाच:
अहो ह्यनित्यं मानुष्यं जलवुद्वुदचञ्चलम् ||
१६ ख
सञ्जय़ उवाच:
इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् |
१७ क
सञ्जय़ उवाच:
कथं सन्धारय़िष्यामि विवत्सामिव धेनुकाम् ||
१७ ख
सञ्जय़ उवाच:
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक |
१८ क
सञ्जय़ उवाच:
विहाय़ फलकाले मां सुगृद्धां तव दर्शने ||
१८ ख
सञ्जय़ उवाच:
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा |
१९ क
सञ्जय़ उवाच:
यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ||
१९ ख
सञ्जय़ उवाच:
यज्वनां दानशीलानां व्राह्मणानां कृतात्मनाम् |
२० क
सञ्जय़ उवाच:
चरितव्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ||
२० ख
सञ्जय़ उवाच:
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि |
२१ क
सञ्जय़ उवाच:
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ||
२१ ख
सञ्जय़ उवाच:
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् |
२२ क
सञ्जय़ उवाच:
हत्वारीन्निहतानां च सङ्ग्रामे तां गतिं व्रज ||
२२ ख
सञ्जय़ उवाच:
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः |
२३ क
सञ्जय़ उवाच:
नैवेशिकं चाभिमतं ददतां या गतिः शुभा ||
२३ ख
सञ्जय़ उवाच:
व्रह्मचर्येण यां यान्ति मुनय़ः संशितव्रता |
२४ क
सञ्जय़ उवाच:
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ||
२४ ख
सञ्जय़ उवाच:
राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती |
२५ क
सञ्जय़ उवाच:
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ||
२५ ख
सञ्जय़ उवाच:
दीनानुकम्पिनां या च सततं संविभागिनाम् |
२६ क
सञ्जय़ उवाच:
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ||
२६ ख
सञ्जय़ उवाच:
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि |
२७ क
सञ्जय़ उवाच:
अमोघातिथिनां या च तां गतिं व्रज पुत्रक ||
२७ ख
सञ्जय़ उवाच:
ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् |
२८ क
सञ्जय़ उवाच:
न चान्यदारसेवीनां तां गतिं व्रज पुत्रक ||
२८ ख
सञ्जय़ उवाच:
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः |
२९ क
सञ्जय़ उवाच:
नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ||
२९ ख
सञ्जय़ उवाच:
मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् |
३० क
सञ्जय़ उवाच:
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ||
३० ख
सञ्जय़ उवाच:
ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रिय़ाः |
३१ क
सञ्जय़ उवाच:
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ||
३१ ख
सञ्जय़ उवाच:
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् |
३२ क
सञ्जय़ उवाच:
अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा ||
३२ ख
सञ्जय़ उवाच:
ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः |
३३ क
सञ्जय़ उवाच:
उन्मत्तवत्तदा राजन्विसञ्ज्ञा न्यपतन्क्षितौ ||
३३ ख
सञ्जय़ उवाच:
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः |
३४ क
सञ्जय़ उवाच:
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ||
३४ ख
सञ्जय़ उवाच:
विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् |
३५ क
सञ्जय़ उवाच:
भगिनीं पुण्डरीकाक्ष इदं वचनमव्रवीत् ||
३५ ख
सञ्जय़ उवाच:
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासय़ोत्तराम् |
३६ क
सञ्जय़ उवाच:
गतोऽभिमन्युः प्रथितां गतिं क्षत्रिय़पुङ्गवः ||
३६ ख
सञ्जय़ उवाच:
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने |
३७ क
सञ्जय़ उवाच:
सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः ||
३७ ख
सञ्जय़ उवाच:
कुर्याम तद्वय़ं कर्म क्रिय़ासुः सुहृदश्च नः |
३८ क
सञ्जय़ उवाच:
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ||
३८ ख
सञ्जय़ उवाच:
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् |
३९ क
सञ्जय़ उवाच:
पार्थस्यैव महावाहुः पार्श्वमागादरिन्दमः ||
३९ ख
सञ्जय़ उवाच:
ततोऽभ्यनुज्ञाय़ नृपान्कृष्णो वन्धूंस्तथाभिभूः |
४० क
सञ्जय़ उवाच:
विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालय़म् ||
४० ख