chevron_left वन पर्व अध्याय ११५
वैशम्पाय़न उवाच:
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः |
१ क
वैशम्पाय़न उवाच:
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ||
१ ख
वैशम्पाय़न उवाच:
लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् |
२ क
वैशम्पाय़न उवाच:
भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् ||
२ ख
वैशम्पाय़न उवाच:
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः |
३ क
वैशम्पाय़न उवाच:
रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ||
३ ख
वैशम्पाय़न उवाच:
कदा नु रामो भगवांस्तापसान्दर्शय़िष्यति |
४ क
वैशम्पाय़न उवाच:
तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् ||
४ ख
अकृतव्रण उवाच:
आय़ानेवासि विदितो रामस्य विदितात्मनः |
५ क
अकृतव्रण उवाच:
प्रीतिस्त्वय़ि च रामस्य क्षिप्रं त्वां दर्शय़िष्यति ||
५ ख
अकृतव्रण उवाच:
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः |
६ क
अकृतव्रण उवाच:
अस्यां रात्र्यां व्यतीताय़ां भवित्री च चतुर्दशी ||
६ ख
युधिष्ठिर उवाच:
भवाननुगतो वीरं जामदग्न्यं महावलम् |
७ क
युधिष्ठिर उवाच:
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ||
७ ख
युधिष्ठिर उवाच:
स भवान्कथय़त्वेतद्यथा रामेण निर्जिताः |
८ क
युधिष्ठिर उवाच:
आहवे क्षत्रिय़ाः सर्वे कथं केन च हेतुना ||
८ ख
अकृतव्रण उवाच:
कन्यकुव्जे महानासीत्पार्थिवः सुमहावलः |
९ क
अकृतव्रण उवाच:
गाधीति विश्रुतो लोके वनवासं जगाम सः ||
९ ख
अकृतव्रण उवाच:
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा |
१० क
अकृतव्रण उवाच:
ऋचीको भार्गवस्तां च वरय़ामास भारत ||
१० ख
अकृतव्रण उवाच:
तमुवाच ततो राजा व्राह्मणं संशितव्रतम् |
११ क
अकृतव्रण उवाच:
उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्प्रवर्तितम् ||
११ ख
अकृतव्रण उवाच:
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् |
१२ क
अकृतव्रण उवाच:
सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम ||
१२ ख
अकृतव्रण उवाच:
न चापि भगवान्वाच्यो दीय़तामिति भार्गव |
१३ क
अकृतव्रण उवाच:
देय़ा मे दुहिता चेय़ं त्वद्विधाय़ महात्मने ||
१३ ख
ऋचीक उवाच:
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् |
१४ क
ऋचीक उवाच:
दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते ||
१४ ख
अकृतव्रण उवाच:
स तथेति प्रतिज्ञाय़ राजन्वरुणमव्रवीत् |
१५ क
अकृतव्रण उवाच:
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् |
१५ ख
अकृतव्रण उवाच:
सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीय़ताम् ||
१५ ग
अकृतव्रण उवाच:
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा |
१६ क
अकृतव्रण उवाच:
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हय़ाः ||
१६ ख
अकृतव्रण उवाच:
गङ्गाय़ां कन्यकुव्जे वै ददौ सत्यवतीं तदा |
१७ क
अकृतव्रण उवाच:
ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा |
१७ ख
अकृतव्रण उवाच:
लव्ध्वा हय़सहस्रं तु तांश्च दृष्ट्वा दिवौकसः ||
१७ ग
अकृतव्रण उवाच:
धर्मेण लव्ध्वा तां भार्यामृचीको द्विजसत्तमः |
१८ क
अकृतव्रण उवाच:
यथाकामं यथाजोषं तय़ा रेमे सुमध्यया ||
१८ ख
अकृतव्रण उवाच:
तं विवाहे कृते राजन्सभार्यमवलोककः |
१९ क
अकृतव्रण उवाच:
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ||
१९ ख
अकृतव्रण उवाच:
भार्यापती तमासीनं गुरुं सुरगणार्चितम् |
२० क
अकृतव्रण उवाच:
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ||
२० ख
अकृतव्रण उवाच:
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरव्रवीत् |
२१ क
अकृतव्रण उवाच:
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ||
२१ ख
अकृतव्रण उवाच:
सा वै प्रसादय़ामास तं गुरुं पुत्रकारणात् |
२२ क
अकृतव्रण उवाच:
आत्मनश्चैव मातुश्च प्रसादं च चकार सः ||
२२ ख
भृगुरु उवाच:
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय़ वै |
२३ क
भृगुरु उवाच:
आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्वरम् ||
२३ ख
भृगुरु उवाच:
आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् |
२४ क
भृगुरु उवाच:
कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् ||
२४ ख
भृगुरु उवाच:
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् |
२५ क
भृगुरु उवाच:
व्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ||
२५ ख
भृगुरु उवाच:
क्षत्रिय़ो व्राह्मणाचारो मातुस्तव सुतो महान् |
२६ क
भृगुरु उवाच:
भविष्यति महावीर्यः साधूनां मार्गमास्थितः ||
२६ ख
भृगुरु उवाच:
ततः प्रसादय़ामास श्वशुरं सा पुनः पुनः |
२७ क
भृगुरु उवाच:
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ||
२७ ख
भृगुरु उवाच:
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता |
२८ क
भृगुरु उवाच:
जमदग्निं ततः पुत्रं सा जज्ञे काल आगते |
२८ ख
भृगुरु उवाच:
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ||
२८ ग
भृगुरु उवाच:
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै |
२९ क
भृगुरु उवाच:
वहूनृषीन्महातेजाः पाण्डवेय़ात्यवर्तत ||
२९ ख
भृगुरु उवाच:
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ |
३० क
भृगुरु उवाच:
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ||
३० ख